तेषां सामादि नैवास्ति दण्ड एव विधीयताम् क्रियतां समरोद्योगः सैन्यं संयोज्यतां मम
आद्रियन्तां च शस्त्राणि पूज्यन्तामस्त्रदेवताः वाहनानि च यानानि योजयन्तु ममामराः
यमं सेनापतिं कृत्वा शीघ्रमेवं दिवौकसः इत्युक्ताः समनह्यन्त देवानां ये प्रधानतः
वाजिनामयुतेनाजौ हेमघण्टापरिष्कृतम् नानाश्चर्यगुणोपेतं सम्प्राप्तं सर्वदैवतैः
रथं मातलिना कॢप्तं देवराजस्य दुर्जयम् यमो महिषमास्थाय सेनाग्रे समवर्तत
चण्डकिंकरवृन्देन सर्वतः परिवारितः कल्पकालोद्धतज्वालापूरिताम्बरलोचनः
हुताशनश्छागरूढः शक्तिहस्तो व्यवस्थितः पवनो ऽङ्कुशपाणिस्तु विस्तारितमहाजवः
भुजगेन्द्रसमारूढो जलेशो भगवान्स्वयम् नरयुक्तरथे देवो राक्षसेशो वियच्चरः
तीक्ष्णखड्गयुतो भीमः समरे समवस्थितः महासिंहरवो देवो धनाध्यक्षो गदायुधः
चन्द्रादित्यावश्विनौ च चतुरङ्गबलान्वितौ राजभिः सहितास्तस्थुर् गन्धर्वा हेमभूषणाः
हेमपीतोत्तरासङ्गाश् चित्रवर्मरथायुधाः नाकपृष्ठशिखण्डास्तु वैडूर्यमकरध्वजाः
जपारक्तोत्तरासङ्गा राक्षसा रक्तमूर्धजाः गृध्रध्वजा महावीर्या निर्मलायोविभूषणाः
मुसलासिगदाहस्ता रथे चोष्णीषदंशिताः महामेघरवा नागा भीमोल्काशनिहेतयः
यक्षाः कृष्णाम्बरभृतो भीमबाणधनुर्धराः ताम्रोलूकध्वजा रौद्रा हेमरत्नविभूषणाः
द्वीपिचर्मोत्तरासङ्गं निशाचरबलं बभौ गार्ध्रपत्त्रध्वजप्रायम् अस्थिभूषणभूषितम्
मुसलायुधदुष्प्रेक्ष्यं नानाप्राणिमहारवम् किंनराः श्वेतवसनाः सितपत्त्रिपताकिनः
मत्तेभवाहनप्रायास् तीक्ष्णतोमरहेतयः मुक्ताजालपरिष्कारो हंसो रजतनिर्मितः
केतुर्जलाधिनाथस्य भीमधूमध्वजानलः पद्मरागमहारत्नविटपं धनदस्य तु
ध्वजं समुच्छ्रितं भाति गन्तुकाममिवाम्बरम् वृकेण काष्ठलोहेन यमस्यासीन्महाध्वजः
राक्षसेशस्य केतोर्वै प्रेतस्य मुखमाबभौ हेमसिंहध्वजौ देवौ चन्द्रार्कावमितद्युती
कुम्भेन रत्नचित्रेण केतुर् अश्विनयोर् अभूत् हेममातंगरचितं चित्ररत्नपरिष्कृतम्
ध्वजं शतक्रतोरासीत् सितचामरमण्डितम् सनागयक्षगन्धर्वम् अहोरगनिशाचरा
सेना सा देवराजस्य दुर्जया भुवनत्रये कोटयस्तास् त्रयस्त्रिंशद् देवदेवनिकायिनाम्
हिमाचलाभे सितकर्णचामरे सुवर्णपद्मामलसुन्दरस्रजि कृताभिरागोज्ज्वलकुङ्कुमाङ्कुरे कपोललीलालिकदम्बसंकुले
स्थितस्तदैरावतनामकुञ्जरे महाबलश्चित्रविभूषणाम्बरः विशालवस्त्रांशुवितानभूषितः प्रकीर्णकेयूरभुजाग्रमण्डलः सहस्रदृग्बन्दिसहस्रसंस्तुतस् त्रिविष्टपे ऽशोभत पाकशासनः
तुरंगमातंगबलौघसंकुला सितातपत्रध्वजराजिशालिनी चमूश्च सा दुर्जयपत्त्रिसंतता विभाति नानायुधयोधदुस्तरा
सुरासुराणां सम्मर्दस् तस्मिन्नत्यन्तदारुणे तुमुलो ऽतिमहानासीत् सेनयोरुभयोरपि
गर्जतां देवदैत्यानां शङ्खभेरीरवेण च तूर्याणां चैव निर्घोषैर् मातंगानां च बृंहितैः
ह्वेषतां हयवृन्दानां रथनेमिस्वनेन च ज्याघोषेण च शूराणां तुमुलो ऽतिमहानभूत्
समासाद्योभये सेने परस्परजयैषिणाम् रोषेणातिपरीतानां त्यक्तजीवितचेतसाम्