न शान्तिगोचरे लुब्धः क्रूरो लब्धसमाश्रयः संतापितः खलो याति साध्यतां भ्रष्टसंशयः
साम दैत्येषु नैवास्ति यतस्ते लब्धसंश्रयाः जातिधर्मेण वा भेद्या दानं प्राप्तश्रिये च किम्
एको ऽभ्युपायो दण्डो ऽत्र भवतां यदि रोचते दुर्जनेषु कृतं साम महद्याति च वन्ध्यताम्
भवादिति व्यवस्यन्ति क्रूराः साम महात्मनाम् ऋजुतामार्यबुद्धित्वं दयानीतिव्यतिक्रमम्
मन्यन्ते दुर्जना नित्यं साम चापि भयोदयात् तस्माद् दुर्जनम् आक्रान्तुं श्रेयान्पौरुषसंश्रयः
आक्रान्ते तु क्रिया युक्ता सतामेतन्महाव्रतम् दुर्जनः सुजनत्वाय कल्पते न कदाचन
सुजनो ऽपि स्वभावस्य त्यागं वाञ्छेत्कदाचन एवं मे बुध्यते बुद्धिर् यूयमत्र व्यवस्यत
एवमुक्तः सहस्राक्ष एवमेवेत्युवाच तम् कर्तव्यतां स संचिन्त्य प्रोवाचामरसंसदि
सावधानेन मे वाचं शृणुध्वं नाकवासिनः भवन्तो यज्ञभोक्तारस् तुष्टात्मानो ऽतिसात्त्विकाः
स्वे महिम्नि स्थिता नित्यं जगतः परिपालकाः भवतश्चानिमित्तेन बाधने दानवेश्वराः
तेषां सामादि नैवास्ति दण्ड एव विधीयताम् क्रियतां समरोद्योगः सैन्यं संयोज्यतां मम
आद्रियन्तां च शस्त्राणि पूज्यन्तामस्त्रदेवताः वाहनानि च यानानि योजयन्तु ममामराः
यमं सेनापतिं कृत्वा शीघ्रमेवं दिवौकसः इत्युक्ताः समनह्यन्त देवानां ये प्रधानतः
वाजिनामयुतेनाजौ हेमघण्टापरिष्कृतम् नानाश्चर्यगुणोपेतं सम्प्राप्तं सर्वदैवतैः
रथं मातलिना कॢप्तं देवराजस्य दुर्जयम् यमो महिषमास्थाय सेनाग्रे समवर्तत
चण्डकिंकरवृन्देन सर्वतः परिवारितः कल्पकालोद्धतज्वालापूरिताम्बरलोचनः
हुताशनश्छागरूढः शक्तिहस्तो व्यवस्थितः पवनो ऽङ्कुशपाणिस्तु विस्तारितमहाजवः
भुजगेन्द्रसमारूढो जलेशो भगवान्स्वयम् नरयुक्तरथे देवो राक्षसेशो वियच्चरः
तीक्ष्णखड्गयुतो भीमः समरे समवस्थितः महासिंहरवो देवो धनाध्यक्षो गदायुधः
चन्द्रादित्यावश्विनौ च चतुरङ्गबलान्वितौ राजभिः सहितास्तस्थुर् गन्धर्वा हेमभूषणाः
हेमपीतोत्तरासङ्गाश् चित्रवर्मरथायुधाः नाकपृष्ठशिखण्डास्तु वैडूर्यमकरध्वजाः
जपारक्तोत्तरासङ्गा राक्षसा रक्तमूर्धजाः गृध्रध्वजा महावीर्या निर्मलायोविभूषणाः
मुसलासिगदाहस्ता रथे चोष्णीषदंशिताः महामेघरवा नागा भीमोल्काशनिहेतयः
यक्षाः कृष्णाम्बरभृतो भीमबाणधनुर्धराः ताम्रोलूकध्वजा रौद्रा हेमरत्नविभूषणाः
द्वीपिचर्मोत्तरासङ्गं निशाचरबलं बभौ गार्ध्रपत्त्रध्वजप्रायम् अस्थिभूषणभूषितम्
मुसलायुधदुष्प्रेक्ष्यं नानाप्राणिमहारवम् किंनराः श्वेतवसनाः सितपत्त्रिपताकिनः
मत्तेभवाहनप्रायास् तीक्ष्णतोमरहेतयः मुक्ताजालपरिष्कारो हंसो रजतनिर्मितः
केतुर्जलाधिनाथस्य भीमधूमध्वजानलः पद्मरागमहारत्नविटपं धनदस्य तु
ध्वजं समुच्छ्रितं भाति गन्तुकाममिवाम्बरम् वृकेण काष्ठलोहेन यमस्यासीन्महाध्वजः
राक्षसेशस्य केतोर्वै प्रेतस्य मुखमाबभौ हेमसिंहध्वजौ देवौ चन्द्रार्कावमितद्युती