यथा कृतयुगे पूर्वम् एकवर्णमभूत्किल तथा कलियुगस्यान्ते शूद्रीभूताः प्रजास्तथा
एवं वर्षशतं पूर्णं दिव्यं तेषां न्यवर्तत षट्त्रिंशच्च सहस्राणि मानुषाणि तु तानि वै
अथ दीर्घेण कालेन पक्षिणः पशवस्तथा मत्स्याश्चैव हताः सर्वैः क्षुधाविष्टैश्च सर्वशः
निःशेषेष्वथ सर्वेषु मत्स्यपक्षिपशुष्वथ संध्यांशे प्रतिपन्ने तु निःशेषास्तु तदा कृताः
ततः प्रजास्तु सम्भूय कन्दमूलमथो ऽखनन् फलमूलाशनाः सर्वे अनिकेतास्तथैव च
वल्कलान्यथ वासांसि अधःशय्याश्च सर्वशः परिग्रहो न तेष्वस्ति धनशुद्धिमवाप्नुयुः
एवं क्षयं गमिष्यन्ति ह्य् अल्पशिष्टाः प्रजास्तदा तासामल्पावशिष्टानाम् आहारादृद्धिरिष्यते
एवं वर्षशतं दिव्यं संध्यांशस्तस्य वर्तते ततो वर्षशतस्यान्ते अल्पशिष्टाः स्त्रियः सुताः
मिथुनानि तु ताः सर्वा ह्य् अन्योन्यं सम्प्रजज्ञिरे ततस्तास्तु म्रियन्ते वै पूर्वोत्पन्नाः प्रजास्तु याः
जातमात्रेष्वपत्येषु ततः कृतमवर्तत यथा स्वर्गे शरीराणि नरके चैव देहिनाम्
उपभोगसमर्थानि एवं कृतयुगादिषु एवं कृतस्य संतानः कलेश्चैव क्षयस्तथा
विचारणात्तु निर्वेदः साम्यावस्थात्मना तथा ततश्चैवात्मसम्बोधः सम्बोधाद्धर्मशीलता
कलिशिष्टेषु तेष्वेवं जायन्ते पूर्ववत्प्रजाः भाविनो ऽर्थस्य च बलात् ततः कृतमवर्तत
अतीतानागतानि स्युर् यानि मन्वन्तरेष्विह एते युगस्वभावास्तु मयोक्तास्तु समासतः
विस्तरेणानुपूर्व्याच्च नमस्कृत्य स्वयम्भुवे प्रवृत्ते तु ततस्तस्मिन् पुनः कृतयुगे तु वै
उत्पन्नाः कलिशिष्टेषु प्रजाः कार्तयुगास्तथा तिष्ठन्ति चेह ये सिद्धा अदृष्टा विहरन्ति च
सह सप्तर्षिभिर्ये तु तत्र ये च व्यवस्थिताः ब्रह्मक्षत्रविशः शूद्रा बीजार्थे य इह स्मृताः कार्तयुगभवैः सार्धं निर्विशेषास्तदाभवन्
तेषां सप्तर्षयो धर्मं कथयन्तीह तेषु च
वर्णाश्रमाचारयुतं श्रौतस्मार्तविधानतः एवं तेषु क्रियावत्सु प्रवर्तन्तीह वै कृते
श्रौतस्मार्तस्थितानां तु धर्मे सप्तर्षिदर्शिते ते तु धर्मव्यवस्थार्थं तिष्ठन्तीह कृते युगे
मन्वन्तराधिकारेषु तिष्ठन्ति ऋषयस्तु ते यथा दावप्रदग्धेषु तृणेष्वेवापरं तृणम्
वनानां प्रथमं वृष्ट्या तेषां मूलेषु सम्भवः एवं युगाद्युगानां वै संतानस्तु परस्परम्
प्रवर्तते ह्यविच्छेदाद् यावन्मन्वन्तरक्षयः सुखमायुर्बलं रूपं धर्मार्थौ काम एव च
युगेष्वेतानि हीयन्ते त्रयः पादाः क्रमेण तु इत्येष प्रतिसंधिर्वः कीर्तितस्तु मया द्विजाः
चतुर्युगाणां सर्वेषाम् एतदेव प्रसाधनम् एषां चतुर्युगाणां तु गणिता ह्येकसप्ततिः
क्रमेण परिवृत्तास्ता मनोरन्तरमुच्यते युगाख्यासु तु सर्वासु भवतीह यदा च यत्
तदेव च तदन्यासु पुनस्तद्वै यथाक्रमम् सर्गे सर्गे यथा भेदा ह्य् उत्पद्यन्ते तथैव च
चतुर्दशसु तावन्तो ज्ञेया मन्वन्तरेष्विह आसुरी यातुधानी च पैशाची यक्षराक्षसी
युगे युगे तदा काले प्रजा जायन्ति ताः शृणु यथाकल्पं युगैः सार्धं भवन्ते तुल्यलक्षणाः इत्येतल्लक्षणं प्रोक्तं युगानां वै यथाक्रमम्
मन्वन्तराणां परिवर्तनानि चिरप्रवृत्तानि युगस्वभावात् क्षणं न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः