अमूर्तश्चाभवल्लोको ह्य् अन्धकारसमावृतः ततो ऽन्तरिक्षे शंसन्ति तेजस्ते तु परिष्कृतम्
कुजम्भस्तत्समालोच्य दानवो ऽतिपराक्रमः अभिदुद्राव वेगेन पदातिर्धनदं नदन्
अथाभिमुखम् आयान्तं दैत्यं दृष्ट्वा धनाधिपः बभूव सम्भ्रमाविष्टः पलायनपरायणः
ततः पलायतस्तस्य मुकुटं रत्नमण्डितम् पपात भूतले दीप्तं रविबिम्बमिवाम्बरात्
शूराणामभिजातानां भर्तर्यपसृते रणात् मर्तुं संग्रामशिरसि युक्तं तद्भूषणाग्रतः
इति व्यवस्य दुर्धर्षा नानाशस्त्रास्त्रपाणयः युयुत्सवः स्थिता यक्षा मुकुटं परिवार्य तम्
अभिमानधना वीरा धनदस्य पदानुगाः तानमर्षाच्च सम्प्रेक्ष्य दानवश्चण्डपौरुषः
भुशुण्डीं भैरवाकारां गृहीत्वा शैलगौरवाम् रक्षिणो मुकुटस्याथ निष्पिपेष निशाचरान्
तान्प्रमथ्याथ दनुजो मुकुटं तत्स्वके रथे समारोप्यामररिपुर् जित्वा धनदमाहवे
धनानि रत्नानि च मूर्तिमन्ति तथा निधानानि शरीरिणश्च आदाय सर्वाणि जगाम दैत्यो जम्भः स्वसैन्यं दनुजेन्द्रसिंहः धनाधिपो वै विनिकीर्णमूर्धजो जगाम दीनः सुरभर्तुरन्तिकम्
कुजम्भेनाथ संसक्तो रजनीचरनन्दनः मायाममोघामाश्रित्य तामसीं राक्षसेश्वरः
मोहयामास दैत्येन्द्रं जगत्कृत्वा तमोमयम् ततो विफलनेत्राणि दानवानां बलानि तु
न शेकुश्चलितं तत्र पदादपि पदं तदा ततो नानास्त्रवर्षेण दानवानां महाचमूम्
जघान घननीहारतिमिरातुरवाहनाम् वध्यमानेषु दैत्येषु कुजम्भे मूढचेतसि
महिषो दानवेन्द्रस्तु कल्पान्ताम्भोदसंनिभः अस्त्रं चकार सावित्रम् उल्कासंघातमण्डितम्
विजृम्भत्यथ सावित्रे परमास्त्रे प्रतापिनि प्रणाशमगमत्तीव्रं तमो घोरमनन्तरम्
ततो ऽस्त्रं विस्फुलिङ्गाङ्कं तमः कृत्स्नं व्यनाशयत् प्रफुल्लारुणपद्मौघं शरदीवामलं सरः
ततस्तमसि संशान्ते दैत्येन्द्राः प्राप्तचक्षुषः चक्रुः क्रूरेण मनसा देवानीकैः सहाद्भुतम्
शस्त्रैरमर्षान्निर्मुक्तैर् भुजंगास्त्रं विनोदितम् अथादाय धनुर्घोरम् इषूंश्चाशीविषोपमान्
कुजम्भो ऽधावत क्षिप्तं रक्षोराजबलं प्रति राक्षसेन्द्रस्तम् आयान्तं विलोक्य सपदानुगः
विव्याध निशितैर्बाणैः क्रूराशीविषभीषणैः तदादानं च संधानं न मोक्षश्चापि लक्ष्यते
चिछेदास्य शरव्रातान् स्वशरैर् अतिलाघवात् ध्वजं परमतीक्ष्णेन चित्रकर्मामरद्विषः
सारथिं चास्य भल्लेन रथनीडादपातयत् कुजम्भः कर्म तद्दृष्ट्वा राक्षसेन्द्रस्य संयुगे
रोषरक्तेक्षणयुतो रथादाप्लुत्य दानवः खड्गं जग्राह वेगेन शरदम्बरनिर्मलम्
चर्म चोदयखण्डेन्दुदशकेन विभूषितम् अभ्यद्रवद्रणे दैत्यो रक्षो ऽधिपतिमोजसा
तं रक्षो ऽधिपतिः प्राप्तं मुद्गरेणाहनद्धृदि स तु तेन प्रहारेण क्षीणः संभ्रान्तमानसः
तस्थावचेष्टो दनुजो यथा धीरो धराधरः स मुहूर्तं समाश्वस्तो दानवेन्द्रो ऽतिदुर्जयः
रथमारुह्य जग्राह रक्षो वामकरेण तु केशेषु निरृतिं दैत्यो जानुनाक्रम्य धिष्ठितम्
ततः खड्गेन च शिरश् छेत्तुमैच्छदमर्षणः तस्मिंस्तदन्तरे देवो वरुणो ऽपांपतिर्द्रुतम्
पाशेन दानवेन्द्रस्य बबन्ध च भुजद्वयम् ततो बद्धभुजं दैत्यं विफलीकृतपौरुषम्