अनिश्चयावगमनाद् धर्मतत्त्वं न विद्यते धर्मतत्त्वे ह्यविज्ञाते मतिभेदस्तु जायते
परस्परं विभिन्नास्ते दृष्टीनां विभ्रमेण तु अतो दृष्टिविभिन्नैस्तैः कृतमत्याकुलं त्विदम्
एको वेदश्चतुष्पादः संहृत्य तु पुनः पुनः संक्षेपादायुषश्चैव व्यस्यते द्वापरेष्विह
वेदश्चैकश्चतुर्धा तु व्यस्यते द्वापरादिषु ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः
ते तु ब्राह्मणविन्यासैः स्वरक्रमविपर्ययैः संहृता ऋग्यजुःसाम्नां संहितास्तैर्महर्षिभिः
सामान्याद्वैकृताच्चैव दृष्टिभिन्नैः क्वचित्क्वचित् ब्राह्मणं कल्पसूत्राणि भाष्यविद्यास्तथैव च
अन्ये तु प्रस्थितास्तान्वै केचित् तान् प्रत्यवस्थिताः द्वापरेषु प्रवर्तन्ते भिन्नार्थैस्तैः स्वदर्शनैः
एकमाध्वर्यवं पूर्वम् आसीद्द्वैधं तु तत्पुनः सामान्यविपरीतार्थैः कृतं शास्त्राकुलं त्विदम्
आध्वर्यवं च प्रस्थानैर् बहुधा व्याकुलीकृतम् तथैवाथर्वणां साम्नां विकल्पैः स्वस्य संक्षयैः
व्याकुलो द्वापरेष्वर्थः क्रियते भिन्नदर्शनैः द्वापरे संनिवृत्ते ते वेदा नश्यन्ति वै कलौ
तेषां विपर्ययोत्पन्ना भवन्ति द्वापरे पुनः अदृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः
वाङ्मनःकर्मभिर्दुःखैर् निर्वेदो जायते ततः निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा
विचारणायां वैराग्यं वैराग्याद्दोषदर्शनम् दोषाणां दर्शनाच्चैव ज्ञानोत्पत्तिस्तु जायते
तेषां मेधाविनां पूर्वं मर्त्ये स्वायम्भुवे ऽन्तरे उत्पस्यन्तीह शास्त्राणां द्वापरे परिपन्थिनः
आयुर्वेदविकल्पाश्च अङ्गानां ज्योतिषस्य च अर्थशास्त्रविकल्पाश्च हेतुशास्त्रविकल्पनम्
प्रक्रिया कल्पसूत्राणां भाष्यविद्याविकल्पनम् स्मृतिशास्त्रप्रभेदाश्च प्रस्थानानि पृथक् पृथक्
द्वापरेष्वभिवर्तन्ते मतिभेदास्तथा नृणाम् मनसा कर्मणा वाचा कृच्छ्राद्वार्त्ता प्रसिध्यति
द्वापरे सर्वभूतानां कालः क्लेशपरः स्मृतः लोभो ऽधृतिर्वणिग्युद्धं तत्त्वानामविनिश्चयः
वेदशास्त्रप्रणयनं धर्माणां संकरस्तथा वर्णाश्रमपरिध्वंसः कामद्वेषौ तथैव च
पूर्णे वर्षसहस्रे द्वे परमायुस्तदा नृणाम् निःशेषे द्वापरे तस्मिंस् तस्य संध्या तु पादतः
गुणहीनास्तु तिष्ठन्ति धर्मस्य द्वापरस्य तु तथैव संध्या पादेन अंशस्तस्यां प्रतिष्ठितः
द्वापरस्य तु पर्याये पुष्यस्य च निबोधत द्वापरस्यांशशेषे तु प्रतिपत्तिः कलेरथ
हिंसा स्तेयानृतं माया दम्भश्चैव तपस्विनाम् एते स्वभावाः पुष्यस्य साधयन्ति च ताः प्रजाः
एष धर्मः स्मृतः कृत्स्नो धर्मश्च परिहीयते मनसा कर्मणा वाचा वार्त्ताः सिध्यन्ति वा न वा
कलिः प्रमारको रोगः सततं चापि क्षुद्भयम् अनावृष्टिभयं चैव देशानां च विपर्ययः
न प्रमाणे स्थितिर्ह्यस्ति पुष्ये घोरे युगे कलौ गर्भस्थो म्रियते कश्चिद् यौवनस्थस्तथा परः
स्थाविर्ये मध्यकौमारे म्रियन्ते च कलौ प्रजाः अल्पतेजोबलाः पापा महाकोपा ह्यधार्मिकाः
अनृतव्रतलुब्धाश्च पुष्ये चैव प्रजाः स्थिताः दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः
विप्राणां कर्मदोषैस्तैः प्रजानां जायते भयम् हिंसा मानस्तथेर्ष्या च क्रोधो ऽसूयाक्षमाधृतिः
पुष्ये भवन्ति जन्तूनां लोभो मोहश्च सर्वशः संक्षोभो जायते ऽत्यर्थं कलिमासाद्य वै युगम्