न मे कृत्यमनेनास्ति मातुराज्ञा कृता मया त्वं सुरासुरनाथो ऽसि मम च प्रपितामहः
करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः तपसे मे रतिर्देव निर्विघ्नं चैव मे भवेत्
त्वत्प्रसादेन भगवन्न् इत्युक्त्वा विरराम सः तस्मिंस्तूष्णीं स्थिते दैत्ये प्रोवाचेदं पितामहः
तपस्त्वं क्रूरमापन्नो ह्य् अस्मच्छासनसंस्थितः अनया चित्तशुद्ध्या ते पर्याप्तं जन्मनः फलम्
इत्युक्त्वा पद्मजः कन्यां ससर्जायतलोचनाम् तामस्मै प्रददौ देवः पत्न्यर्थं पद्मसम्भवः
वराङ्गीति च नामास्याः कृत्वा यातः पितामहः वज्राङ्गो ऽपि तया सार्धं जगाम तपसे वनम्
ऊर्ध्वबाहुः स दैत्येन्द्रो ऽचरदब्दसहस्रकम् कालं कमलपत्त्राक्षः शुद्धबुद्धिर् महातपाः
तावच्चावाङ्मुखः कालं तावत्पञ्चाग्निमध्यगः निराहारो घोरतपास् तपोराशिरजायत
ततः सो ऽन्तर्जले चक्रे कालं वर्षसहस्रकम् जलान्तरं प्रविष्टस्य तस्य पत्नी महाव्रता
तस्यैव तीरे सरसस् तत्प्रीत्या मौनमास्थिता निराहारा तपो घोरं प्रविवेश महाद्युतिः
तस्यां तपसि वर्तन्त्याम् इन्द्रश्चक्रे विभीषिकाम् भूत्वा तु मर्कटस्तत्र तदाश्रमपदं महान्
चक्रे विलोलं निःशेषं तुम्बीघटकरण्डकम् ततस्तु मेघरूषेण कम्पं तस्याकरोन्महान्
ततो भुजंगरूपेण बद्ध्वा च चरणद्वयम् अपाकर्षत्ततो दूरं भ्रमंस्तस्या महीमिमाम्
तपोबलाढ्या सा तस्य न वध्यत्वं जगाम ह ततो गोमायुरूपेण तस्यादूषयदाश्रमम्
ततस्तु मेघरूपेण तस्याः क्लेदयदाश्रमम् भीषिकाभिर् अनेकाभिस् तां क्लिश्यन्पाकशासनः
विरराम यदा नैवं वज्राङ्गमहिषी तदा शैलस्य दुष्टतां मत्वा शापं दातुं व्यवस्थिता
स शापाभिमुखां दृष्ट्वा शैलः पुरुषविग्रहः उवाच तां वरारोहां वराङ्गीं भीरुचेतनः
नाहं वराङ्गने दुष्टः सेव्यो ऽहं सर्वदेहिनाम् विभ्रमं तु करोत्येष रुषितः पाकशासनः
एतस्मिन्नन्तरे जातः कालो वर्षसहस्रिकः तस्मिन्गते तु भगवान् काले कमलसंभवः तुष्टः प्रोवाच वज्राङ्गं तमागम्य जलाश्रयम्
ददामि सर्वकामांस्ते उत्तिष्ठ दितिनन्दन एवमुक्तस्तदोत्थाय दैत्येन्द्रस्तपसां निधिः उवाच प्राञ्जलिर्वाक्यं सर्वलोकपितामहम्
आसुरो मास्तु मे भावः सन्तु लोका ममाक्षयाः तपस्येव रतिर् मेऽस्तु शरीरस्यास्तु वर्तनम्
एवमस्त्विति तं देवो जगाम स्वकमालयम् वज्राङ्गो ऽपि समाप्ते तु तपसि स्थिरसंयमः
आहारमिच्छन्भार्यां स्वां न ददर्शाश्रमे स्वके क्षुधाविष्टः स शैलस्य गहनं प्रविवेश ह
आदातुं फलमूलानि स च तस्मिन्व्यलोकयत् रुदतीं तां प्रियां दीनां तनुप्रच्छादिताननाम् तां विलोक्य स दैत्येन्द्रः प्रोवाच परिसान्त्वयन्
केन ते ऽपकृतं भीरु यमलोकं यियासुना कं वा कामं प्रयच्छामि शीघ्रं मे ब्रूहि भामिनि
त्रासितास्म्यपविद्धास्मि ताडिता पीडितापि च रौद्रेण देवराजेन नष्टनाथेव भूरिशः
दुःखपारमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता पुत्रं मे तारकं देहि दुःखशोकमहार्णवात्
एवमुक्तः स दैत्येन्द्रः कोपव्याकुललोचनः शक्तो ऽपि देवराजस्य प्रतिकर्तुं महासुरः
तपः कर्तुं पुनर्दैत्यो व्यवस्वेत महाबलः ज्ञात्वा तु तस्य संकल्पं ब्रह्मा क्रूरतरं पुनः
आजगाम तदा तत्र यत्रासौ दितिनन्दनः उवाच तस्मै भगवान् प्रभुर्मधुरया गिरा