अभवन्किंकरास्तस्य लोकपालाश्च सर्वशः कान्तिर्द्युतिर्धृतिर्मेधा श्रीरवेक्ष्य च दानवम्
परिवव्रुर्गुणाकीर्णा निश्छिद्राः सर्व एव हि कालागुरुविलिप्ताङ्गं महामुकुटभूषणम्
रुचिराङ्गदनद्धाङ्गं महासिंहासने स्थितम् वीजयन्त्यप्सरःश्रेष्ठा भृशं मुञ्चन्ति नैव ताः
चन्द्रार्कौ दीपमार्गेषु व्यजनेषु च मारुतः कृतान्तो ऽग्रेसरस्तस्य बभूवुर्मुनिसत्तमाः
एवं प्रयाति काले तु वितते तारकासुरः बभाषे सचिवान्दैत्यः प्रभूतवरदर्पितः
राज्येन कारणं किं मे त्व् अनाक्रम्य त्रिविष्टपम् अनिर्याप्य सुरैर्वैरं का शान्तिर्हृदये मम
भुञ्जते ऽद्यापि यज्ञांशान् अमरा नाक एव हि विष्णुः श्रियं न जहति तिष्ठते च गतभ्रमः
स्वस्थाभिः स्वर्गनारीभिः पीड्यन्ते ऽमरवल्लभाः सोत्पला मदिरामोदा दिवि क्रीडायनेषु च
लब्ध्वा जन्म न यः कश्चिद् घटयेत्पौरुषं नरः जन्म तस्य वृथा भूतम् अजन्मा तु विशिष्यते
मातापितृभ्यां न करोति कामान् बन्धूनशोकान्न करोति यो वा कीर्तिं हि वा नार्जयते हिमाभां पुमान्स जातो ऽपि मृतो मतं मे
तस्माज्जयायामरपुंगवानां त्रैलोक्यलक्ष्मीहरणाय शीघ्रम् संयोज्यतां मे रथमष्टचक्रं बलं च मे दुर्जयदैत्यचक्रम् ध्वजं च मे काञ्चनपट्टनद्धं छत्त्रं च मे मौक्तिकजालबद्धम्
तारकस्य वचः श्रुत्वा ग्रसनो नाम दानवः सेनानीर् दैत्यराजस्य तथा चक्रे बलान्वितः
आहत्य भेरीं गम्भीरां दैत्यानाहूय सत्वरः तुरगाणां सहस्रेण चक्राष्टकविभूषितम्
शुक्लाम्बरपरिष्कारं चतुर्योजनविस्तृतम् नानाक्रीडागृहयुतं गीतवाद्यमनोहरम्
विमानमिव देवस्य सुरभर्तुः शतक्रतोः दशकोटीश्वरा दैत्या दैत्यानां चण्डविक्रमाः
तेषामग्रेसरो जम्भः कुजम्भो ऽनन्तरस्ततः महिषः कुञ्जरो मेघः कालनेमिर्निमिस्तथा
मथनो जम्भकः शुम्भो दैत्येन्द्रा दश नायकाः अन्ये ऽपि शतशस्तस्य पृथिवीदलनक्षमाः
दैत्येन्द्रा गिरिवर्ष्माणः सन्ति चण्डपराक्रमाः नानायुधप्रहरणा नानाशस्त्रास्त्रपारगाः
तारकस्याभवत्केतू रौद्रः कनकभूषणः केतुना मकरेणापि सेनानीर् ग्रसनो ऽरिहा
पैशाचं यस्य वदनं जम्भस्यासीदयोमयम् खरविधूतलाङ्गूलं कुजम्भस्याभवद्ध्वजे
महिषस्य तु गोमायुः केतोर्हैमस्तदाभवत् ध्वाङ्क्षो ध्वजे तु शुम्भस्य कृष्णायोमयमुच्छ्रितम्
अनेकाकारविन्यासाश् चान्येषां तु ध्वजास्तथा शतेन शीघ्रवेगाणां व्याघ्राणां हेममालिनाम्
ग्रसनस्य रथो युक्तां किङ्किणीजालमालिनाम् शतेनापि च सिंहानां रथो जम्भस्य दुर्जयः
कुजम्भस्य रथो युक्तः पिशाचवदनैः खरैः रथस्तु महिषस्योष्ट्रैर् गजस्य तु तुरंगमैः
मेषस्य द्वीपिभिर्भीमैः कुञ्जरैः कालनेमिनः पर्वताभैः समारूढो निमिर्मत्तैर्महागजैः
चतुर्दन्तैर्गन्धवद्भिः शिक्षितैर्मेघभैरवैः शतहस्तायतैः कृष्णैस् तुरंगैर्हेमभूषणैः
सितचामरजालेन शोभिते दक्षिणां दिशम् सितचन्दनचार्वङ्गो नानापुष्पस्रजोज्ज्वलः
मथनो नाम दैत्येन्द्रः पाशहस्तो व्यराजत जम्भकः किङ्किणीजालमालमुष्ट्रं समास्थितः
कालशुक्लमहामेषम् आरूढः शुम्भदानवः अन्ये ऽपि दानवा वीरा नानावाहनगामिनः
प्रचण्डचित्रकर्माणः कुण्डलोष्णीषभूषणाः नानाविधोत्तरासङ्गा नानामाल्यविभूषणाः