कल्पप्रमाणो द्विगुणो यथा भवति संख्यया चतुर्युगाख्या व्याख्याता कृतं त्रेतायुगं च वै
त्रेतासृष्टं प्रवक्ष्यामि द्वापरं कलिमेव च युगपत्समवेतौ द्वौ द्विधा वक्तुं न शक्यते
क्रमागतं मयाप्येतत् तुभ्यं नोक्तं युगद्वयम् ऋषिवंशप्रसङ्गेन व्याकुलत्वात्तथा क्रमात्
नोक्तं त्रेतायुगे शेषं तद्वक्ष्यामि निबोधत अथ त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ये श्रौतस्मार्तं ब्रुवन्धर्मं ब्रह्मणा तु प्रचोदिताः
दाराग्निहोत्रसम्बन्धम् ऋग्यजुःसामसंहिताः इत्यादिबहुलं श्रौतं धर्मं सप्तर्षयो ऽब्रुवन्
परम्परागतं धर्मं स्मार्तं त्वाचारलक्षणम् वर्णाश्रमाचारयुतं मनुः स्वायम्भुवो ऽब्रवीत्
सत्येन ब्रह्मचर्येण श्रुतेन तपसा तथा तेषां सुतप्ततपसाम् आर्षेणानुक्रमेण ह
सप्तर्षीणां मनोश्चैव आदौ त्रेतायुगे ततः अबुद्धिपूर्वकं तेन सकृत्पूर्वकमेव च
अभिवृत्तास्तु ते मन्त्रा दर्शनैस्तारकादिभिः आदिकल्पे तु देवानां प्रादुर्भूतास्तु ते स्वयम्
प्रमाणेष्वथ सिद्धानाम् अन्येषां च प्रवर्तते मन्त्रयोगो व्यतीतेषु कल्पेष्वथ सहस्रशः ते मन्त्रा वै पुनस्तेषां प्रतिमायामुपस्थिताः
ऋचो यजूंषि सामानि मन्त्राश्चाथर्वणास्तु ये सप्तर्षिभिश्च ये प्रोक्ताः स्मार्तं तु मनुरब्रवीत्
त्रेतादौ संहता वेदाः केवलं धर्मसेतवः संरोधादायुषश्चैव व्यस्यन्ते द्वापरे च ते ऋषयस्तपसा वेदान् अहोरात्रमधीयते
अनादिनिधना दिव्याः पूर्वं प्रोक्ताः स्वयम्भुवा स्वधर्मसंवृताः साङ्गा यथाधर्मं युगे युगे विक्रियन्ते स्वधर्मं तु वेदवादाद्यथायुगम्
आरम्भयज्ञः क्षत्रस्य हविर्यज्ञा विशः स्मृताः परिचारयज्ञाः शूद्राश्च जपयज्ञाश्च ब्राह्मणाः
ततः समुदिता वर्णास् त्रेतायां धर्मशालिनः क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनश्च वै
ब्राह्मणैश्च विधीयन्ते क्षत्रियाः क्षत्रियैर्विशः वैश्याञ्छूद्रा अनुवर्तन्ते परस्परमनुग्रहात्
शुभाः प्रकृतयस्तेषां धर्मा वर्णाश्रमाश्रयाः संकल्पितेन मनसा वाचा वा हस्तकर्मणा त्रेतायुगे ह्यविकले कर्मारम्भः प्रसिध्यति
आयूरूपं बलं मेधा आरोग्यं धर्मशीलता सर्वसाधारणं ह्येतद् आसीत्त्रेतायुगे तु वै
वर्णाश्रमव्यवस्थानम् एषां ब्रह्मा तथाकरोत् संहिताश्च तथा मन्त्रा आरोग्यं धर्मशीलता
संहिताश्च तथा मन्त्रा ऋषिभिर् ब्रह्मणः सुतैः यज्ञः प्रवर्तितश्चैव तदा ह्येव तु दैवतैः
यामैः शुक्लैर्जयैश्चैव सर्वसाधनसंभृतैः विश्वसृड्भिस् तथा सार्धं देवेन्द्रेण महौजसा स्वायम्भुवे ऽन्तरे देवैस् ते यज्ञाः प्राक्प्रवर्तिताः
सत्यं जपस्तपो दानं पूर्वधर्मो य उच्यते यदा धर्मस्य ह्रसते शाखाधर्मस्य वर्धते
जायन्ते च तदा शूरा आयुष्मन्तो महाबलाः न्यस्तदण्डा महायोगा यज्वानो ब्रह्मवादिनः
पद्मपत्त्रायताक्षाश्च पृथुवक्त्राः सुसंहताः सिंहोरस्का महासत्त्वा मत्तमातंगगामिनः
महाधनुर्धराश्चैव त्रेतायां चक्रवर्तिनः सर्वलक्षणपूर्णास्ते न्यग्रोधपरिमण्डलाः
न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उच्यते व्यामेन सूच्छ्रयो यस्य अत ऊर्ध्वं तु देहिनः समुच्छ्रयः परीणाहो न्यग्रोधपरिमण्डलः
चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा प्रोक्तानि सप्त रत्नानि पूर्वं स्वायम्भुवे ऽन्तरे
विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्तिनः मन्वन्तरेषु सर्वेषु ह्य् अतीतानागतेषु वै
भूतभव्यानि यानीह वर्तमानानि यानि च त्रेतायुगानि तेष्वत्र जायन्ते चक्रवर्तिनः
भद्राणीमानि तेषां च विभाव्यन्ते महीक्षिताम् अत्यद्भुतानि चत्वारि बलं धर्मं सुखं धनम्