साधु साध्वित्यवोचंस्ते तत्र दैत्याः सविस्मयाः सो ऽगच्छत्पारियात्रस्य गिरेः कन्दरमुत्तमम्
सर्वर्तुकुसुमाकीर्णं नानौषधिविदीपितम् नानाधातुरसस्रावचित्रं नानागुहागृहम्
गहनैः सर्वतो गूढं चित्रकल्पद्रुमाश्रयम् अनेकाकारबहुलं पृथक्पक्षिकुलाकुलम्
नानाप्रस्रवणोपेतं नानाविधजलाशयम् प्राप्य तत्कन्दरं दैत्यश् चचार विपुलं तपः
निराहारः पञ्चतपाः पत्त्रभुग्वारिभोजनः शतं शतं समानां तु तपांस्येतानि सो ऽकरोत्
ततः स्वदेहादुत्कृत्य कर्षं कर्षं दिने दिने मांसस्याग्नौ जुहावासौ ततो निर्मांसतां गतः
तस्मिन्निर्मांसतां याते तपोराशित्वमागते जज्वलुः सर्वभूतानि तेजसा तस्य सर्वतः
उद्विग्नाश्च सुराः सर्वे तपसा तस्य भीषिताः एतस्मिन्नन्तरे ब्रह्मा परमं तोषमागतः
तारकस्य वरं दातुं जगाम त्रिदशालयात् प्राप्य तं शैलराजानं स गिरेः कन्दरस्थितम् उवाच तारकं देवो गिरा मधुरया युतः
पुत्रालं तपसा ते ऽस्तु नास्त्यसाध्यं तवाधुना वरं वृणीष्व रुचिरं यत्ते मनसि वर्तते
इत्युक्तस्तारको दैत्यः प्रणम्यात्मभुवं विभुम् उवाच प्राञ्जलिर्भूत्वा प्रणतः पृथुविक्रमः
देवभूतमनोवास वेत्सि जन्तुविचेष्टितम् कृतप्रतिकृताकाङ्क्षी जिगीषुः प्रायशो जनः
वयं च जातिधर्मेण कृतवैराः सहामरैः तैश्च निःशेषिता दैत्याः क्रूरैः संत्यज्य धर्मिताम् तेषामहं समुद्धर्ता भवेयमिति मे मतिः
अवध्यः सर्वभूतानाम् अस्त्राणां च महौजसाम् स्यामहं परमो ह्येष वरो मम हृदि स्थितः
एतन्मे देहि देवेश नान्यो मे रोचते वरः तमुवाच ततो दैत्यं विरिञ्चिः सुरनायकः
न युज्यन्ते विना मृत्युं देहिनो दैत्यसत्तम यतस्ततो ऽपि वरय मृत्युं यस्मान्न शङ्कसे
ततः संचिन्त्य दैत्येन्द्रः शिशोर्वै सप्तवासरात् वव्रे महासुरो मृत्युम् अवलेपेन मोहितः
ब्रह्मा चास्मै वरं दत्त्वा यत्किंचिन्मनसेप्सितम् जगाम त्रिदिवं देवो दैत्यो ऽपि स्वकमालयम्
उत्तीर्णं तपसस्तं तु दैत्यं दैत्येश्वरास्तथा परिवव्रुः सहस्राक्षं दिवि देवगणा यथा
तस्मिन्महति राज्यस्थे तारके दैत्यनन्दने ऋतवो मूर्तिमन्तश्च स्वकालगुणबृंहिताः
अभवन्किंकरास्तस्य लोकपालाश्च सर्वशः कान्तिर्द्युतिर्धृतिर्मेधा श्रीरवेक्ष्य च दानवम्
परिवव्रुर्गुणाकीर्णा निश्छिद्राः सर्व एव हि कालागुरुविलिप्ताङ्गं महामुकुटभूषणम्
रुचिराङ्गदनद्धाङ्गं महासिंहासने स्थितम् वीजयन्त्यप्सरःश्रेष्ठा भृशं मुञ्चन्ति नैव ताः
चन्द्रार्कौ दीपमार्गेषु व्यजनेषु च मारुतः कृतान्तो ऽग्रेसरस्तस्य बभूवुर्मुनिसत्तमाः
एवं प्रयाति काले तु वितते तारकासुरः बभाषे सचिवान्दैत्यः प्रभूतवरदर्पितः
राज्येन कारणं किं मे त्व् अनाक्रम्य त्रिविष्टपम् अनिर्याप्य सुरैर्वैरं का शान्तिर्हृदये मम
भुञ्जते ऽद्यापि यज्ञांशान् अमरा नाक एव हि विष्णुः श्रियं न जहति तिष्ठते च गतभ्रमः
स्वस्थाभिः स्वर्गनारीभिः पीड्यन्ते ऽमरवल्लभाः सोत्पला मदिरामोदा दिवि क्रीडायनेषु च
लब्ध्वा जन्म न यः कश्चिद् घटयेत्पौरुषं नरः जन्म तस्य वृथा भूतम् अजन्मा तु विशिष्यते
मातापितृभ्यां न करोति कामान् बन्धूनशोकान्न करोति यो वा कीर्तिं हि वा नार्जयते हिमाभां पुमान्स जातो ऽपि मृतो मतं मे