मोहं परमतो गच्छन् दृढविद्धो हि वित्तपः स क्षणाद्धैर्यमालम्ब्य धनुराकृष्य भैरवम्
किरन्बाणसहस्राणि निशितानि धनाधिपः दिशः खं विदिशो भूमीर् अनीकान्यसुरस्य च
पूरयामास वेगेन संछाद्य रविमण्डलम् जम्भो ऽपि परमेकैकं शरैर्बहुभिराहवे
चिछेद लघुसंधानो धनेशस्यातिपौरुषात् ततो धनेशः संक्रुद्धो दानवेन्द्रस्य कर्मणा
व्यधमत्तस्य सैन्यानि नानासायकवृष्टिभिः तद्दृष्ट्वा दुष्कृतं कर्म धनाध्यक्षस्य दानवः
गृहीत्वा मुद्गरं भीमम् आयसं हेमभूषितम् धनदानुचरान्यक्षान् निष्पिपेष सहस्रशः
ते वध्यमाना दैत्येन मुञ्चन्तो भैरवान्रवान् रथं धनपतेः सर्वे परिवार्य व्यवस्थिताः
दृष्ट्वा तानर्दितान्देवः शूलं जग्राह दारुणम् तेन दैत्यसहस्राणि सूदयामास सत्वरः
क्षीयमाणेषु दैत्येषु दानवः क्रोधमूर्छितः जग्राह परशुं दैत्यो मर्दनं दैत्यविद्विषाम्
स तेन शितधारेण धनभर्तुर् महारथम् चिछेद शतशो दैत्यो ह्य् आखुः स्निग्धमिवाम्बरम्
पदातिरथ वित्तेशो गदामादाय भैरवीम् महाहवविमर्देषु दृप्तशत्रुविनाशिनीम्
अधृष्यां सर्वभूतानां बहुवर्षगणार्चिताम् नानाचन्दनदिग्धाङ्गां दिव्यपुष्पविवासिताम्
निर्मलायोमयीं गुर्वीम् अमोघां हेमभूषणाम् चिक्षेप मूर्ध्नि संक्रुद्धो जम्भस्य तु धनाधिपः
आयान्तीं तां समालोक्य तडित्संघातमण्डिताम् दैत्यो गदाभिघातार्थं शस्त्रवृष्टिं मुमोच ह
चक्राणि कुणपान्प्रासान् भुशुण्डीः पट्टिशानपि हेमकेयूरनद्धाभ्यां बाहुभ्यां चण्डविक्रमः
व्यर्थीकृत्य तु तान्सर्वान् आयुधान्दैत्यवक्षसि प्रस्फुरन्ती पपातोग्रा महोल्केवाद्रिकन्दरे
स तयाभिहतो गाढं पपात रथकूबरे स्रोतोभिश्चास्य रुधिरं सुस्राव गतचेतसः
जम्भं तु निहतं मत्वा कुजम्भो भैरवस्वनः धनाधिपस्य संक्रुद्धो वाक्येनातीव कोपितः
चक्रे बाणमयं जालं दिक्षु यक्षाधिपस्य तु चिछेद बाणजालं तद् अर्धचन्द्रैः शितैस्ततः
मुमोच शरवृष्टिं तु तस्मै यक्षाधिपो बली स तं दैत्यः शरव्रातं चिछेद निशितैः शरैः
व्यर्थीकृतां तु तां दृष्ट्वा शरवृष्टिं धनाधिपः शक्तिं जग्राह दुर्धर्षां हेमघण्टाट्टहासिनीम्
बाहुना रत्नकेयूरकान्तिसंतानहासिना स तां निरूप्य वेगेन कुजम्भाय मुमोच ह
सा कुजम्भस्य हृदयं दारयामास दारुणम् वित्तेहा स्वल्पसत्त्वस्य पुरुषस्येव भाविता
अथास्य हृदयं भित्त्वा जगाम धरणीतलम् ततो मुहूर्तादस्वस्थो दानवो दारुणाकृतिः
जग्राह पट्टिशं दैत्यः प्रांशुं शितशिलामुखम् स तेन पट्टिशेनाजौ धनदस्य स्तनान्तरम्
वाक्येन तीक्ष्णरूपेण मर्मान्तरविसर्पिणा निर्बिभेदाभिजातस्य हृदयं दुर्जनो यथा
तेन पट्टिशघातेन धनेशः परिमूर्छितः निपपात रथोपस्थे जर्जरो धूर्वहो यथा
तथागतं तु तं दृष्ट्वा धनेशं नरवाहनम् खड्गास्त्रो निरृतिर्देवो निशाचरबलानुगः
अभिदुद्राव वेगेन कुजम्भं भीमविक्रमम् अथ दृष्ट्वा तु दुर्धर्षं कुजम्भो राक्षसेश्वरम्
चोदयामास सैन्यानि राक्षसेन्द्रवधं प्रति स दृष्ट्वा चोदितां सेनां भल्लनानास्त्रभीषणाम्