अथ शिष्टान्प्रवक्ष्यामि साधूनथ ततश्च वै ब्राह्मणाः श्रुतिशब्दाश्च देवानां पशुमूर्तयः संयुज्य ब्रह्मणा ह्यन्तस् तेन सन्तः प्रचक्षते
सामान्येषु च धर्मेषु तथा वैशिषिकेषु च ब्रह्मक्षत्रविशो युक्ताः श्रौतस्मार्तेन कर्मणा
वर्णाश्रमेषु युक्तस्य सुखोदर्कस्य स्वर्गतौ श्रौतस्मार्तो हि यो धर्मो ज्ञानधर्मः स उच्यते
दिव्यानां साधनात्साधुर् ब्रह्मचारी गुरोर्हितः कारणात्साधनाच्चैव गृहस्थः साधुरुच्यते
तपसश्च तथारण्ये साधुर्वैखानसः स्मृतः यतमानो यतिः साधुः स्मृतो योगस्य साधनात्
धर्मो धर्मगतिः प्रोक्तः शब्दो ह्येष क्रियात्मकः कुशलाकुशलौ चैव धर्माधर्मौ ब्रवीत्प्रभुः
अथ देवाश्च पितर ऋषयश्चैव मानुषाः अयं धर्मो ह्ययं नेति ब्रुवते मौनमूर्तिना
धर्मेति धारणे धातुर् महत्त्वे चैव उच्यते आधारणे महत्त्वे वा धर्मः स तु निरुच्यते
तत्रेष्टप्रापको धर्म आचार्यैरुपदिश्यते अधर्मश्चानिष्टफल आचार्यैर्नोपदिश्यते
वृद्धाश्चालोलुपाश्चैव आत्मवन्तो ह्यदाम्भिकाः सम्यग्विनीता मृदवस् तानाचार्यान्प्रचक्षते
धर्मज्ञैर्विहितो धर्मः श्रौतस्मार्तो द्विजातिभिः दाराग्निहोत्रसम्बन्धम् इज्या श्रौतस्य लक्षणम्
स्मार्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः पूर्वेभ्यो वेदयित्वेह श्रौतं सप्तर्षयो ऽब्रुवन्
ऋचो यजूंषि सामानि ब्रह्मणो ऽङ्गानि वै श्रुतिः मन्वन्तरस्यातीतस्य स्मृत्वा तन्मनुरब्रवीत्
तस्मात्स्मार्तः सूतो धर्मो वर्णाश्रमविभागशः एवं वै द्विविधो धर्मः शिष्टाचारः स उच्यते
शिषेर् धातोश्च निष्ठान्ताच् छिष्टशब्दं प्रचक्षते मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः
मनुः सप्तर्षयश्चैव लोकसंतानकारिणः तिष्ठन्तीह च धर्मार्थं ताञ्छिष्टान्सम्प्रचक्षते
तैः शिष्टैश्चलितो धर्मः स्थाप्यते वै युगे युगे त्रयी वार्त्ता दण्डनीतिः प्रजावर्णाश्रमेप्सया
शिष्टैराचर्यते यस्मात् पुनश्चैव मनुक्षये पूर्वैःपूर्वैर्मतत्वाच्च शिष्टाचारः स शाश्वतः
दानं सत्यं तपो लोको विद्येज्या पूजनं दमः अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम्
शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ह मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः
विज्ञेयः श्रवणाच्छ्रौतः स्मरणात्स्मार्त उच्यते इज्यावेदात्मकः श्रौतः स्मार्तो वर्णाश्रमात्मकः प्रत्यङ्गानि प्रवक्ष्यामि धर्मस्येह तु लक्षणम्
दृष्टानुभूतमर्थं च यः पृष्टो न विगूहते यथाभूतप्रवादस्तु इत्येतत्सत्यलक्षणम्
ब्रह्मचर्यं तपो मौनं निराहारत्वमेव च इत्येतत्तपसो रूपं सुघोरं तु दुरासदम्
पशूनां द्रव्यहविषाम् ऋक्सामयजुषां तथा ऋत्विजां दक्षिणायाश्च संयोगो यज्ञ उच्यते
आत्मवत्सर्वभूतेषु यो हिताय शुभाय च वर्तते सततं हृष्टः क्रिया श्रेष्ठा दया स्मृता
आक्रुष्टो ऽभिहतो यस्तु नाक्रोशेत्प्रहरेदपि अदुष्टो वाङ्मनःकायैस् तितिक्षुः सा क्षमा स्मृता
स्वामिना रक्ष्यमाणानाम् उत्सृष्टानां च सम्भ्रमे परस्वानाम् अनादानम् अलोभ इति संज्ञितम्
मैथुनस्यासमाचारो जल्पनाच्चिन्तनात्तथा निवृत्तिर्ब्रह्मचर्यं च तदेतच्छमलक्षणम्
आत्मार्थे वा परार्थे वा इन्द्रियाणीह यस्य वै विषये न प्रवर्तन्ते दमस्यैतत्तु लक्षणम्
पञ्चात्मके यो विषये कारणे चाष्टलक्षणे न क्रुध्येत प्रतिहतः स जितात्मा भविष्यति