चकार सप्तधा गर्भं कुलिशेन तु देवराट् एकैकं तु पुनः खण्डं चकार मघवा ततः
सप्तधा सप्तधा कोपात् प्राबुध्यत ततो दितिः विबुध्योवाच मा शक्र घातयेथाः प्रजां मम
तच्छ्रुत्वा निर्गतः शक्रः स्थित्वा प्राञ्जलिरग्रतः उवाच वाक्यं संत्रस्तो मातुर्वै वदनेरितम्
दिवास्वप्नपरा मातः पादाक्रान्तशिरोरुहा सप्तसप्तभिरेवातस् तव गर्भः कृतो मया
एकोनपञ्चाशत्कृता भागा वज्रेण ते सुताः दास्यामि तेषां स्थानानि दिवि दैवतपूजिते
इत्युक्ता सा तदा देवी सैवमस्त्वित्यभाषत पुनश्च देवी भर्तारम् उवाचासितलोचना
पुत्रं प्रजापते देहि शक्रजेतारमूर्जितम् यो नास्त्रशस्त्रैर्वध्यत्वं गच्छेत्त्रिदिववासिनाम्
इत्युक्तः स तथोवाच तां पत्नीमतिदुःखिताम् दश वर्षसहस्राणि तपः कृत्वा तु लप्स्यसे
वज्रासारमयैर् अङ्गैर् अछेद्यैरायसैर् दृढैः वज्राङ्गो नाम पुत्रस्ते भविता पुत्रवत्सले
सा तु लब्धवरा देवी जगाम तपसे वनम् दश वर्षसहस्राणि सा तपो घोरमाचरत्
तपसो ऽन्ते भगवती जनयामास दुर्जयम् पुत्रमप्रतिकर्माणम् अजेयं वज्रदुश्छिदम्
स जातमात्र एवाभूत् सर्वशस्त्रास्त्रपारगः उवाच मातरं भक्त्या मातः किं करवाण्यहम्
तमुवाच ततो हृष्टा दितिर्दैत्याधिपं च सा बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक
तेषां त्वं प्रतिकर्तुं वै गच्छ शक्रवधाय च बाढमित्येव तामुक्त्वा जगाम त्रिदिवं बली
बद्ध्वा ततः सहस्राक्षं पाशेनामोघवर्चसा मातुरन्तिकमागच्छद् व्याघ्रः क्षुद्रमृगं यथा
एतस्मिन्नन्तरे ब्रह्मा कश्यपश्च महातपाः आगतौ तत्र यत्रास्तां मातापुत्रावभीतकौ
दृष्ट्वा तु तावुवाचेदं ब्रह्मा कश्यप एव च मुञ्चैनं पुत्र देवेन्द्रं किमनेन प्रयोजनम्
अपमानो वधः प्रोक्तः पुत्र संभावितस्य च अस्मद्वाक्येन यो मुक्तो विद्धि तं मृतमेव च
परस्य गौरवान्मुक्तः शत्रूणां भारमावहेत् जीवन्नेव मृतो वत्स दिवसे दिवसे स तु
महतां वशमायाते वैरं नैवास्ति वैरिणि एतच्छ्रुत्वा तु वज्राङ्गः प्रणतो वाक्यमब्रवीत्
न मे कृत्यमनेनास्ति मातुराज्ञा कृता मया त्वं सुरासुरनाथो ऽसि मम च प्रपितामहः
करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः तपसे मे रतिर्देव निर्विघ्नं चैव मे भवेत्
त्वत्प्रसादेन भगवन्न् इत्युक्त्वा विरराम सः तस्मिंस्तूष्णीं स्थिते दैत्ये प्रोवाचेदं पितामहः
तपस्त्वं क्रूरमापन्नो ह्य् अस्मच्छासनसंस्थितः अनया चित्तशुद्ध्या ते पर्याप्तं जन्मनः फलम्
इत्युक्त्वा पद्मजः कन्यां ससर्जायतलोचनाम् तामस्मै प्रददौ देवः पत्न्यर्थं पद्मसम्भवः
वराङ्गीति च नामास्याः कृत्वा यातः पितामहः वज्राङ्गो ऽपि तया सार्धं जगाम तपसे वनम्
ऊर्ध्वबाहुः स दैत्येन्द्रो ऽचरदब्दसहस्रकम् कालं कमलपत्त्राक्षः शुद्धबुद्धिर् महातपाः
तावच्चावाङ्मुखः कालं तावत्पञ्चाग्निमध्यगः निराहारो घोरतपास् तपोराशिरजायत
ततः सो ऽन्तर्जले चक्रे कालं वर्षसहस्रकम् जलान्तरं प्रविष्टस्य तस्य पत्नी महाव्रता
तस्यैव तीरे सरसस् तत्प्रीत्या मौनमास्थिता निराहारा तपो घोरं प्रविवेश महाद्युतिः