ताडयामास गदया दयामुत्सृज्य पाशभृत् स तु तेन प्रहारेण स्रोतोभिः क्षतजं वमन्
दधार रूपं मेघस्य विद्युन्मालालतावृतम् तदवस्थागतं दृष्ट्वा कुजम्भं महिषासुरः
व्यावृत्तवदने ऽगाधे ग्रस्तुमैच्छत् सुरावुभौ निरृतिं वरुणं चैव तीक्ष्णदंष्ट्रोत्कटाननः
तावभिप्रायमालक्ष्य तस्य दैत्यस्य दूषितम् त्यक्त्वा रथपथं भीतौ महिषस्यातिरंहसा
भृशं द्रुतौ जवाद् दिग्भ्याम् उभाभ्यां भयविह्वलौ जगाम निरृतिः क्षिप्रं शरणं पाकशासनम्
क्रुद्धस्तु महिषो दैत्यो वरुणं समभिद्रुतः तमन्तकमुखासक्तम् आलोक्य हिमवद्द्युतिः
चक्रे सोमास्त्रनिःसृष्टं हिमसंघातकण्टकम् वायव्यं चास्त्रमतुलं चन्द्रश्चक्रे द्वितीयकम्
वायुना तेन चन्द्रेण संशुष्केण हिमेन च व्यथिता दानवाः सर्वे शीतोच्छिन्ना विपौरुषाः
न शेकुश्चलितुं पद्भ्यां नास्त्राण्यादातुमेव च महाहिमनिपातेन शस्त्रैश्चन्द्रप्रचोदितैः
गात्राण्यसुरसैन्यानाम् अदह्यन्त समन्ततः महिषो निष्प्रयत्नस्तु शीतेनाकम्पिताननः
कक्षावालम्ब्य पाणिभ्याम् उपविष्टो ह्यधोमुखः सर्वे ते निष्प्रतीकारा दैत्याश्चन्द्रमसा जिताः
रणेच्छां दूरतस्त्यक्त्वा तस्थुस्ते जीवितार्थिनः तत्राब्रवीत्कालनेमिर् दैत्यान्कोपेन दीपितः
भो भोः शृङ्गारिणः शराः सर्वे शस्त्रास्त्रपारगाः एकैको ऽपि जगत्सर्वं शक्तस्तुलयितुं भुजैः
एकैको ऽपि क्षमो ग्रस्तुं जगत्सर्वं चराचरम् एकैकस्यापि पर्याप्ता न सर्वे ऽपि दिवौकसः
कलां पूरयितुं यत्नात् षोडशीमतिविक्रमाः किं प्रयाताश्च तिष्ठध्वं समरे ऽमरनिर्जिताः
न युक्तमेतच्छूराणां विशेषाद्दैत्यजन्मनाम् राजा चान्तरितो ऽस्माकं तारको लोकमारकः
विरतानां रणादस्मात् क्रुद्धः प्राणान्हरिष्यति शीतेन नष्टश्रुतयो भ्रष्टवाक्पाटवास्तथा
मूकास्तदाभवन्दैत्या रणद्दशनपङ्क्तयः तान्दृष्ट्वा नष्टचेतस्कान् दैत्याञ्छीतेन सादितान्
मत्वा कालक्षमं कार्यं कालनेमिर्महासुरः आश्रित्य दानवीं मायां वितत्य स्वं महावपुः
पूरयामास गगनं दिशो विदिश एव च निर्ममे दानवेन्द्रेशः शरीरे भास्करायुतम्
दिशश्च मायया चण्डैः पूरयामास पावकैः ततो ज्वालाकुलं सर्वं त्रैलोक्यमभवत्क्षणात्
तेन ज्वालासमूहेन हिमांशुरगमच्छमम् ततः क्रमेण विभ्रष्टं शीतदुर्दिनम् आबभौ
तद्बलं दानवेन्द्राणां मायया कालनेमिनः तद्दृष्ट्वा दानवानीकं लब्धसंज्ञं दिवाकरः उवाचारुणमुद्भ्रान्तः कोपाल्लोकैकलोचनः
नयारुण रथं शीघ्रं कालनेमिरथो यतः विमर्दस्तत्र विषमो भविता शूरसंक्षयः
जित एष शशाङ्को ऽत्र यद्बलं वयमाश्रिताः इत्युक्तश्चोदयामास रथं गरुडपूर्वजः
प्रयत्नविधृतैरश्वैः सितचामरमालिभिः जगद्दीपो ऽथ भगवाञ् जग्राह विततं धनुः
शरौ च द्वौ महाभागो दिव्यावाशीविषद्युती संचारास्त्रेण संधाय बाणमेकं ससर्ज सः
द्वितीयमिन्द्रजालेन योजितं प्रमुमोच ह संचारास्त्रेण रूपाणां क्षणाच्चक्रे विपर्ययम्
देवानां दानवं रूपं दानवानां च दैविकम् मत्वा सुरान्स्वकानेव जघ्ने घोरास्त्रलाघवात्
कालनेमी रुषाविष्टः कृतान्त इव संक्षये कांश्चित्खड्गेन तीक्ष्णेन कांश्चिन् नाराचवृष्टिभिः कांश्चिद्गदाभिर्घोराभिः कांश्चिद्घोरैः परश्वधैः