मन्वन्तराधिकारेषु तिष्ठन्ति ऋषयस्तु ते यथा दावप्रदग्धेषु तृणेष्वेवापरं तृणम्
वनानां प्रथमं वृष्ट्या तेषां मूलेषु सम्भवः एवं युगाद्युगानां वै संतानस्तु परस्परम्
प्रवर्तते ह्यविच्छेदाद् यावन्मन्वन्तरक्षयः सुखमायुर्बलं रूपं धर्मार्थौ काम एव च
युगेष्वेतानि हीयन्ते त्रयः पादाः क्रमेण तु इत्येष प्रतिसंधिर्वः कीर्तितस्तु मया द्विजाः
चतुर्युगाणां सर्वेषाम् एतदेव प्रसाधनम् एषां चतुर्युगाणां तु गणिता ह्येकसप्ततिः
क्रमेण परिवृत्तास्ता मनोरन्तरमुच्यते युगाख्यासु तु सर्वासु भवतीह यदा च यत्
तदेव च तदन्यासु पुनस्तद्वै यथाक्रमम् सर्गे सर्गे यथा भेदा ह्य् उत्पद्यन्ते तथैव च
चतुर्दशसु तावन्तो ज्ञेया मन्वन्तरेष्विह आसुरी यातुधानी च पैशाची यक्षराक्षसी
युगे युगे तदा काले प्रजा जायन्ति ताः शृणु यथाकल्पं युगैः सार्धं भवन्ते तुल्यलक्षणाः इत्येतल्लक्षणं प्रोक्तं युगानां वै यथाक्रमम्
मन्वन्तराणां परिवर्तनानि चिरप्रवृत्तानि युगस्वभावात् क्षणं न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः
एते युगस्वभावा वः परिक्रान्ता यथाक्रमम् मन्वन्तराणि यान्यस्मिन् कल्पे वक्ष्यामि तानि च
मन्वन्तराणि यानि स्युः कल्पे कल्पे चतुर्दश व्यतीतानागतानि स्युर् यानि मन्वन्तरेष्विह
विस्तरेणानुपूर्व्याच्च स्थितिं वक्ष्ये युगे युगे तस्मिन्युगे च सम्भूतिर् यासां यावच्च जीवितम्
युगमात्रं तु जीवन्ति न्यूनं तत्स्याद्द्वयेन च चतुर्दशसु तावन्तो ज्ञेया मन्वन्तरेष्विह
मनुष्याणां पशूनां च पक्षिणां स्थावरैः सह तेषामायुरुपक्रान्तं युगधर्मेषु सर्वशः
तथैवायुः परिक्रान्तं युगधर्मेषु सर्वशः अस्थितिं च कलौ दृष्ट्वा भूतानामायुषश्च वै
परमायुः शतं त्वेतन् मानुषाणां कलौ स्मृतम् देवासुरमनुष्याश्च यक्षगन्धर्वराक्षसाः
परिणाहोच्छ्रये तुल्या जायन्ते ह कृते युगे षण्णवत्यङ्गुलोत्सेधो ह्य् अष्टानां देवयोनिनाम्
नवाङ्गुलप्रमाणेन निष्पन्नेन तथाष्टकम् एतत्स्वाभाविकं तेषां प्रमाणमधिकुर्वताम्
मनुष्या वर्तमानास्तु युगसंध्यांशकेष्विह देवासुरप्रमाणं तु सप्तसप्ताङ्गुलं क्रमात्
चतुरशीतिकैश्चैव कलिजैरङ्गुलैः स्मृतम् आ पादतलमस्तको नवतालो भवेत्तु यः
संहृत्याजानुबाहुश्च दैवतैरभिपूज्यते गवां च हस्तिनां चैव महिषस्थावरात्मनाम्
क्रमेणैतेन विज्ञेये ह्रासवृद्धी युगे युगे षट्सप्तत्यङ्गुलोत्सेधः पशुर् आककुदो भवेत्
अङ्गुलानामष्टशतम् उत्सेधो हस्तिनां स्मृतः अङ्गुलानां सहस्रं तु द्विचत्वारिंशदङ्गुलम्
शतार्धमङ्गुलानां तु ह्य् उत्सेधः शाखिनां परः मानुषस्य शरीरस्य संनिवेशस्तु यादृशः
तल्लक्षणं तु देवानां दृश्यते ऽन्वयदर्शनात् बुद्ध्यातिशयसंयुक्तो देवानां काय उच्यते
तथा नातिशयश्चैव मानुषः काय उच्यते इत्येव हि परिक्रान्ता भावा ये दिव्यमानुषाः
पशूनां पक्षिणां चैव स्थावराणां च सर्वशः गावो ऽजाश्वाश्च विज्ञेया हस्तिनः पक्षिणो मृगाः
उपयुक्ताः क्रियास्वेते यज्ञियास्त्विह सर्वशः यथाक्रमोपभोगाश्च देवानां पशुमूर्तयः
तेषां रूपानुरूपैश्च प्रमाणैः स्थिरजङ्गमाः मनोज्ञैस्तत्र तैर्भोगैः सुखिनो ह्युपपेदिरे