तस्मान्न हिंसायज्ञं च प्रशंसन्ति महर्षयः उञ्छं मूलं फलं शाकम् उदपात्रं तपोधनाः
एतद्दत्त्वा विभवतः स्वर्गलोके प्रतिष्ठिताः अद्रोहश्चाप्यलोभश्च दमो भूतदया शमः
ब्रह्मचर्यं तपः शौचम् अनुक्रोशं क्षमा धृतिः सनातनस्य धर्मस्य मूलमेव दुरासदम्
द्रव्यमन्त्रात्मको यज्ञस् तपश्च समतात्मकम् यज्ञैश्च देवानाप्नोति वैराजं तपसा पुनः
ब्रह्मणः कर्मसंन्यासाद् वैराग्यात्प्रकृतेर्लयम् ज्ञानात्प्राप्नोति कैवल्यं पञ्चैता गतयः स्मृताः
एवं विवादः सुमहान् यज्ञस्यासीत्प्रवर्तने ऋषीणां देवतानां च पूर्वे स्वायम्भुवे ऽन्तरे
ततस्ते ऋषयो दृष्ट्वा हृतं धर्मं बलेन तु वसोर्वाक्यमनादृत्य जग्मुस्ते वै यथागतम्
गतेषु ऋषिसंघेषु देवा यज्ञमवाप्नुयुः श्रूयन्ते हि तपःसिद्धा ब्रह्मक्षत्रादयो नृपाः
प्रियव्रतोत्तानपादौ ध्रुवो मेधातिथिर्वसुः सुधामा विरजाश्चैव शङ्खपाद्राजसस्तथा
प्राचीनबर्हिः पर्जन्यो हविर्धानादयो नृपाः एते चान्ये च बहवस् ते तपोभिर्दिवं गताः
राजर्षयो महात्मानो येषां कीर्तिः प्रतिष्ठिता तस्माद्विशिष्यते यज्ञात् तपः सर्वैस्तु कारणैः
ब्रह्मणा तपसा सृष्टं जगद्विश्वमिदं पुरा तस्मान्नाप्नोति तद्यज्ञात् तपोमूलमिदं स्मृतम्
यज्ञप्रवर्तनं ह्येवम् आसीत्स्वायम्भुवे ऽन्तरे तदाप्रभृति यज्ञो ऽयं युगैः सार्धं प्रवर्तितः
अत ऊर्ध्वं प्रवक्ष्यामि द्वापरस्य विधिं पुनः तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते
द्वापरादौ प्रजानां तु सिद्धिस्त्रेतायुगे तु या परिवृत्ते युगे तस्मिंस् ततः सा वै प्रणश्यति
ततः प्रवर्तिते तासां प्रजानां द्वापरे पुनः लोभो धृतिर्वणिग्युद्धं तत्त्वानाम् अविनिश्चयः
प्रध्वंसश्चैव वर्णानां कर्मणां तु विपर्ययः यात्रा वधः परो दण्डो मानो दर्पो ऽक्षमा बलम्
तथा रजस्तमो भूयः प्रवृत्ते द्वापरे पुनः आद्ये कृते नाधर्मो ऽस्ति स त्रेतायां प्रवर्तितः
द्वापरे व्याकुलो भूत्वा प्रणश्यति कलौ पुनः वर्णानां द्वापरे धर्माः संकीर्यन्ते तथाश्रमाः
द्वैधमुत्पद्यते चैव युगे तस्मिञ्श्रुतिस्मृतौ द्विधा श्रुतिः स्मृतिश्चैव निश्चयो नाधिगम्यते
अनिश्चयावगमनाद् धर्मतत्त्वं न विद्यते धर्मतत्त्वे ह्यविज्ञाते मतिभेदस्तु जायते
परस्परं विभिन्नास्ते दृष्टीनां विभ्रमेण तु अतो दृष्टिविभिन्नैस्तैः कृतमत्याकुलं त्विदम्
एको वेदश्चतुष्पादः संहृत्य तु पुनः पुनः संक्षेपादायुषश्चैव व्यस्यते द्वापरेष्विह
वेदश्चैकश्चतुर्धा तु व्यस्यते द्वापरादिषु ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः
ते तु ब्राह्मणविन्यासैः स्वरक्रमविपर्ययैः संहृता ऋग्यजुःसाम्नां संहितास्तैर्महर्षिभिः
सामान्याद्वैकृताच्चैव दृष्टिभिन्नैः क्वचित्क्वचित् ब्राह्मणं कल्पसूत्राणि भाष्यविद्यास्तथैव च
अन्ये तु प्रस्थितास्तान्वै केचित् तान् प्रत्यवस्थिताः द्वापरेषु प्रवर्तन्ते भिन्नार्थैस्तैः स्वदर्शनैः
एकमाध्वर्यवं पूर्वम् आसीद्द्वैधं तु तत्पुनः सामान्यविपरीतार्थैः कृतं शास्त्राकुलं त्विदम्
आध्वर्यवं च प्रस्थानैर् बहुधा व्याकुलीकृतम् तथैवाथर्वणां साम्नां विकल्पैः स्वस्य संक्षयैः
व्याकुलो द्वापरेष्वर्थः क्रियते भिन्नदर्शनैः द्वापरे संनिवृत्ते ते वेदा नश्यन्ति वै कलौ