एतच्छ्रुत्वा वचो देवः पद्मगर्भोद्भवस्तदा उवाच दैत्यराजानं प्रसन्नश्चतुराननः
अलं ते तपसा वत्स मा क्लेशे दुस्तरे विश पुत्रस्ते तारको नाम भविष्यति महाबलः
देवसीमन्तिनीनां तु धम्मिल्लस्य विमोक्षणः इत्युक्तो दैत्यनाथस्तु प्रणिपत्य पितामहम्
आगत्यानन्दयामास महिषीं हर्षिताननः तौ दम्पती कृतार्थौ तु जग्मतुः स्वाश्रमं मुदा
वज्राङ्गेणाहितं गर्भं वराङ्गी वरवर्णिनी पूर्णं वर्षसहस्रं च दधारोदर एव हि
ततो वर्षसहस्रान्ते वराङ्गी सुषुवे सुतम् जायमाने तु दैत्येन्द्रे तस्मिंल्लोकभयंकरे
चचाल सकला पृथ्वी समुद्राश्च चकम्पिरे चेलुर्महीधराः सर्वे ववुर्वाताश्च भीषणाः
जेपुर्जप्यं मुनिवरा नेदुर्व्यालमृगा अपि चन्द्रसूर्यौ जहुः कान्तिं सनीहारा दिशो ऽभवन्
जाते महासुरे तस्मिन् सर्वे चापि महासुराः आजग्मुर्हृषितास्तत्र तथा चासुरयोषितः
जगुर्हर्षसमाविष्टा ननृतुश्चासुराङ्गनाः ततो महोत्सवो जातो दानवानां द्विजोत्तमाः
विषण्णमनसो देवाः समहेन्द्रास्तदाभवन् वराङ्गी स्वसुतं दृष्ट्वा हर्षेणापूरिता तदा
बहु मेने न देवेन्द्रविजयं तु तदेव सा जातमात्रस्तु दैत्येन्द्रस् तारकश्चण्डविक्रमः
अभिषिक्तो ऽसुरैः सर्वैः कुजम्भमहिषादिभिः सर्वासुरमहाराज्ये पृथिवीतुलनक्षमैः
स तु प्राप्य महाराज्यं तारको मुनिसत्तमाः उवाच दानवश्रेष्ठान् युक्तियुक्तमिदं वचः
शृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः श्रेयसे क्रियतां बुद्धिः सर्वैः कृत्यस्य संविधौ
वंशक्षयकरा देवाः सर्वेषामेव दानवाः अस्माकं जातिधर्मो वै विरूढं वैरमक्षयम्
वयमद्य गमिष्यामः सुराणां निग्रहाय तु स्वबाहुबलमाश्रित्य सर्व एव न संशयः
किंतु नातपसा युक्तो मन्ये ऽहं सुरसंगमम् अहमादौ करिष्यामि ततो घोरं दितेः सुताः
ततः सुरान्विजेष्यामो भोक्ष्यामो ऽथ जगत्त्रयम् स्थिरोपायो हि पुरुषः स्थिरश्रीरपि जायते
रक्षितुं नैव शक्नोति चपलश्चपलाः श्रियः तच्छ्रुत्वा दानवाः सर्वे वाक्यं तस्यासुरस्य तु
साधु साध्वित्यवोचंस्ते तत्र दैत्याः सविस्मयाः सो ऽगच्छत्पारियात्रस्य गिरेः कन्दरमुत्तमम्
सर्वर्तुकुसुमाकीर्णं नानौषधिविदीपितम् नानाधातुरसस्रावचित्रं नानागुहागृहम्
गहनैः सर्वतो गूढं चित्रकल्पद्रुमाश्रयम् अनेकाकारबहुलं पृथक्पक्षिकुलाकुलम्
नानाप्रस्रवणोपेतं नानाविधजलाशयम् प्राप्य तत्कन्दरं दैत्यश् चचार विपुलं तपः
निराहारः पञ्चतपाः पत्त्रभुग्वारिभोजनः शतं शतं समानां तु तपांस्येतानि सो ऽकरोत्
ततः स्वदेहादुत्कृत्य कर्षं कर्षं दिने दिने मांसस्याग्नौ जुहावासौ ततो निर्मांसतां गतः
तस्मिन्निर्मांसतां याते तपोराशित्वमागते जज्वलुः सर्वभूतानि तेजसा तस्य सर्वतः
उद्विग्नाश्च सुराः सर्वे तपसा तस्य भीषिताः एतस्मिन्नन्तरे ब्रह्मा परमं तोषमागतः
तारकस्य वरं दातुं जगाम त्रिदशालयात् प्राप्य तं शैलराजानं स गिरेः कन्दरस्थितम् उवाच तारकं देवो गिरा मधुरया युतः
पुत्रालं तपसा ते ऽस्तु नास्त्यसाध्यं तवाधुना वरं वृणीष्व रुचिरं यत्ते मनसि वर्तते