लम्पकान् आन्ध्रकांश्चापि चोरजातींस्तथैव च प्रवृत्तचक्रो बलवाञ् छूद्राणामन्तकृद्बभौ
विद्राव्य सर्वभूतानि चचार वसुधामिमाम् मानवस्य तु वंशे तु नृदेवस्येह जज्ञिवान्
पूर्वजन्मनि विष्णुश्च प्रमतिर्नाम वीर्यवान् सुतः स वै चन्द्रमसः पूर्वे कलियुगे प्रभुः
द्वात्रिंशे ऽभ्युदिते वर्षे प्रक्रान्तो विंशतिं समाः निजघ्ने सर्वभूतानि मानुषाण्येव सर्वशः
कृत्वा बीजावशिष्टां तां पृथ्वीं क्रूरेण कर्मणा परस्परनिमित्तेन कालेनाकस्मिकेन च
संस्थिता सहसा या तु सेना प्रमतिना सह गङ्गायमुनयोर्मध्ये सिद्धिं प्राप्ता समाधिना
ततस्तेषु प्रनष्टेषु संध्यांशे कूरकर्मसु उत्साद्य पार्थिवान्सर्वांस् तेष्वतीतेषु वै तदा
ततः संध्यांशके काले सम्प्राप्ते च युगान्तिके स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित् क्वचित्
स्वाप्रदानास् तदा ते वै लोभाविष्टास्तु वृन्दशः उपहिंसन्ति चान्योन्यं प्रलुम्पन्ति परस्परम्
अराजके युगांशे तु संक्षये समुपस्थिते प्रजास्ता वै तदा सर्वाः परस्परभयार्दिताः
व्याकुलास्ताः परावृत्तास् त्यक्त्वा देवं गृहाणि तु स्वान्स्वान्प्राणानवेक्षन्तो निष्कारुण्यात् सुदुःखिताः
नष्टे श्रौतस्मृते धर्मे कामक्रोधवशानुगाः निर्मर्यादा निरानन्दा निःस्नेहा निरपत्रपाः
नष्टे धर्मे प्रतिहता ह्रस्वकाः पञ्चविंशकाः हित्वा दारांश्च पुत्रांश्च विषादव्याकुलप्रजाः
अनावृष्टिहतास्ते वै वार्त्तामुत्सृज्य दुःखिताः आश्रयन्ति स्म प्रत्यन्तान् हित्वा जनपदान्स्वकान्
सरितः सागरानूपान् सेवन्ते पर्वतानपि चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः
वर्णाश्रमपरिभ्रष्टाः संकरं घोरमास्थिताः एवं कष्टमनुप्राप्ता ह्य् अल्पशेषाः प्रजास्ततः
जन्तवश्च क्षुधाविष्टा दुःखान्निर्वेदमागमन् संश्रयन्ति च देशांस्तांश् चक्रवत्परिवर्तनाः
ततः प्रजास्तु ताः सर्वा मांसाहारा भवन्ति हि मृगान्वराहान्वृषभान् ये चान्ये वनचारिणः
भक्ष्यांश्चैवाप्यभक्ष्यांश्च सर्वांस्तान्भक्षयन्ति ताः समुद्रं संश्रिता यास्तु नदीश्चैव प्रजास्तु ताः
ते ऽपि मत्स्यान्हरन्तीह आहारार्थं च सर्वशः अभक्ष्याहारदोषेण एकवर्णगताः प्रजाः
यथा कृतयुगे पूर्वम् एकवर्णमभूत्किल तथा कलियुगस्यान्ते शूद्रीभूताः प्रजास्तथा
एवं वर्षशतं पूर्णं दिव्यं तेषां न्यवर्तत षट्त्रिंशच्च सहस्राणि मानुषाणि तु तानि वै
अथ दीर्घेण कालेन पक्षिणः पशवस्तथा मत्स्याश्चैव हताः सर्वैः क्षुधाविष्टैश्च सर्वशः
निःशेषेष्वथ सर्वेषु मत्स्यपक्षिपशुष्वथ संध्यांशे प्रतिपन्ने तु निःशेषास्तु तदा कृताः
ततः प्रजास्तु सम्भूय कन्दमूलमथो ऽखनन् फलमूलाशनाः सर्वे अनिकेतास्तथैव च
वल्कलान्यथ वासांसि अधःशय्याश्च सर्वशः परिग्रहो न तेष्वस्ति धनशुद्धिमवाप्नुयुः
एवं क्षयं गमिष्यन्ति ह्य् अल्पशिष्टाः प्रजास्तदा तासामल्पावशिष्टानाम् आहारादृद्धिरिष्यते
एवं वर्षशतं दिव्यं संध्यांशस्तस्य वर्तते ततो वर्षशतस्यान्ते अल्पशिष्टाः स्त्रियः सुताः
मिथुनानि तु ताः सर्वा ह्य् अन्योन्यं सम्प्रजज्ञिरे ततस्तास्तु म्रियन्ते वै पूर्वोत्पन्नाः प्रजास्तु याः
जातमात्रेष्वपत्येषु ततः कृतमवर्तत यथा स्वर्गे शरीराणि नरके चैव देहिनाम्