इत्येते सप्त विज्ञेया वासिष्ठा ब्रह्मवादिनः विश्वामित्रश्च गाधेयो देवरातस्तथा बलः
तथा विद्वान्मधुच्छन्दा ऋषिश्चान्यो ऽघमर्षणः अष्टको लोहितश्चैव भृतकीलश्च माम्बुधिः
देवश्रवा देवरातः पुराणश्च धनंजयः शिशिरश्च महातेजाः शालङ्कायन एव च
त्रयोदशैते विज्ञेया ब्रह्मिष्ठाः कौशिका वराः अगस्त्यो ऽथ दृढद्युम्न इन्द्रबाहुस्तथैव च
ब्रह्मिष्ठागस्तयो ह्येते त्रयः परमकीर्तयः मनुर्वैवस्वतश्चैव ऐलो राजा पुरूरवाः
क्षत्रियाणां वरा ह्येते विज्ञेया मन्त्रवादिनः भलन्दकश्च वासाश्वः संकीलश्चैव ते त्रयः
एते मन्त्रकृतो ज्ञेया वैश्यानां प्रवराः सदा इति द्विनवतिः प्रोक्ता मन्त्रायैश्च बहिष्कृताः
ब्राह्मणाः क्षत्रिया वैश्या ऋषिपुत्रान्निबोधत ऋषीकाणां सुता ह्येते ऋषिपुत्राः श्रुतर्षयः
कथं मत्स्येन कथितस् तारकस्य वधो महान् कस्मिन्काले विनिर्वृत्ता कथेयं सूतनन्दन
त्वन्मुखक्षीरसिन्धूत्था कथेयममृतात्मिका कर्णाभ्यां पिबतां तृप्तिर् अस्माकं न प्रजायते इदं मुने समाख्याहि महाबुद्धे मनोगतम्
पृष्टस्तु मनुना देवो मत्स्यरूपी जनार्दनः कथं शरवणे जातो देवः षड्वदनो विभो
एतत्तु वचनं श्रुत्वा पार्थिवस्यामितौजसः उवाच भगवान्प्रीतो ब्रह्मसूनुर्महामतिम्
वज्राङ्गो नाम दैत्यो ऽभूत् तस्य पुत्रस्तु तारकः सुरानुद्वासयामास पुरेभ्यः स महाबलः
ततस्ते ब्रह्मणो ऽभ्याशं जग्मुर्भयनिपीडिताः भीतांश्च त्रिदशान्दृष्ट्वा ब्रह्मा तेषामुवाच ह
संत्यजध्वं भयं देवाः शंकरस्यात्मजः शिशुः तुहिनाचलदौहित्रस् तं हनिष्यति दानवम्
ततः काले तु कस्मिंश्चिद् दृष्ट्वा वै शैलजां शिवः स्वरेतो वह्निवदने व्यसृजत्कारणान्तरे
तत्प्राप्तं वह्निवदने रेतो देवानतर्पयत् विदार्य जठराण्येषाम् अजीर्णं निर्गतं मुने
पतितं तत्सरिद्वरां ततस्तु शरकानने तस्मात्तु स समुद्भूतो गुहो दिनकरप्रभः
स सप्तदिवसो बालो निजघ्ने तारकासुरम् एवं श्रुत्वा ततो वाक्यं तम् ऊचुर् ऋषिसत्तमाः
अत्याश्चर्यवती रम्या कथेयं पापनाशिनी विस्तरेण हि नो ब्रूहि याथातथ्येन शृण्वताम्
वज्राङ्गो नाम दैत्येन्द्रः कस्य वंशोद्भवः पुरा यस्याभूत्तारकः पुत्रः सुरप्रमथनो बली
निर्मितः को वधे चाभूत् तस्य दैत्येश्वरस्य तु गुहजन्म तु कार्त्स्न्येन अस्माकं ब्रूहि मानद
मानसो ब्रह्मणः पुत्रो दक्षो नाम प्रजापतिः षष्टिं सो ऽजनयत्कन्या वैरिण्यामेव नः श्रुतम्
ददौ स दश धर्माय कश्यपाय त्रयोदश सप्तविंशतिं सोमाय चतस्रो ऽरिष्टनेमये
द्वे वै बाहुकपुत्राय द्वे वै चाङ्गिरसे तथा द्वे कृशाश्वाय विदुषे प्रजापतिसुतः प्रभुः
अदितिर्दितिर्दनुर्विश्वा ह्य् अरिष्टा सुरसा तथा सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा
कद्रूर्मुनिश्च लोकस्य मातरो गोषु मातरः तासां सकाशाल्लोकानां जङ्गमस्थावरात्मनाम्
जन्म नानाप्रकाराणां ताभ्यो ऽन्ये देहिनः स्मृताः देवेन्द्रोपेन्द्रपूषाद्याः सर्वे ते दितिजा मताः
दितेः सकाशाल्लोकास्तु हिरण्यकशिपादयः दानवाश्च दनोः पुत्रा गावश्च सुरभीसुताः
पक्षिणो विनतापुत्रा गरुडप्रमुखाः स्मृताः नागाः कद्रूसुता ज्ञेयाः शेषाश्चान्ये ऽपि जन्तवः