त्रैलोक्यनाथं शक्रं तु सर्वामरगणप्रभुम् हिरण्यकशिपुश्चक्रे जित्वा राज्यं महाबलः
ततः केनापि कालेन हिरण्यकशिपादयः निहता विष्णुना संख्ये शेषाश्चेन्द्रेण दानवाः
ततो निहतपुत्राभूद् दितिर् वरमयाचत भर्तारं कश्यपं देवं पुत्रमन्यं महाबलम्
समरे शक्रहन्तारं स तस्या अददात्प्रभुः
नियमे वर्त हे देवि सहस्रं शुचिमानसा वर्षाणां लप्स्यसे पुत्रम् इत्युक्ता सा तथाकरोत्
वर्तन्त्या नियमे तस्याः सहस्राक्षः समाहितः उपासामाचरत्तस्याः सा चैनमन्वमन्यत
दशवत्सरशेषस्य सहस्रस्य तदा दितिः उवाच शक्रं सुप्रीता वरदा तपसि स्थिता
पुत्रोत्तीर्णव्रतां प्रायो विद्धि मां पाकशासन भविष्यति च ते भ्राता तेन सार्धमिमां श्रियम्
भुङ्क्ष्व वत्स यथाकामं त्रैलोक्यं हतकण्टकम् इत्युक्त्वा निद्रयाविष्टा चरणाक्रान्तमूर्धजा
स्वयं सुष्वापानियता भाविनो ऽर्थस्य गौरवात् तत्तु रन्ध्रं समासाद्य जठरं पाकशासनः
चकार सप्तधा गर्भं कुलिशेन तु देवराट् एकैकं तु पुनः खण्डं चकार मघवा ततः
सप्तधा सप्तधा कोपात् प्राबुध्यत ततो दितिः विबुध्योवाच मा शक्र घातयेथाः प्रजां मम
तच्छ्रुत्वा निर्गतः शक्रः स्थित्वा प्राञ्जलिरग्रतः उवाच वाक्यं संत्रस्तो मातुर्वै वदनेरितम्
दिवास्वप्नपरा मातः पादाक्रान्तशिरोरुहा सप्तसप्तभिरेवातस् तव गर्भः कृतो मया
एकोनपञ्चाशत्कृता भागा वज्रेण ते सुताः दास्यामि तेषां स्थानानि दिवि दैवतपूजिते
इत्युक्ता सा तदा देवी सैवमस्त्वित्यभाषत पुनश्च देवी भर्तारम् उवाचासितलोचना
पुत्रं प्रजापते देहि शक्रजेतारमूर्जितम् यो नास्त्रशस्त्रैर्वध्यत्वं गच्छेत्त्रिदिववासिनाम्
इत्युक्तः स तथोवाच तां पत्नीमतिदुःखिताम् दश वर्षसहस्राणि तपः कृत्वा तु लप्स्यसे
वज्रासारमयैर् अङ्गैर् अछेद्यैरायसैर् दृढैः वज्राङ्गो नाम पुत्रस्ते भविता पुत्रवत्सले
सा तु लब्धवरा देवी जगाम तपसे वनम् दश वर्षसहस्राणि सा तपो घोरमाचरत्
तपसो ऽन्ते भगवती जनयामास दुर्जयम् पुत्रमप्रतिकर्माणम् अजेयं वज्रदुश्छिदम्
स जातमात्र एवाभूत् सर्वशस्त्रास्त्रपारगः उवाच मातरं भक्त्या मातः किं करवाण्यहम्
तमुवाच ततो हृष्टा दितिर्दैत्याधिपं च सा बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक
तेषां त्वं प्रतिकर्तुं वै गच्छ शक्रवधाय च बाढमित्येव तामुक्त्वा जगाम त्रिदिवं बली
बद्ध्वा ततः सहस्राक्षं पाशेनामोघवर्चसा मातुरन्तिकमागच्छद् व्याघ्रः क्षुद्रमृगं यथा
एतस्मिन्नन्तरे ब्रह्मा कश्यपश्च महातपाः आगतौ तत्र यत्रास्तां मातापुत्रावभीतकौ
दृष्ट्वा तु तावुवाचेदं ब्रह्मा कश्यप एव च मुञ्चैनं पुत्र देवेन्द्रं किमनेन प्रयोजनम्
अपमानो वधः प्रोक्तः पुत्र संभावितस्य च अस्मद्वाक्येन यो मुक्तो विद्धि तं मृतमेव च
परस्य गौरवान्मुक्तः शत्रूणां भारमावहेत् जीवन्नेव मृतो वत्स दिवसे दिवसे स तु
महतां वशमायाते वैरं नैवास्ति वैरिणि एतच्छ्रुत्वा तु वज्राङ्गः प्रणतो वाक्यमब्रवीत्