मातृभ्रातृपितृस्वसृसखिसम्बन्धिबान्धवान् अपि जन्मायुतैर्दृष्टान् अनुभूतान्सहस्रशः
एतेषां मानसी कन्या विरजा नाम विश्रुता या पत्नी नहुषस्यासीद् ययातेर्जननी तथा
एकाष्टकाभवत् पश्चाद् ब्रह्मलोके गता सती त्रय एते गणाः प्रोक्ताश् चतुर्थं तु वदाम्यतः
लोकास्तु मानसा नाम ब्रह्माण्डोपरि संस्थिताः येषां तु मानसी कन्या नर्मदा नाम विश्रुता
सोमपा नाम पितरो यत्र तिष्ठन्ति शाश्वताः धर्ममूर्तिधराः सर्वे परतो ब्रह्मणः स्मृताः
उत्पन्नाः स्वधया ते तु ब्रह्मत्वं प्राप्य योगिनः कृत्वा सृष्ट्यादिकं सर्वं मानसे साम्प्रतं स्थिताः
नर्मदा नाम तेषां तु कन्या तोयवहा सरित् भूतानि या पावयति दक्षिणापथगामिनी
तेभ्यः सर्वे तु मनवः प्रजाः सर्गेषु निर्मिताः ज्ञात्वा श्राद्धानि कुर्वन्ति धर्माभावे ऽपि सर्वदा
तेभ्य एव पुनः प्राप्तुं प्रसादाद्योगसंततिम् पितॄणामादिसर्गे तु श्राद्धमेव विनिर्मितम्
सर्वेषां राजतं पात्रम् अथवा रजतान्वितम् दत्तं स्वधा पुरोधाय पितॄन् प्रीणाति सर्वदा
अग्नीषोमयमानां तु कार्यमाप्यायनं बुधः अग्न्यभावे ऽपि विप्रस्य प्राणाव् अपि जले ऽथवा
अजाकर्णे ऽश्वकर्णे वा गोष्ठे वा सलिलान्तिके पितॄणाम् अम्बरं स्थानं दक्षिणा दिक्प्रशस्यते
प्राचीनावीतमुदकं तिलाः सव्याङ्गमेव च दर्भा मांसं च पाठीनं गोक्षीरं मधुरा रसाः
खड्गलोहामिषमधुकुशश्यामाकशालयः यवनीवारमुद्गेक्षुशुक्लपुष्पघृतानि च
वल्लभानि प्रशस्तानि पितॄणामिह सर्वदा द्वेष्याणि सम्प्रवक्ष्यामि श्राद्धे वर्ज्यानि यानि तु
मसूरशणनिष्पावराजमाषकुसुम्भिकाः पद्मबिल्वार्कधत्तूरपारिभद्राटरूषकाः
न देयाः पितृकार्येषु पयश्चाजाविकं तथा कोद्रवोदारचणकाः कपित्थं मधुकातसी
एतान्यपि न देयानि पितृभ्यः प्रियमिच्छता पितॄन् प्रीणाति यो भक्त्या ते पुनः प्रीणयन्ति तम्
यच्छन्ति पितरः पुष्टिं स्वर्गारोग्यं प्रजाफलम् देवकार्यादपि पुनः पितृकार्यं विशिष्यते
देवतानां च पितरः पूर्वमाप्यायनं स्मृतम् शीघ्रप्रसादास्त्वक्रोधा निःशस्त्राः स्थिरसौहृदाः
शान्तात्मानः शौचपराः सततं प्रियवादिनः भक्तानुरक्ताः सुखदाः पितरः पूर्वदेवताः
हविष्मतामाधिपत्ये श्राद्धदेवः स्मृतो रविः एतद्वः सर्वमाख्यातं पितृवंशानुकीर्तनम् पुण्यं पवित्रम् आयुष्यं कीर्तनीयं सदा नृभिः
श्रुत्वैतत् सर्वम् अखिलं मनुः पप्रच्छ केशवम् श्राद्धकालं च विविधं श्राद्धभेदं तथैव च
श्राद्धेषु भोजनीया ये ये च वर्ज्या द्विजातयः कस्मिन्वासरभागे वा पितृभ्यः श्राद्धमाचरेत्
कस्मिन्दत्तं कथं याति श्राद्धं तु मधुसूदन विधिना केन कर्तव्यं कथं प्रीणाति तत्पितॄन्
कुर्यादहरहः श्राद्धम् अन्नाद्येनोदकेन वा पयोमूलफलैर् वापि पितृभ्यः प्रीतिमावहन्
नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते नित्यं तावत्प्रवक्ष्यामि अर्घ्यावाहनवर्जितम्
अदैवं तद्विजानीयात् पार्वणं पर्वसु स्मृतम् पार्वणं त्रिविधं प्रोक्तं शृणु तावन्महीपते
पार्वणे ये नियोज्यास्तु ताञ्शृणुष्व नराधिप पञ्चाग्निः स्नातकश्चैव त्रिसुपर्णः षडङ्गवित्
श्रोत्रियः श्रोत्रियसुतो विधिवाक्यविशारदः सर्वज्ञो वेदविन्मन्त्री ज्ञातवंशः कुलान्वितः