महिषस्य तु गोमायुः केतोर्हैमस्तदाभवत् ध्वाङ्क्षो ध्वजे तु शुम्भस्य कृष्णायोमयमुच्छ्रितम्
अनेकाकारविन्यासाश् चान्येषां तु ध्वजास्तथा शतेन शीघ्रवेगाणां व्याघ्राणां हेममालिनाम्
ग्रसनस्य रथो युक्तां किङ्किणीजालमालिनाम् शतेनापि च सिंहानां रथो जम्भस्य दुर्जयः
कुजम्भस्य रथो युक्तः पिशाचवदनैः खरैः रथस्तु महिषस्योष्ट्रैर् गजस्य तु तुरंगमैः
मेषस्य द्वीपिभिर्भीमैः कुञ्जरैः कालनेमिनः पर्वताभैः समारूढो निमिर्मत्तैर्महागजैः
चतुर्दन्तैर्गन्धवद्भिः शिक्षितैर्मेघभैरवैः शतहस्तायतैः कृष्णैस् तुरंगैर्हेमभूषणैः
सितचामरजालेन शोभिते दक्षिणां दिशम् सितचन्दनचार्वङ्गो नानापुष्पस्रजोज्ज्वलः
मथनो नाम दैत्येन्द्रः पाशहस्तो व्यराजत जम्भकः किङ्किणीजालमालमुष्ट्रं समास्थितः
कालशुक्लमहामेषम् आरूढः शुम्भदानवः अन्ये ऽपि दानवा वीरा नानावाहनगामिनः
प्रचण्डचित्रकर्माणः कुण्डलोष्णीषभूषणाः नानाविधोत्तरासङ्गा नानामाल्यविभूषणाः
नानासुगन्धिगन्धाढ्या नानाबन्दिजनस्तुताः नानावाद्यपरिस्पन्दाश् चाग्रेसरमहारथाः
नानाशौर्यकथासक्तास् तस्मिन्सैन्ये महासुराः तद्बलं दैत्यसिंहस्य भीमरूपं व्यजायत
प्रमत्तचण्डमातंगतुरंगरथसंकुलम् प्रतस्थे ऽमरयुद्धाय बहुपत्तिपताकि तत्
एतस्मिन्नन्तरे वायुर् देवदूतो ऽम्बरालये दृष्ट्वा स दानवबलं जगामेन्द्रस्य शंसितुम्
स गत्वा तु सभां दिव्यां महेन्द्रस्य महात्मनः शशंस मध्ये देवानां तत्कार्यं समुपस्थितम्
तच्छ्रुत्वा देवराजस्तु निमीलितविलोचनः बृहस्पतिमुवाचेदं वाक्यं काले महाभुजः
सम्प्राप्तो ऽति विमर्दो ऽयं देवानां दानवैः सह कार्यं किमत्र तद्ब्रूहि नीत्युपायसमन्वितम्
एतच्छ्रुत्वा तु वचनं महेन्द्रस्य गिरांपतिः इत्युवाच महाभागो बृहस्पतिरुदारधीः
सामपूर्वा स्मृता नीतिश् चतुरङ्गा पताकिनी जिगीषतां सुरश्रेष्ठ स्थितिरेषा सनातनी
साम भेदस्तथा दानं दण्डश्चाङ्गचतुष्टयम् नीतौ क्रमाद्देशकालरिपुयोग्यक्रमादिदम्
न शान्तिगोचरे लुब्धः क्रूरो लब्धसमाश्रयः संतापितः खलो याति साध्यतां भ्रष्टसंशयः
साम दैत्येषु नैवास्ति यतस्ते लब्धसंश्रयाः जातिधर्मेण वा भेद्या दानं प्राप्तश्रिये च किम्
एको ऽभ्युपायो दण्डो ऽत्र भवतां यदि रोचते दुर्जनेषु कृतं साम महद्याति च वन्ध्यताम्
भवादिति व्यवस्यन्ति क्रूराः साम महात्मनाम् ऋजुतामार्यबुद्धित्वं दयानीतिव्यतिक्रमम्
मन्यन्ते दुर्जना नित्यं साम चापि भयोदयात् तस्माद् दुर्जनम् आक्रान्तुं श्रेयान्पौरुषसंश्रयः
आक्रान्ते तु क्रिया युक्ता सतामेतन्महाव्रतम् दुर्जनः सुजनत्वाय कल्पते न कदाचन
सुजनो ऽपि स्वभावस्य त्यागं वाञ्छेत्कदाचन एवं मे बुध्यते बुद्धिर् यूयमत्र व्यवस्यत
एवमुक्तः सहस्राक्ष एवमेवेत्युवाच तम् कर्तव्यतां स संचिन्त्य प्रोवाचामरसंसदि
सावधानेन मे वाचं शृणुध्वं नाकवासिनः भवन्तो यज्ञभोक्तारस् तुष्टात्मानो ऽतिसात्त्विकाः
स्वे महिम्नि स्थिता नित्यं जगतः परिपालकाः भवतश्चानिमित्तेन बाधने दानवेश्वराः