तमालोक्य यमः श्रान्तं निहतां च स्ववाहिनीम् आजगाम समुद्यम्य दण्डं महिषवाहनः
ग्रसनस्तु समायान्तम् आजघ्ने गदयोरसि अचिन्तयित्वा तत्कर्म ग्रसनस्यान्तको ऽरिहा
जघ्ने रथस्य मूर्धन्यान् व्याघ्रान्दण्डेन कोपनः स रथो दण्डमथितैर् व्याघ्रैरर्धैर् विकृष्यते
संशयः पुरुषस्येव चित्तं दैत्यस्य तद्रथम् समुत्सृज्य रथं दैत्यः पदातिर्धरणीं गतः
यमं भुजाभ्यामादाय योधयामास दानवः यमो ऽपि शस्त्राण्युत्सृज्य बाहुयुद्धेष्ववर्तत
ग्रसनः कटिवस्त्रैस्तु यमं गुह्य बलोद्धतः भ्रामयामास वेगेन प्रचित्तमिव सम्भ्रमः
यमो ऽपि कण्ठे ऽवष्टभ्य दैत्यं बाहुयुगेन तु वेगेन भ्रामयामास समुत्कृष्य महीतलात्
ततो मुष्टिभिरन्योन्यं निर्दयौ तौ निजघ्नतुः दैत्येन्द्रस्यातिकायत्वात् ततः श्रान्तभुजो यमः
स्कन्धे निधाय दैत्यस्य मुखं विश्रान्तिमैच्छत तमालक्ष्य ततो दैत्यः श्रान्तमन्तकमोजसा
निष्पिपेष महीपृष्ठे बहुशः पार्ष्णिपाणिभिः यावद्यमस्य वदनात् सुस्राव रुधिरं बहु
निर्जीवितं यमं दृष्ट्वा ततः संत्यज्य दानवः जयं प्राप्योद्धतं दैत्यो नादं मुक्त्वा महास्वनः
स्वयं सैन्यं समासाद्य तस्थौ गिरिरिवाचलः धनाधिपस्य जम्भेन सायकैर्मर्मभेदिभिः
दिशो ऽवरुद्धाः क्रुद्धेन सैन्यं चास्य निकृन्तितम् ततः क्रोधपरीतस्तु धनेशो जम्भदानवम्
हृदि विव्याध बाणानां सहस्रेणाग्निवर्चसाम् सारथिं च शतेनाजौ ध्वजं दशभिरेव च
हस्तौ च पञ्चसप्तत्या मार्गणैर्दशभिर्धनुः मार्गणैर् बर्हिपत्त्राङ्गैस् तैलधौतैरजिह्मगैः
सिंहमेकेन तं तीक्ष्णैर् विव्याध दशभिः शरैः जम्भस्तु कर्म तद्दृष्ट्वा धनेशस्यातिदुष्करम्
हृदि धैर्यं समालम्ब्य किंचित्संत्रस्तमानसः जग्राह निशितान्बाणाञ् छत्रुमर्मविभेदिनः
आकर्णाकृष्टचापस्तु जम्भः क्रोधपरिप्लुतः विव्याध धनदं तीक्ष्णैः शरैर्वक्षसि दानवः
सारथिं चास्य बाणेन दृढेनाभ्यहनद्धृदि चिछेद ज्यामथैकेन तैलधौतेन दानवः
ततस्तु निशितैर्बाणैर् दारुणैर् मर्मभेदिभिः विव्याधोरसि वित्तेशं दशभिः क्रूरकर्मकृत्
मोहं परमतो गच्छन् दृढविद्धो हि वित्तपः स क्षणाद्धैर्यमालम्ब्य धनुराकृष्य भैरवम्
किरन्बाणसहस्राणि निशितानि धनाधिपः दिशः खं विदिशो भूमीर् अनीकान्यसुरस्य च
पूरयामास वेगेन संछाद्य रविमण्डलम् जम्भो ऽपि परमेकैकं शरैर्बहुभिराहवे
चिछेद लघुसंधानो धनेशस्यातिपौरुषात् ततो धनेशः संक्रुद्धो दानवेन्द्रस्य कर्मणा
व्यधमत्तस्य सैन्यानि नानासायकवृष्टिभिः तद्दृष्ट्वा दुष्कृतं कर्म धनाध्यक्षस्य दानवः
गृहीत्वा मुद्गरं भीमम् आयसं हेमभूषितम् धनदानुचरान्यक्षान् निष्पिपेष सहस्रशः
ते वध्यमाना दैत्येन मुञ्चन्तो भैरवान्रवान् रथं धनपतेः सर्वे परिवार्य व्यवस्थिताः
दृष्ट्वा तानर्दितान्देवः शूलं जग्राह दारुणम् तेन दैत्यसहस्राणि सूदयामास सत्वरः
क्षीयमाणेषु दैत्येषु दानवः क्रोधमूर्छितः जग्राह परशुं दैत्यो मर्दनं दैत्यविद्विषाम्
स तेन शितधारेण धनभर्तुर् महारथम् चिछेद शतशो दैत्यो ह्य् आखुः स्निग्धमिवाम्बरम्