व्यर्थीकृतां तु तां दृष्ट्वा शरवृष्टिं धनाधिपः शक्तिं जग्राह दुर्धर्षां हेमघण्टाट्टहासिनीम्
बाहुना रत्नकेयूरकान्तिसंतानहासिना स तां निरूप्य वेगेन कुजम्भाय मुमोच ह
सा कुजम्भस्य हृदयं दारयामास दारुणम् वित्तेहा स्वल्पसत्त्वस्य पुरुषस्येव भाविता
अथास्य हृदयं भित्त्वा जगाम धरणीतलम् ततो मुहूर्तादस्वस्थो दानवो दारुणाकृतिः
जग्राह पट्टिशं दैत्यः प्रांशुं शितशिलामुखम् स तेन पट्टिशेनाजौ धनदस्य स्तनान्तरम्
वाक्येन तीक्ष्णरूपेण मर्मान्तरविसर्पिणा निर्बिभेदाभिजातस्य हृदयं दुर्जनो यथा
तेन पट्टिशघातेन धनेशः परिमूर्छितः निपपात रथोपस्थे जर्जरो धूर्वहो यथा
तथागतं तु तं दृष्ट्वा धनेशं नरवाहनम् खड्गास्त्रो निरृतिर्देवो निशाचरबलानुगः
अभिदुद्राव वेगेन कुजम्भं भीमविक्रमम् अथ दृष्ट्वा तु दुर्धर्षं कुजम्भो राक्षसेश्वरम्
चोदयामास सैन्यानि राक्षसेन्द्रवधं प्रति स दृष्ट्वा चोदितां सेनां भल्लनानास्त्रभीषणाम्
रथादाप्लुत्य वेगेन भूषणद्युतिभास्वरः खड्गेन कमलानीव विकोशेनाम्बरत्विषा
चिछेद रिपुवक्त्राणि विचित्राणि समन्ततः तिर्यक्पृष्ठमधश्चोर्ध्वं दीर्घबाहुर्महासिना
संदष्टौष्ठपुटाटोपभ्रुकुटीविकटाननः प्रचण्डकोपरक्ताक्षो न्यकृन्तद्दानवान्रणे
ततो निःशेषितप्रायां विलोक्य स्वामनीकिनीम् मुक्त्वा कुजम्भो धनदं राक्षसेन्द्रमभिद्रवन्
लब्धसंज्ञो ऽथ जम्भस्तु धनाध्यक्षपदानुगान् जीवग्राहान्स जग्राह बद्ध्वा पाशैः सहस्रशः
मूर्तिमन्ति तु रत्नानि विविधानि च दानवाः वाहनानि च दिव्यानि विमानानि सहस्रशः
धनेशो लब्धसंज्ञो ऽथ तामवस्थां विलोक्य तु निःश्वसन्दीर्घमुष्णं च रोषात्ताम्रविलोचनः
ध्यात्वास्त्रं गारुडं दिव्यं बाणं संधाय कार्मुके मुमोच दानवानीके तं बाणं शत्रुदारणम्
प्रथमं कार्मुकात्तस्य निश्चेरुर्धूमराजयः अनन्तरं स्फुलिङ्गानां कोटयो दीप्तवर्चसाम्
ततो ज्वालाकुलं व्योम चकारास्त्रं समन्ततः ततः क्रमेण दुर्वारं नानारूपं तदाभवत्
अमूर्तश्चाभवल्लोको ह्य् अन्धकारसमावृतः ततो ऽन्तरिक्षे शंसन्ति तेजस्ते तु परिष्कृतम्
कुजम्भस्तत्समालोच्य दानवो ऽतिपराक्रमः अभिदुद्राव वेगेन पदातिर्धनदं नदन्
अथाभिमुखम् आयान्तं दैत्यं दृष्ट्वा धनाधिपः बभूव सम्भ्रमाविष्टः पलायनपरायणः
ततः पलायतस्तस्य मुकुटं रत्नमण्डितम् पपात भूतले दीप्तं रविबिम्बमिवाम्बरात्
शूराणामभिजातानां भर्तर्यपसृते रणात् मर्तुं संग्रामशिरसि युक्तं तद्भूषणाग्रतः
इति व्यवस्य दुर्धर्षा नानाशस्त्रास्त्रपाणयः युयुत्सवः स्थिता यक्षा मुकुटं परिवार्य तम्
अभिमानधना वीरा धनदस्य पदानुगाः तानमर्षाच्च सम्प्रेक्ष्य दानवश्चण्डपौरुषः
भुशुण्डीं भैरवाकारां गृहीत्वा शैलगौरवाम् रक्षिणो मुकुटस्याथ निष्पिपेष निशाचरान्
तान्प्रमथ्याथ दनुजो मुकुटं तत्स्वके रथे समारोप्यामररिपुर् जित्वा धनदमाहवे
धनानि रत्नानि च मूर्तिमन्ति तथा निधानानि शरीरिणश्च आदाय सर्वाणि जगाम दैत्यो जम्भः स्वसैन्यं दनुजेन्द्रसिंहः धनाधिपो वै विनिकीर्णमूर्धजो जगाम दीनः सुरभर्तुरन्तिकम्