नाधीयते तथा वेदान् न यजन्ते द्विजातयः उत्सीदन्ति तथा चैव वैश्यैः सार्धं तु क्षत्रियाः
शूद्राणां मन्त्रयोनिस्तु सम्बन्धो ब्राह्मणैः सह भवतीह कलौ तस्मिञ् छयनासनभोजनैः
राजानः शूद्रभूयिष्ठाः पाषण्डानां प्रवृत्तयः काषायिणश्च निष्कच्छास् तथा कापालिनश्च ह
ये चान्ये देवव्रतिनस् तथा ये धर्मदूषकाः दिव्यवृत्ताश्च ये केचिद् वृत्त्यर्थं श्रुतिलिङ्गिनः
एवंविधाश्च ये केचिद् भवन्तीह कलौ युगे अधीयते तदा वेदाञ् छूद्रा धर्मार्थकोविदाः
यजन्ते ह्यश्वमेधैस्तु राजानः शूद्रयोनयः स्त्रीबालगोवधं कृत्वा हत्वा चैव परस्परम्
उपहत्य तथान्योन्यं साधयन्ति तदा प्रजाः दुःखप्रचुरताल्पायुर् देशोत्सादः सरोगता
अधर्माभिनिवेशित्वं तमोवृत्तं कलौ स्मृतम् भ्रूणहत्या प्रजानां न तथा ह्येवं प्रवर्तते
तस्मादायुर्बलं रूपं प्रहीयन्ते कलौ युगे दुःखेनाभिप्लुतानां च परमायुः शतं नृणाम्
भूत्वा च न भवन्तीह वेदाः कलियुगे ऽखिलाः उत्सीदन्ते तथा यज्ञाः केवलं धर्महेतवः
एषा कलियुगावस्था संध्यांशौ तु निबोधत युगे युगे तु हीयन्ते त्रींस्त्रीन्पादांश्च सिद्धयः
युगस्वभावाः संध्यासु अवतिष्ठन्ति पादतः संध्यास्वभावाः स्वांशेषु पादेनैवावतस्थिरे
एवं संध्यांशके काले सम्प्राप्ते तु युगान्तिके तेषामधर्मिणां शास्ता भृगूणां च कुले स्थितः
गोत्रेण वै चन्द्रमसो नाम्ना प्रमतिरुच्यते कलिसंध्यांशभागेषु मनोः स्वायम्भुवे ऽन्तरे
समास्त्रिंशत्तु सम्पूर्णाः पर्यटन्वै वसुंधराम् अश्वकर्मा स वै सेनां हस्त्यश्वरथसंकुलाम्
प्रगृहीतायुधैर्विप्रैः शतशो ऽथ सहस्रशः स तदा तैः परिवृतो म्लेच्छान्सर्वान् निजघ्निवान्
स हत्वा सर्वशश्चैव राजानः शूद्रयोनयः पाषण्डान्स सदा सर्वान् निःशेषानकरोत्प्रभुः
अधार्मिकाश्च ये केचित् तान्सर्वान्हन्ति सर्वशः उदीच्यान्मध्यदेशांश्च पार्वतीयांस्तथैव च
प्राच्यान्प्रतीच्यांश्च तथा विन्ध्यपृष्ठापरान्तिकान् तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह
गान्धारान्पारदांश्चैव पह्लवान्यवनाञ्छकान् तुषारान्बर्बराञ्छ्वेतान् हलिकान्दरदान्खसान्
लम्पकान् आन्ध्रकांश्चापि चोरजातींस्तथैव च प्रवृत्तचक्रो बलवाञ् छूद्राणामन्तकृद्बभौ
विद्राव्य सर्वभूतानि चचार वसुधामिमाम् मानवस्य तु वंशे तु नृदेवस्येह जज्ञिवान्
पूर्वजन्मनि विष्णुश्च प्रमतिर्नाम वीर्यवान् सुतः स वै चन्द्रमसः पूर्वे कलियुगे प्रभुः
द्वात्रिंशे ऽभ्युदिते वर्षे प्रक्रान्तो विंशतिं समाः निजघ्ने सर्वभूतानि मानुषाण्येव सर्वशः
कृत्वा बीजावशिष्टां तां पृथ्वीं क्रूरेण कर्मणा परस्परनिमित्तेन कालेनाकस्मिकेन च
संस्थिता सहसा या तु सेना प्रमतिना सह गङ्गायमुनयोर्मध्ये सिद्धिं प्राप्ता समाधिना
ततस्तेषु प्रनष्टेषु संध्यांशे कूरकर्मसु उत्साद्य पार्थिवान्सर्वांस् तेष्वतीतेषु वै तदा
ततः संध्यांशके काले सम्प्राप्ते च युगान्तिके स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित् क्वचित्
स्वाप्रदानास् तदा ते वै लोभाविष्टास्तु वृन्दशः उपहिंसन्ति चान्योन्यं प्रलुम्पन्ति परस्परम्
अराजके युगांशे तु संक्षये समुपस्थिते प्रजास्ता वै तदा सर्वाः परस्परभयार्दिताः