वञ्चयामास दुर्धर्षं मुद्गरं स महाबलः तस्मिन्नपसृते दूरं चण्डानां भीमकर्मणाम्
याम्यानां किंकराणां तु सहस्रं निष्पिपेष ह ततस्तां निहतां दृष्ट्वा घोरां किंकरवाहिनीम्
अगमत्परमं क्षोभं नानाप्रहरणोद्यतः ग्रसनस्तु समालोक्य तां किंकरमयीं चमूम्
मेने यमसहस्राणि सृष्टानि यममायया निग्राह्य ग्रसनः सेनां विसृजन्नस्त्रवृष्टयः
कल्पान्तघोरसंकाशो बभूव क्रोधमूर्छितः कांश्चिद्बिभेद शूलेन कांश्चिद्बाणैरजिह्मगैः
कांश्चित् पिपेष गदया कांश्च मुद्गरवृष्टिभिः केचित्प्रासप्रहारैश्च दारुणैस्ताडितास्तदा
अपरे बहुशस्तस्य ललम्बुर्बाहुमण्डले शिलाभिरपरे जघ्नुर् द्रुमैरन्यैर्महोच्छ्रयैः
तस्यापरे तु गात्रेषु दशनैरप्यदंशयन् अपरे मुष्टिभिः पृष्ठं किंकराः प्रहरन्ति च
अभिद्रुतस्तथा घोरैर् ग्रसनः क्रोधमूर्छितः उत्सृज्य गात्रं भूपृष्ठे निष्पिपेष सहस्रशः
कांश्चिदुत्थाय मुष्टिभिर् जघ्ने किंकरसंश्रयान् स तु किंकरयुद्धेन ग्रसनः श्रममाप्तवान्
तमालोक्य यमः श्रान्तं निहतां च स्ववाहिनीम् आजगाम समुद्यम्य दण्डं महिषवाहनः
ग्रसनस्तु समायान्तम् आजघ्ने गदयोरसि अचिन्तयित्वा तत्कर्म ग्रसनस्यान्तको ऽरिहा
जघ्ने रथस्य मूर्धन्यान् व्याघ्रान्दण्डेन कोपनः स रथो दण्डमथितैर् व्याघ्रैरर्धैर् विकृष्यते
संशयः पुरुषस्येव चित्तं दैत्यस्य तद्रथम् समुत्सृज्य रथं दैत्यः पदातिर्धरणीं गतः
यमं भुजाभ्यामादाय योधयामास दानवः यमो ऽपि शस्त्राण्युत्सृज्य बाहुयुद्धेष्ववर्तत
ग्रसनः कटिवस्त्रैस्तु यमं गुह्य बलोद्धतः भ्रामयामास वेगेन प्रचित्तमिव सम्भ्रमः
यमो ऽपि कण्ठे ऽवष्टभ्य दैत्यं बाहुयुगेन तु वेगेन भ्रामयामास समुत्कृष्य महीतलात्
ततो मुष्टिभिरन्योन्यं निर्दयौ तौ निजघ्नतुः दैत्येन्द्रस्यातिकायत्वात् ततः श्रान्तभुजो यमः
स्कन्धे निधाय दैत्यस्य मुखं विश्रान्तिमैच्छत तमालक्ष्य ततो दैत्यः श्रान्तमन्तकमोजसा
निष्पिपेष महीपृष्ठे बहुशः पार्ष्णिपाणिभिः यावद्यमस्य वदनात् सुस्राव रुधिरं बहु
निर्जीवितं यमं दृष्ट्वा ततः संत्यज्य दानवः जयं प्राप्योद्धतं दैत्यो नादं मुक्त्वा महास्वनः
स्वयं सैन्यं समासाद्य तस्थौ गिरिरिवाचलः धनाधिपस्य जम्भेन सायकैर्मर्मभेदिभिः
दिशो ऽवरुद्धाः क्रुद्धेन सैन्यं चास्य निकृन्तितम् ततः क्रोधपरीतस्तु धनेशो जम्भदानवम्
हृदि विव्याध बाणानां सहस्रेणाग्निवर्चसाम् सारथिं च शतेनाजौ ध्वजं दशभिरेव च
हस्तौ च पञ्चसप्तत्या मार्गणैर्दशभिर्धनुः मार्गणैर् बर्हिपत्त्राङ्गैस् तैलधौतैरजिह्मगैः
सिंहमेकेन तं तीक्ष्णैर् विव्याध दशभिः शरैः जम्भस्तु कर्म तद्दृष्ट्वा धनेशस्यातिदुष्करम्
हृदि धैर्यं समालम्ब्य किंचित्संत्रस्तमानसः जग्राह निशितान्बाणाञ् छत्रुमर्मविभेदिनः
आकर्णाकृष्टचापस्तु जम्भः क्रोधपरिप्लुतः विव्याध धनदं तीक्ष्णैः शरैर्वक्षसि दानवः
सारथिं चास्य बाणेन दृढेनाभ्यहनद्धृदि चिछेद ज्यामथैकेन तैलधौतेन दानवः
ततस्तु निशितैर्बाणैर् दारुणैर् मर्मभेदिभिः विव्याधोरसि वित्तेशं दशभिः क्रूरकर्मकृत्