यामैः शुक्लैर्जयैश्चैव सर्वसाधनसंभृतैः विश्वसृड्भिस् तथा सार्धं देवेन्द्रेण महौजसा स्वायम्भुवे ऽन्तरे देवैस् ते यज्ञाः प्राक्प्रवर्तिताः
सत्यं जपस्तपो दानं पूर्वधर्मो य उच्यते यदा धर्मस्य ह्रसते शाखाधर्मस्य वर्धते
जायन्ते च तदा शूरा आयुष्मन्तो महाबलाः न्यस्तदण्डा महायोगा यज्वानो ब्रह्मवादिनः
पद्मपत्त्रायताक्षाश्च पृथुवक्त्राः सुसंहताः सिंहोरस्का महासत्त्वा मत्तमातंगगामिनः
महाधनुर्धराश्चैव त्रेतायां चक्रवर्तिनः सर्वलक्षणपूर्णास्ते न्यग्रोधपरिमण्डलाः
न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उच्यते व्यामेन सूच्छ्रयो यस्य अत ऊर्ध्वं तु देहिनः समुच्छ्रयः परीणाहो न्यग्रोधपरिमण्डलः
चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा प्रोक्तानि सप्त रत्नानि पूर्वं स्वायम्भुवे ऽन्तरे
विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्तिनः मन्वन्तरेषु सर्वेषु ह्य् अतीतानागतेषु वै
भूतभव्यानि यानीह वर्तमानानि यानि च त्रेतायुगानि तेष्वत्र जायन्ते चक्रवर्तिनः
भद्राणीमानि तेषां च विभाव्यन्ते महीक्षिताम् अत्यद्भुतानि चत्वारि बलं धर्मं सुखं धनम्
अन्योन्यस्याविरोधेन प्राप्यन्ते नृपतेः समम् अर्थो धर्मश्च कामश्च यशो विजय एव च
ऐश्वर्येणाणिमाद्येन प्रभुशक्तिबलान्विताः श्रुतेन तपसा चैव ऋषींस्ते ऽभिभवन्ति हि
बलेनाभिभवन्त्येते तेन दानवमानवान् लक्षणैश्चैव जायन्ते शरीरस्थैरमानुषैः
केशाः स्थिता ललाटेन जिह्वा च परिमार्जनी श्यामप्रभाश्चतुर्दंष्ट्राः सुवंशाश्चोर्ध्वरेतसः
आजानुबाहवश्चैव तालहस्तौ वृषाकृती परिणाहप्रमाणाभ्यां सिंहस्कन्धाश्च मेधिनः
पादयोश्चक्रमत्स्यौ तु शङ्खपद्मे च हस्तयोः पञ्चाशीतिसहस्राणि जीवन्ति ह्यजरामयाः
असङ्गा गतयस्तेषां चतस्रश्चक्रवर्तिनाम् अन्तरिक्षे समुद्रेषु पाताले पर्वतेषु च
इज्या दानं तपः सत्यं त्रेताधर्मास्तु वै स्मृताः तदा प्रवर्तते धर्मो वर्णाश्रमविभागशः मर्यादास्थापनार्थं च दण्डनीतिः प्रवर्तते
हृष्टपुष्टा जनाः सर्वे अरोगाः पूर्णमानसाः एको वेदश्चतुष्पादस् त्रेतायां तु विधिः स्मृतः त्रीणि वर्षसहस्राणि जीवन्ते तत्र ताः प्रजाः
पुत्रपौत्रसमाकीर्णा म्रियन्ते च क्रमेण ताः एष त्रेतायुगे भावस् त्रेतासंख्यां निबोधत
त्रेतायुगस्वभावेन संध्यापादेन वर्तते संध्यापादः स्वभावाच्च यो ऽंशः पादेन तिष्ठति
कथं त्रेतायुगमुखे यज्ञस्यासीत्प्रवर्तनम् पूर्वे स्वायम्भुवे सर्गे यथावत्प्रब्रवीहि नः
अन्तर्हितायां संध्यायां सार्धं कृतयुगेन हि कालाख्यायां प्रवृत्तायां प्राप्ते त्रेतायुगे तदा
ओषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने प्रतिष्ठितायां वार्त्तायां ग्रामेषु च पुरेषु च
वर्णाश्रमप्रतिष्ठानं कृत्वा मन्त्रैश्च तैः पुनः संहितास्तु सुसंहृत्य कथं यज्ञः प्रवर्तितः एतच्छ्रुत्वाब्रवीत्सूतः श्रूयतां तत्प्रचोदितम्
मन्त्रान्वै योजयित्वा तु इहामुत्र च कर्मसु तथा विश्वभुगिन्द्रस्तु यज्ञं प्रावर्तयत्प्रभुः
दैवतैः सह संहृत्य सर्वसाधनसंवृतः तस्याश्वमेधे वितते समाजग्मुर्महर्षयः
यज्ञकर्मण्यवर्तन्त कर्मण्यग्रे तथर्त्विजः हूयमाने देवहोत्रे अग्नौ बहुविधं हविः
सम्प्रतीतेषु देवेषु सामगेषु च सुस्वरम् परिक्रान्तेषु लघुषु अध्वर्युपुरुषेषु च
आलब्धेषु च मध्ये तु तथा पशुगणेषु वै आहूतेषु च देवेषु यज्ञभुक्षु ततस्तदा