त्रेतायुगस्वभावेन संध्यापादेन वर्तते संध्यापादः स्वभावाच्च यो ऽंशः पादेन तिष्ठति
कथं त्रेतायुगमुखे यज्ञस्यासीत्प्रवर्तनम् पूर्वे स्वायम्भुवे सर्गे यथावत्प्रब्रवीहि नः
अन्तर्हितायां संध्यायां सार्धं कृतयुगेन हि कालाख्यायां प्रवृत्तायां प्राप्ते त्रेतायुगे तदा
ओषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने प्रतिष्ठितायां वार्त्तायां ग्रामेषु च पुरेषु च
वर्णाश्रमप्रतिष्ठानं कृत्वा मन्त्रैश्च तैः पुनः संहितास्तु सुसंहृत्य कथं यज्ञः प्रवर्तितः एतच्छ्रुत्वाब्रवीत्सूतः श्रूयतां तत्प्रचोदितम्
मन्त्रान्वै योजयित्वा तु इहामुत्र च कर्मसु तथा विश्वभुगिन्द्रस्तु यज्ञं प्रावर्तयत्प्रभुः
दैवतैः सह संहृत्य सर्वसाधनसंवृतः तस्याश्वमेधे वितते समाजग्मुर्महर्षयः
यज्ञकर्मण्यवर्तन्त कर्मण्यग्रे तथर्त्विजः हूयमाने देवहोत्रे अग्नौ बहुविधं हविः
सम्प्रतीतेषु देवेषु सामगेषु च सुस्वरम् परिक्रान्तेषु लघुषु अध्वर्युपुरुषेषु च
आलब्धेषु च मध्ये तु तथा पशुगणेषु वै आहूतेषु च देवेषु यज्ञभुक्षु ततस्तदा
य इन्द्रियात्मका देवा यज्ञभागभुजस्तु ते तान्यजन्ति तदा देवाः कल्यादिषु भवन्ति ये
अध्वर्युप्रैषकाले तु व्युत्थिता ऋषयस्तथा महर्षयश्च तान्दृष्ट्वा दीनान्पशुगणांस्तदा विश्वभुजं ते त्वपृच्छन् कथं यज्ञविधिस्तव
अधर्मो बलवानेष हिंसा धर्मेप्सया तव नवः पशुविधिस्त्विष्टस् तव यज्ञे सुरोत्तम
अधर्मो धर्मघाताय प्रारब्धः पशुभिस्त्वया नायं धर्मो ह्यधर्मो ऽयं न हिंसा धर्म उच्यते आगमेन भवान्धर्मं प्रकरोतु यदीच्छति
विधिदृष्टेन यज्ञेन धर्मेणाव्यसनेन तु यज्ञबीजैः सुरश्रेष्ठ त्रिवर्गपरिमोषितैः
एष यज्ञो महानिन्द्रः स्वयम्भुविहितः पुरा एवं विश्वभुगिन्द्रस्तु ऋषिभिस्तत्त्वदर्शिभिः उक्तो न प्रतिजग्राह मानमोहसमन्वितः
तेषां विवादः सुमहाञ् जज्ञे इन्द्रमहर्षीणाम् जङ्गमैः स्थावरैः केन यष्टव्यमिति चोच्यते
ते तु खिन्ना विवादेन शक्त्या युक्ता महर्षयः संधाय सममिन्द्रेण पप्रच्छुः खचरं वसुम्
महाप्राज्ञ त्वया दृष्टः कथं यज्ञविधिर्नृप औत्तानपादे प्रब्रूहि संशयं नस्तुद प्रभो
श्रुत्वा वाक्यं वसुस्तेषाम् अविचार्य बलाबलम् वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह
यथोपनीतैर्यष्टव्यम् इति होवाच पार्थिवः यष्टव्यं पशुभिर्मेध्यैर् अथ मूलफलैरपि
हिंसा स्वभावो यज्ञस्य इति मे दर्शनागमः तथैते भाविता मन्त्रा हिंसालिङ्गा महर्षिभिः
दीर्घेण तपसा युक्तैस् तारकादिनिदर्शिभिः तत्प्रमाणं मया चोक्तं तस्माच्छमितुम् अर्हथ
यदि प्रमाणं स्वान्येव मन्त्रवाक्याणि वो द्विजाः तथा प्रवर्ततां यज्ञो ह्य् अन्यथा मानृतं वचः
एवं कृतोत्तरास्ते तु युज्यात्मानं ततो धिया अवश्यम्भाविनं दृष्ट्वा तमधो ह्यशपंस्तदा
इत्युक्तमात्रो नृपतिः प्रविवेश रसातलम् ऊर्ध्वचारी नृपो भूत्वा रसातलचरो ऽभवत्
वसुधातलचारी तु तेन वाक्येन सो ऽभवत् धर्माणां संशयछेत्ता राजा वसुरधोगतः
तस्मान्न वाच्यो ह्येकेन बहुज्ञेनापि संशयः बहुधारस्य धर्मस्य सूक्ष्मा दुरनुगा गतिः
तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यो हि केनचित् देवानृषीनुपादाय स्वायम्भुवमृते मनुम्
तस्मान्न हिंसा यज्ञे स्याद् यदुक्तमृषिभिः पुरा ऋषिकोटिसहस्राणि स्वैस्तपोभिर्दिवं गताः