ब्रह्मणो मानसा ह्येते उत्पन्नाः स्वयमीश्वराः परत्वेनर्षयो यस्मान् मतास्तस्मान्महर्षयः
ईश्वराणां सुतास्त्वेषाम् ऋषयस्तान्निबोधत काव्यो बृहस्पतिश्चैव कश्यपश्च्यवनस्तथा
उतथ्यो वामदेवश्च अगस्त्यः कौशिकस्तथा कर्दमो वालखिल्याश्च विश्रवाः शक्तिवर्धनः
इत्येते ऋषयः प्रोक्तास् तपसा ऋषितां गताः तेषां पुत्रानृषीकांस्तु गर्भोत्पन्नान्निबोधत
वत्सरो नग्नहूश् चैव भरद्वाजश्च वीर्यवान् ऋषिर्दीर्घतमाश्चैव बृहद्वक्षाः शरद्वतः
वाजिश्रवाः सुचिन्तश्च शावश्च सपराशरः शृङ्गी च शङ्खपाच् चैव राजा वैश्रवणस्तथा
इत्येते ऋषिकाः सर्वे सत्येन ऋषितां गताः ईश्वरा ऋषयश्चैव ऋषीका ये च विश्रुताः
एवं मन्त्रकृतः सर्वे कृत्स्नशश्च निबोधत भृगुः काश्यपः प्रचेता दधीचो ह्यात्मवानपि
ऊर्षो ऽथ जमदग्निश्च वेदः सारस्वतस्तथा आर्ष्टिषेणश्च्यवनश्च वीतहव्यः सवेधसः
वैन्यः पृथुर्दिवोदासो ब्रह्मवान्गृत्सशौनकौ एकोनविंशतिर्ह्येते भृगवो मन्त्रकृत्तमाः
अङ्गिराश्चैव त्रितश्च भरद्वाजो ऽथ लक्ष्मणः कृतवाचस्तथा गर्गः स्मृतिसंकृतिरेव च
गुरुवीतश्च मान्धाता अम्बरीषस्तथैव च युवनाश्वः पुरुकुत्सः स्वश्रवस्तु सदस्यवान्
अजमीढो ऽस्वहार्यश्च ह्य् उत्कलः कविरेव च पृषदश्वो विरूपश्च काव्यश्चैवाथ मुद्गलः
उतथ्यश्च शरद्वांश्च तथा वाजिश्रवा अपि अपस्यौषः सुचित्तिश्च वामदेवस्तथैव च
ऋषिजो बृहच्छुक्लश्च ऋषिर्दीर्घतमा अपि कक्षीवांश्च त्रयस्त्रिंशत् स्मृता ह्यङ्गिरसां वराः
एते मन्त्रकृतः सर्वे काश्यपांस्तु निबोधत काश्यपः सहवत्सारो नैध्रुवो नित्य एव च
असितो देवलश्चैव षडेते ब्रह्मवादिनः अत्रिर् अर्धस्वनश्चैव शावास्यो ऽथ गविष्ठिरः
कर्णकश्च ऋषिः सिद्धस् तथा पूर्वातिथिश्च यः
इत्येते त्वत्रयः प्रोक्ता मन्त्रकृत्षण्महर्षयः वसिष्ठश्चैव शक्तिश्च तृतीयश्च पराशरः
ततस्तु इन्द्रप्रतिमः पञ्चमस्तु भरद्वसुः षष्ठस्तु मित्रावरुणः सत्तमः कुण्डिनस्तथा
इत्येते सप्त विज्ञेया वासिष्ठा ब्रह्मवादिनः विश्वामित्रश्च गाधेयो देवरातस्तथा बलः
तथा विद्वान्मधुच्छन्दा ऋषिश्चान्यो ऽघमर्षणः अष्टको लोहितश्चैव भृतकीलश्च माम्बुधिः
देवश्रवा देवरातः पुराणश्च धनंजयः शिशिरश्च महातेजाः शालङ्कायन एव च
त्रयोदशैते विज्ञेया ब्रह्मिष्ठाः कौशिका वराः अगस्त्यो ऽथ दृढद्युम्न इन्द्रबाहुस्तथैव च
ब्रह्मिष्ठागस्तयो ह्येते त्रयः परमकीर्तयः मनुर्वैवस्वतश्चैव ऐलो राजा पुरूरवाः
क्षत्रियाणां वरा ह्येते विज्ञेया मन्त्रवादिनः भलन्दकश्च वासाश्वः संकीलश्चैव ते त्रयः
एते मन्त्रकृतो ज्ञेया वैश्यानां प्रवराः सदा इति द्विनवतिः प्रोक्ता मन्त्रायैश्च बहिष्कृताः
ब्राह्मणाः क्षत्रिया वैश्या ऋषिपुत्रान्निबोधत ऋषीकाणां सुता ह्येते ऋषिपुत्राः श्रुतर्षयः
कथं मत्स्येन कथितस् तारकस्य वधो महान् कस्मिन्काले विनिर्वृत्ता कथेयं सूतनन्दन
त्वन्मुखक्षीरसिन्धूत्था कथेयममृतात्मिका कर्णाभ्यां पिबतां तृप्तिर् अस्माकं न प्रजायते इदं मुने समाख्याहि महाबुद्धे मनोगतम्