भूतभेदाश्च भूतेभ्यो जज्ञिरे तु परस्परम् संसिद्धिकारणं कार्यं सद्य एव विवर्तते
यथोल्मुकात्तु विटपा एककालाद्भवन्ति हि तथा प्रवृत्ताः क्षेत्रज्ञाः कालेनैकेन कारणात्
यथान्धकारे खद्योतः सहसा सम्प्रदृश्यते तथा निवृत्तो ह्यव्यक्तः खद्योत इव संज्वलन्
स महात्मा शरीरस्थस् तत्रैवेह प्रवर्तते महतस्तमसः पारे वैलक्षण्याद्विभाव्यते
तत्रैव संस्थितो विद्वांस् तपसो ऽन्त इति श्रुतम् बुद्धिर्विवर्धतस्तस्य प्रादुर्भूता चतुर्विधा
ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् सांसिद्धिकान्यथैतानि अप्रतीतानि तस्य वै
महात्मनः शरीरस्य चैतन्यात्सिद्धिरुच्यते पुरि शेते यतः पूर्वं क्षेत्रज्ञानं तथापि च
पुरे शयनात्पुरुषो ज्ञानात्क्षेत्रज्ञ उच्यते यस्माद्धर्मात्प्रसूते हि तस्माद्वै धार्मिकस्तु सः
सांसिद्धिके शरीरे च बुद्ध्याव्यक्तस्तु चेतनः एवं विवृत्तः क्षेत्रज्ञः क्षेत्रं ह्यनभिसंधितः
निवृत्तिसमकाले तु पुराणं तदचेतनम् क्षेत्रज्ञेन परिज्ञातं भोग्यो ऽयं विषयो मम
ऋषिर्हिंसागतौ धातुर् विद्या सत्यं तपः श्रुतम् एष सन्निलयो यस्माद् ब्राह्मणस्तुततस् त्व् ऋषिः
निवृत्तिसमकालाच्च बुद्ध्याव्यक्त ऋषिस्त्वयम् ऋषते परमं यस्मात् परमर्षिस्ततः स्मृतः
गत्यर्थाद् ऋषतेर् धातोर् नामनिर्वृत्तिकारणम् यस्मादेष स्वयंभूतस् तस्माच्च ऋषिता मता
सेश्वराः स्वयमुद्भूता ब्रह्मणो मानसाः सुताः निवर्तमानैस्तैर्बुद्ध्या महान्परिगतः परः
यस्माद् दृशपरत्वेन सह तस्मान्महर्षयः ईश्वराणां सुतास्तेषां मानसाश्चौरसाश्च वै
ऋषिस्तस्मात्परत्वेन भूतादिरृषयस्ततः ऋषिपुत्रा ऋषीकास्तु मैथुनाद्गर्भसम्भवाः
परत्वेन ऋषन्ते वै भूतादीनृषिकास्ततः ऋषिकाणां सुता ये तु विज्ञेया ऋषिपुत्रकाः
श्रुत्वा ऋषं परत्वेन श्रुतास्तस्माच्छ्रुतर्षयः अव्यक्तात्मा महात्मा वा-हंकारात्मा तथैव च
भूतात्मा चेन्द्रियात्मा च तेषां तज्ज्ञानमुच्यते इत्येवमृषिजातिस्तु पञ्चधा नामविश्रुता
भृगुर्मरीचिरत्रिश्च अङ्गिराः पुलहः क्रतुः मनुर्दक्षो वसिष्ठश्च पुलस्त्यश्चापि ते दश
ब्रह्मणो मानसा ह्येते उत्पन्नाः स्वयमीश्वराः परत्वेनर्षयो यस्मान् मतास्तस्मान्महर्षयः
ईश्वराणां सुतास्त्वेषाम् ऋषयस्तान्निबोधत काव्यो बृहस्पतिश्चैव कश्यपश्च्यवनस्तथा
उतथ्यो वामदेवश्च अगस्त्यः कौशिकस्तथा कर्दमो वालखिल्याश्च विश्रवाः शक्तिवर्धनः
इत्येते ऋषयः प्रोक्तास् तपसा ऋषितां गताः तेषां पुत्रानृषीकांस्तु गर्भोत्पन्नान्निबोधत
वत्सरो नग्नहूश् चैव भरद्वाजश्च वीर्यवान् ऋषिर्दीर्घतमाश्चैव बृहद्वक्षाः शरद्वतः
वाजिश्रवाः सुचिन्तश्च शावश्च सपराशरः शृङ्गी च शङ्खपाच् चैव राजा वैश्रवणस्तथा
इत्येते ऋषिकाः सर्वे सत्येन ऋषितां गताः ईश्वरा ऋषयश्चैव ऋषीका ये च विश्रुताः
एवं मन्त्रकृतः सर्वे कृत्स्नशश्च निबोधत भृगुः काश्यपः प्रचेता दधीचो ह्यात्मवानपि
ऊर्षो ऽथ जमदग्निश्च वेदः सारस्वतस्तथा आर्ष्टिषेणश्च्यवनश्च वीतहव्यः सवेधसः
वैन्यः पृथुर्दिवोदासो ब्रह्मवान्गृत्सशौनकौ एकोनविंशतिर्ह्येते भृगवो मन्त्रकृत्तमाः