यत्र बर्हिणयुक्तानि विमानानि सहस्रशः संकल्प्या बर्हिषो यत्र तिष्ठन्ति फलदायिनः
यत्राभ्युदयशालासु मोदन्ते श्राद्धदायिनः यांश् च देवासुरगणा गन्धर्वाप्सरसां गणाः
यक्षरक्षोगणाश्चैव यजन्ति दिवि देवताः पुलस्त्यपुत्राः शतशस् तपोयोगसमन्विताः
महात्मानो महाभागा भक्तानामभयप्रदाः एतेषां पीवरी कन्या मानसी दिवि विश्रुता
योगिनी योगमाता च तपश्चक्रे सुदारुणम् प्रसन्नो भगवांस्तस्या वरं वव्रे तु सा हरेः
योगवन्तं सुरूपं च भर्तारं विजितेन्द्रियम् देहि देव प्रसन्नस्त्वं पतिं मे वदतां वरम्
उवाच देवो भविता व्यासपुत्रो यदा शुकः भविता तस्य भार्या त्वं योगाचार्यस्य सुव्रते
भविष्यति च ते कन्या कृत्वी नाम च योगिनी पाञ्चालाधिपतेर्देया मानुषस्य त्वया तदा
जननी ब्रह्मदत्तस्य योगसिद्धा च गौः स्मृता कृष्णो गौरः प्रभुः शम्भुर् भविष्यन्ति च ते सुताः
महात्मानो महाभागा गमिष्यन्ति परं पदम् तानुत्पाद्य पुनर् योगात् सवरा मोक्षमेष्यसि
सुमूर्तिमन्तः पितरो वसिष्ठस्य सुताः स्मृताः नाम्ना तु मानसाः सर्वे सर्वे ते धर्ममूर्तयः
ज्योतिर्भासिषु लोकेषु ये वसन्ति दिवः परम् विराजमानाः क्रीडन्ति यत्र ते श्राद्धदायिनः
सर्वकामसमृद्धेषु विमानेष्वपि पादजाः किं पुनः श्राद्धदा विप्रा भक्तिमन्तः क्रियान्विताः
गौर् नाम कन्या येषां तु मानसी दिवि राजते शुक्रस्य दयिता पत्नी साध्यानां कीर्तिवर्धिनी
मरीचिगर्भा नाम्ना तु लोका मार्तण्डमण्डले पितरो यत्र तिष्ठन्ति हविष्मन्तो ऽङ्गिरःसुताः
तीर्थश्राद्धप्रदा यान्ति ये च क्षत्रियसत्तमाः राज्ञां तु पितरस्ते वै स्वर्गमोक्षफलप्रदाः
एतेषां मानसी कन्या यशोदा लोकविश्रुता पत्नी ह्य् अंशुमतः श्रेष्ठा स्नुषा पञ्चजनस्य च
जनन्यथ दिलीपस्य भगीरथपितामही लोकाः कामदुघा नाम कामभोगफलप्रदाः
सुस्वधा नाम पितरो यत्र तिष्ठन्ति सुव्रताः आज्यपा नाम लोकेषु कर्दमस्य प्रजापतेः
पुलहाङ्गजदायादा वैश्यास्तान्भावयन्ति च यत्र श्राद्धकृतः सर्वे पश्यन्ति युगपद्गताः
मातृभ्रातृपितृस्वसृसखिसम्बन्धिबान्धवान् अपि जन्मायुतैर्दृष्टान् अनुभूतान्सहस्रशः
एतेषां मानसी कन्या विरजा नाम विश्रुता या पत्नी नहुषस्यासीद् ययातेर्जननी तथा
एकाष्टकाभवत् पश्चाद् ब्रह्मलोके गता सती त्रय एते गणाः प्रोक्ताश् चतुर्थं तु वदाम्यतः
लोकास्तु मानसा नाम ब्रह्माण्डोपरि संस्थिताः येषां तु मानसी कन्या नर्मदा नाम विश्रुता
सोमपा नाम पितरो यत्र तिष्ठन्ति शाश्वताः धर्ममूर्तिधराः सर्वे परतो ब्रह्मणः स्मृताः
उत्पन्नाः स्वधया ते तु ब्रह्मत्वं प्राप्य योगिनः कृत्वा सृष्ट्यादिकं सर्वं मानसे साम्प्रतं स्थिताः
नर्मदा नाम तेषां तु कन्या तोयवहा सरित् भूतानि या पावयति दक्षिणापथगामिनी
तेभ्यः सर्वे तु मनवः प्रजाः सर्गेषु निर्मिताः ज्ञात्वा श्राद्धानि कुर्वन्ति धर्माभावे ऽपि सर्वदा
तेभ्य एव पुनः प्राप्तुं प्रसादाद्योगसंततिम् पितॄणामादिसर्गे तु श्राद्धमेव विनिर्मितम्
सर्वेषां राजतं पात्रम् अथवा रजतान्वितम् दत्तं स्वधा पुरोधाय पितॄन् प्रीणाति सर्वदा