तस्यां तपसि वर्तन्त्याम् इन्द्रश्चक्रे विभीषिकाम् भूत्वा तु मर्कटस्तत्र तदाश्रमपदं महान्
चक्रे विलोलं निःशेषं तुम्बीघटकरण्डकम् ततस्तु मेघरूषेण कम्पं तस्याकरोन्महान्
ततो भुजंगरूपेण बद्ध्वा च चरणद्वयम् अपाकर्षत्ततो दूरं भ्रमंस्तस्या महीमिमाम्
तपोबलाढ्या सा तस्य न वध्यत्वं जगाम ह ततो गोमायुरूपेण तस्यादूषयदाश्रमम्
ततस्तु मेघरूपेण तस्याः क्लेदयदाश्रमम् भीषिकाभिर् अनेकाभिस् तां क्लिश्यन्पाकशासनः
विरराम यदा नैवं वज्राङ्गमहिषी तदा शैलस्य दुष्टतां मत्वा शापं दातुं व्यवस्थिता
स शापाभिमुखां दृष्ट्वा शैलः पुरुषविग्रहः उवाच तां वरारोहां वराङ्गीं भीरुचेतनः
नाहं वराङ्गने दुष्टः सेव्यो ऽहं सर्वदेहिनाम् विभ्रमं तु करोत्येष रुषितः पाकशासनः
एतस्मिन्नन्तरे जातः कालो वर्षसहस्रिकः तस्मिन्गते तु भगवान् काले कमलसंभवः तुष्टः प्रोवाच वज्राङ्गं तमागम्य जलाश्रयम्
ददामि सर्वकामांस्ते उत्तिष्ठ दितिनन्दन एवमुक्तस्तदोत्थाय दैत्येन्द्रस्तपसां निधिः उवाच प्राञ्जलिर्वाक्यं सर्वलोकपितामहम्
आसुरो मास्तु मे भावः सन्तु लोका ममाक्षयाः तपस्येव रतिर् मेऽस्तु शरीरस्यास्तु वर्तनम्
एवमस्त्विति तं देवो जगाम स्वकमालयम् वज्राङ्गो ऽपि समाप्ते तु तपसि स्थिरसंयमः
आहारमिच्छन्भार्यां स्वां न ददर्शाश्रमे स्वके क्षुधाविष्टः स शैलस्य गहनं प्रविवेश ह
आदातुं फलमूलानि स च तस्मिन्व्यलोकयत् रुदतीं तां प्रियां दीनां तनुप्रच्छादिताननाम् तां विलोक्य स दैत्येन्द्रः प्रोवाच परिसान्त्वयन्
केन ते ऽपकृतं भीरु यमलोकं यियासुना कं वा कामं प्रयच्छामि शीघ्रं मे ब्रूहि भामिनि
त्रासितास्म्यपविद्धास्मि ताडिता पीडितापि च रौद्रेण देवराजेन नष्टनाथेव भूरिशः
दुःखपारमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता पुत्रं मे तारकं देहि दुःखशोकमहार्णवात्
एवमुक्तः स दैत्येन्द्रः कोपव्याकुललोचनः शक्तो ऽपि देवराजस्य प्रतिकर्तुं महासुरः
तपः कर्तुं पुनर्दैत्यो व्यवस्वेत महाबलः ज्ञात्वा तु तस्य संकल्पं ब्रह्मा क्रूरतरं पुनः
आजगाम तदा तत्र यत्रासौ दितिनन्दनः उवाच तस्मै भगवान् प्रभुर्मधुरया गिरा
किमर्थं पुत्रं भूयस्त्वं नियमं क्रूरमिच्छसि आहाराभिमुखो दैत्य तन्नो ब्रूहि महाव्रत
यावदब्दसहस्रेण निराहारस्य यत्फलम् क्षणेनैकेन तल्लभ्यं त्यक्त्वाहारमुपस्थितम्
त्यागो ह्यप्राप्तकामानां कामेभ्यो न तथा गुरुः यथा प्राप्तं परित्यज्य कामं कमललोचन
श्रुत्वैतद्ब्रह्मणो वाक्यं दैत्यः प्राञ्जलिरब्रवीत् चिन्तयंस्तपसा युक्तो हृदि ब्रह्ममुखेरितम्
उत्थितेन मया दृष्टा समाधानात्त्वदाज्ञया महिषी भीषिता दीना रुदती शाखिनस्तले
सा मयोक्ता तु तन्वङ्गी दूयमानेन चेतसा किमेवं वर्तसे भीरु वद त्वं किं चिकीर्षसि
इत्युक्ता सा मया देव प्रोवाच स्खलिताक्षरम् वाक्यं चोवाच तन्वङ्गी भीता सा हेतुसंहितम्
त्रासितास्म्यपविद्धास्मि कर्षिता पीडितास्मि च रौद्रेण देवराजेन नष्टनाथेव भूरिशः
दुःखस्यान्तमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता पुत्रं मे तारकं देहि ह्य् अस्माद्दुःखमहार्णवात्
एवमुक्तस्तु संक्षुब्धस् तस्याः पुत्रार्थमुद्यतः तपो घोरं करिष्यामि जयाय त्रिदिवौकसाम्