हेमपीतोत्तरासङ्गाश् चित्रवर्मरथायुधाः नाकपृष्ठशिखण्डास्तु वैडूर्यमकरध्वजाः
जपारक्तोत्तरासङ्गा राक्षसा रक्तमूर्धजाः गृध्रध्वजा महावीर्या निर्मलायोविभूषणाः
मुसलासिगदाहस्ता रथे चोष्णीषदंशिताः महामेघरवा नागा भीमोल्काशनिहेतयः
यक्षाः कृष्णाम्बरभृतो भीमबाणधनुर्धराः ताम्रोलूकध्वजा रौद्रा हेमरत्नविभूषणाः
द्वीपिचर्मोत्तरासङ्गं निशाचरबलं बभौ गार्ध्रपत्त्रध्वजप्रायम् अस्थिभूषणभूषितम्
मुसलायुधदुष्प्रेक्ष्यं नानाप्राणिमहारवम् किंनराः श्वेतवसनाः सितपत्त्रिपताकिनः
मत्तेभवाहनप्रायास् तीक्ष्णतोमरहेतयः मुक्ताजालपरिष्कारो हंसो रजतनिर्मितः
केतुर्जलाधिनाथस्य भीमधूमध्वजानलः पद्मरागमहारत्नविटपं धनदस्य तु
ध्वजं समुच्छ्रितं भाति गन्तुकाममिवाम्बरम् वृकेण काष्ठलोहेन यमस्यासीन्महाध्वजः
राक्षसेशस्य केतोर्वै प्रेतस्य मुखमाबभौ हेमसिंहध्वजौ देवौ चन्द्रार्कावमितद्युती
कुम्भेन रत्नचित्रेण केतुर् अश्विनयोर् अभूत् हेममातंगरचितं चित्ररत्नपरिष्कृतम्
ध्वजं शतक्रतोरासीत् सितचामरमण्डितम् सनागयक्षगन्धर्वम् अहोरगनिशाचरा
सेना सा देवराजस्य दुर्जया भुवनत्रये कोटयस्तास् त्रयस्त्रिंशद् देवदेवनिकायिनाम्
हिमाचलाभे सितकर्णचामरे सुवर्णपद्मामलसुन्दरस्रजि कृताभिरागोज्ज्वलकुङ्कुमाङ्कुरे कपोललीलालिकदम्बसंकुले
स्थितस्तदैरावतनामकुञ्जरे महाबलश्चित्रविभूषणाम्बरः विशालवस्त्रांशुवितानभूषितः प्रकीर्णकेयूरभुजाग्रमण्डलः सहस्रदृग्बन्दिसहस्रसंस्तुतस् त्रिविष्टपे ऽशोभत पाकशासनः
तुरंगमातंगबलौघसंकुला सितातपत्रध्वजराजिशालिनी चमूश्च सा दुर्जयपत्त्रिसंतता विभाति नानायुधयोधदुस्तरा
सुरासुराणां सम्मर्दस् तस्मिन्नत्यन्तदारुणे तुमुलो ऽतिमहानासीत् सेनयोरुभयोरपि
गर्जतां देवदैत्यानां शङ्खभेरीरवेण च तूर्याणां चैव निर्घोषैर् मातंगानां च बृंहितैः
ह्वेषतां हयवृन्दानां रथनेमिस्वनेन च ज्याघोषेण च शूराणां तुमुलो ऽतिमहानभूत्
समासाद्योभये सेने परस्परजयैषिणाम् रोषेणातिपरीतानां त्यक्तजीवितचेतसाम्
समासाद्य तु ते ऽन्योन्यं प्रक्रमेण विलोमतः रथेनासक्तपादातो रथेन च तुरंगमः
हस्ती पदातिसंयुक्तो रथिना च क्वचिद्रथी मातंगेनापरो हस्ती तुरंगैर्बहुभिर्गजः
पदातिरेको बहुभिर् गजैर्मत्तैश्च युज्यते ततः प्रासाशनिगदाभिन्दिपालपरश्वधैः
शक्तिभिः पट्टिशैः शूलैर् मुद्गरैः कुणपैर्गडैः चक्रैश्च शङ्कुभिश्चैव तोमरैरङ्कुशैः सितैः
कर्णिनालीकनाराचवत्सदन्तार्धचन्द्रकैः भल्लैश्च शतपत्त्रैश्च शुकतुण्डैश्च निर्मलैः
वृष्टिरत्यद्भुताकारा गगने समदृश्यत संप्रच्छाद्य दिशः सर्वास् तमोमयमिवाकरोत्
न प्राज्ञायत ते ऽन्योन्यं तस्मिंस्तमसि संकुले अलक्ष्यं विसृजन्तस्ते हेतिसंघातमुद्धतम्
पतितं सेनयोर्मध्ये निरीक्षन्ते परस्परम् ततो ध्वजैर्भुजैश्छत्त्रैः शिरोभिश्च सकुण्डलैः
गजैस्तुरंगैः पादातैः पतद्भिः पतितैरपि आकाशसरसो भ्रष्टैः पङ्कजैरिव भूः स्तृता
भग्नदन्ता भिन्नकुम्भाश् छिन्नदीर्घमहाकराः गजाः शलनिभाः पेतुर् धरण्यां रुधिरस्रवाः