समासाद्य तु ते ऽन्योन्यं प्रक्रमेण विलोमतः रथेनासक्तपादातो रथेन च तुरंगमः
हस्ती पदातिसंयुक्तो रथिना च क्वचिद्रथी मातंगेनापरो हस्ती तुरंगैर्बहुभिर्गजः
पदातिरेको बहुभिर् गजैर्मत्तैश्च युज्यते ततः प्रासाशनिगदाभिन्दिपालपरश्वधैः
शक्तिभिः पट्टिशैः शूलैर् मुद्गरैः कुणपैर्गडैः चक्रैश्च शङ्कुभिश्चैव तोमरैरङ्कुशैः सितैः
कर्णिनालीकनाराचवत्सदन्तार्धचन्द्रकैः भल्लैश्च शतपत्त्रैश्च शुकतुण्डैश्च निर्मलैः
वृष्टिरत्यद्भुताकारा गगने समदृश्यत संप्रच्छाद्य दिशः सर्वास् तमोमयमिवाकरोत्
न प्राज्ञायत ते ऽन्योन्यं तस्मिंस्तमसि संकुले अलक्ष्यं विसृजन्तस्ते हेतिसंघातमुद्धतम्
पतितं सेनयोर्मध्ये निरीक्षन्ते परस्परम् ततो ध्वजैर्भुजैश्छत्त्रैः शिरोभिश्च सकुण्डलैः
गजैस्तुरंगैः पादातैः पतद्भिः पतितैरपि आकाशसरसो भ्रष्टैः पङ्कजैरिव भूः स्तृता
भग्नदन्ता भिन्नकुम्भाश् छिन्नदीर्घमहाकराः गजाः शलनिभाः पेतुर् धरण्यां रुधिरस्रवाः
भग्नेषादण्डचक्राक्षा रथाश्च शकलीकृताः पेतुः शकलतां यातास् तुरंगाश्च सहस्रशः
ततो ऽसृघ्रददुस्तारा पृथिवी समजायत नद्यश्च रुधिरावर्ता हर्षदाः पिशिताशिनाम् वेतालाक्रीडमभवत् तत्संकुलरणाजिरम्
अथ ग्रसनमालोक्य यमः क्रोधविमूर्छितः ववर्ष शरवर्षेण विशेषेणाग्निवर्चसा
स विद्धो बहुभिर्बाणैर् ग्रसनो ऽतिपराक्रमः कृतप्रतिकृताकाङ्क्षी धनुरानम्य भैरवम्
शतैः पञ्चभिरत्युग्रैः शराणां यममर्दयत् स विचिन्त्य यमो बाणान् ग्रसनस्यातिपौरुषम्
बाणवृष्टिभिरुग्राभिर् यमो ग्रसनमर्दयत् कृतान्तशरवृष्टिं तां वियति प्रतिसर्पिणीम्
चिछेद शरवर्षेण ग्रसनो दानवेश्वरः विफलां तां समालोक्य यमस्तां शरसंततिम्
स विचिन्त्य शरव्रातं ग्रसनस्य रथं प्रति चिक्षेप मुद्गरं घोरं तरसा तस्य चान्तकः
स तं मुद्गरम् आयान्तम् उत्प्लुत्य गगनस्थितम् जग्राह वामहस्तेन याम्यं दानवनन्दनः
तमेव मुद्गरं गृह्य यमस्य महिषं रुषा पातयामास वेगेन स पपात महीतले
उत्प्लुत्याथ यमस्तस्मान् महिषान्निष्पतिष्यतः प्रासेन ताडयामास ग्रसनं वदने दृढम्
स तु प्रासप्रहारेण मूर्छितो न्यपतद्भुवि ग्रसनं पतितं दृष्ट्वा जम्भो भीमपराक्रमः
यमस्य भिन्दिपालेन प्रहारमकरोद्धृदि यमस्तेन प्रहारेण सुस्राव रुधिरं मुखात्
कृतान्तं मर्दितं दृष्ट्वा गदापाणिर्धनाधिपः वृतो यक्षायुतशतैर् जम्भं प्रत्युद्ययौ रुषा
जम्भो रुषा तम् आयान्तं दानवानीकसंवृतः उवाच प्राज्ञो वाक्यं तु यथा स्निग्धेन भाषितम्
ग्रसनो लब्धसंज्ञो ऽथ यमस्य प्राहिणोद्गदाम् मणिहेमपरिष्कारां गुर्वीम् अरिविमर्दिनीम्
तामप्रतर्क्यां सम्प्रेक्ष्य गदां महिषवाहनः गदायाः प्रतिघातार्थं जगद्दलनभैरवम्
दण्डं मुमोच कोपेन ज्वालामालासमाकुलम् स गदां वियति प्राप्य ररासाम्बुधरो यथा
संघट्टमभवत्ताभ्यां शैलाभ्यामिव दुःसहम् ताभ्यां निष्पेषनिर्ह्रादजडीकृतदिगन्तरम्
जगद् व्याकुलतां यातं प्रलयागमशङ्कया क्षणात्प्रशान्तनिर्ह्रादं ज्वलदुल्कासमाचितम्