यद्यदिष्टतमं द्रव्यं न्यायेनैवागतं च यत् तत्तद्गुणवते देयम् इत्येतद्दानलक्षणम्
श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः शिष्टाचारप्रवृद्धश्च धर्मो ऽयं साधुसंमतः
अप्रद्वेषो ह्यनिष्टेषु इष्टं वै नाभिनन्दति प्रीतितापविषादानां विनिवृत्तिर् विरक्तता
संन्यासः कर्मणां न्यासः कृतानामकृतैः सह कुशलाकुशलाभ्यां तु प्रहाणं न्यास उच्यते
अव्यक्तादिविशेषान्तव् इकारे ऽस्मिन्निवर्तते चेतनाचेतनं ज्ञात्वा ज्ञाने ज्ञानी स उच्यते
प्रत्यङ्गानि तु धर्मस्य चेत्येतल्लक्षणं स्मृतम् ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वैः स्वायम्भुवे ऽन्तरे
अत्र वो वर्णयिष्यामि विधिं मन्वन्तरस्य तु तथैव चातुर्होत्रस्य चातुर्वर्ण्यस्य चैव हि
प्रतिमन्वन्तरं चैव श्रुतिरन्या विधीयते ऋचो यजूंषि सामानि यथावत्प्रतिदैवतम्
विधिस्तोत्रं तथा हौत्रं पूर्ववत्सम्प्रवर्तते द्रव्यस्तोत्रं गुणस्तोत्रं कर्मस्तोत्रं तथैव च
तथैवाभिजनस्तोत्रं स्तोत्रमेवं चतुर्विधम् मन्वन्तरेषु सर्वेषु यथा भेदा भवन्ति हि
प्रवर्तयन्ति तेषां वै ब्रह्मस्तोत्रं पुनः पुनः एवं मन्त्रगुणानां तु समुत्पत्तिश्चतुर्विधा
अथर्वऋग्यजुःसाम्नां वेदेष्विह पृथक्पृथक् ऋषीणां तप्यतां तेषां तपः परमदुश्चरम्
मन्त्राः प्रादुर्भवन्त्यादौ पूर्वमन्वन्तरस्य ह असंतोषाद्भयाद्दुःखान् मोहाच्छोकाच्च पञ्चधा
ऋषीणां तारका येन लक्षणेन यदृच्छया ऋषीणां यादृशत्वं हि तद्वक्ष्यामीह लक्षणम्
अतीतानागतानां च पञ्चधा ह्यार्षकं स्मृतम् तथा ऋषीणां वक्ष्यामि आर्षस्येह समुद्भवम्
गुणसाम्येन वर्तन्ते सर्वसंप्रलये तदा अविभागेन देवानाम् अनिर्देश्ये तमोमये
अबुद्धिपूर्वकं तद्वै चेतनार्थं प्रवर्तते तेनार्षं बुद्धिपूर्वं तु चेतनेनाप्यधिष्ठितम्
प्रवर्तते तथा ते तु यथा मत्स्योदकावुभौ चेतनाधिकृतं सर्वं प्रावर्तत गुणात्मकम् कार्यकारणभावेन तथा तस्य प्रवर्तते
विषयो विषयित्वं च तदा ह्यर्थपदात्मकौ कालेन प्रापणीयेन भेदाश्च कारणात्मकाः
सांसिद्धिकास्तदा वृत्ताः क्रमेण महदादयः महतो ऽसावहंकारस् तस्माद्भूतेन्द्रियाणि च
भूतभेदाश्च भूतेभ्यो जज्ञिरे तु परस्परम् संसिद्धिकारणं कार्यं सद्य एव विवर्तते
यथोल्मुकात्तु विटपा एककालाद्भवन्ति हि तथा प्रवृत्ताः क्षेत्रज्ञाः कालेनैकेन कारणात्
यथान्धकारे खद्योतः सहसा सम्प्रदृश्यते तथा निवृत्तो ह्यव्यक्तः खद्योत इव संज्वलन्
स महात्मा शरीरस्थस् तत्रैवेह प्रवर्तते महतस्तमसः पारे वैलक्षण्याद्विभाव्यते
तत्रैव संस्थितो विद्वांस् तपसो ऽन्त इति श्रुतम् बुद्धिर्विवर्धतस्तस्य प्रादुर्भूता चतुर्विधा
ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् सांसिद्धिकान्यथैतानि अप्रतीतानि तस्य वै
महात्मनः शरीरस्य चैतन्यात्सिद्धिरुच्यते पुरि शेते यतः पूर्वं क्षेत्रज्ञानं तथापि च
पुरे शयनात्पुरुषो ज्ञानात्क्षेत्रज्ञ उच्यते यस्माद्धर्मात्प्रसूते हि तस्माद्वै धार्मिकस्तु सः
सांसिद्धिके शरीरे च बुद्ध्याव्यक्तस्तु चेतनः एवं विवृत्तः क्षेत्रज्ञः क्षेत्रं ह्यनभिसंधितः
निवृत्तिसमकाले तु पुराणं तदचेतनम् क्षेत्रज्ञेन परिज्ञातं भोग्यो ऽयं विषयो मम