चत्वारि भारते वर्षे युगानि ऋषयो ऽब्रुवन् कृतं त्रेता द्वापरं च कलिश्चैवं चतुर्युगम्
पूर्वं कृतयुगं नाम ततस्त्रेताभिधीयते द्वापरं च कलिश्चैव युगानि परिकल्पयेत्
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् तस्य ताव् अच्छती संध्या संध्यांशश्च तथाविधः
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु एकपादे निवर्तन्ते सहस्राणि शतानि च
त्रेता त्रीणि सहस्राणि युगसंख्याविदो विदुः तस्यापि त्रिशती संध्या संध्यांशः संध्यया समः
द्वे सहस्रे द्वापरं तु संध्यांशौ तु चतुःशतम् सहस्रमेकं वर्षाणां कलिरेव प्रकीर्तितः द्वे शते च तथान्ये च संध्यासंध्यांशयोः स्मृते
एषा द्वादशसाहस्री युगसंख्या तु संज्ञिता कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम्
तत्र संवत्सराः सृष्टा मानुषास्तान्निबोधत नियुतानि दश द्वे च पञ्च चैवात्र संख्यया अष्टाविंशत्सहस्राणि कृतं युगमथोच्यते
प्रयुतं तु तथा पूर्णं द्वे चान्ये नियुते पुनः षण्णवतिसहस्राणि संख्यातानि च संख्यया त्रेतायुगस्य संख्यैषा मानुषेण तु संज्ञिता
अष्टौ शतसहस्राणि वर्षाणां मानुषाणि तु चतुःषष्टिसहस्राणि वर्षाणां द्वापरं युगम्
चत्वारि नियुतानि स्युर् वर्षाणि तु कलिर्युगम् द्वात्रिंशच्च तथान्यानि सहस्राणि तु संख्यया एतत्कलियुगं प्रोक्तं मानुषेण प्रमाणतः
एषा चतुर्युगावस्था मानुषेण प्रकीर्तिता चतुर्युगस्य संख्याता संध्या संध्यांशकैः सह
एषा चतुर्युगाख्या तु साधिका त्वेकसप्ततिः कृतत्रेतादियुक्ता सा मनोरन्तरमुच्यते
मन्वन्तरस्य संख्या तु मानुषेण निबोधत एकत्रिंशत्तथा कोट्यः संख्याताः संख्यया द्विजैः
तथा शतसहस्राणि दश चान्यानि भागशः सहस्राणि तु द्वात्रिंशच् छतान्यष्टाधिकानि च
अशीतिश्चैव वर्षाणि मासाश्चैवाधिकास्तु षट् मन्वन्तरस्य संख्यैषा मानुषेण प्रकीर्तिता
दिव्येन च प्रमाणेन प्रवक्ष्याम्यन्तरं मनोः सहस्राणां शतान्याहुः स च वै परिसंख्यया
चत्वारिंशत्सहस्राणि मनोरन्तरमुच्यते मन्वन्तरस्य कालस्तु युगैः सह प्रकीर्तितः
एषा चतुर्युगाख्या तु साधिका ह्येकसप्ततिः क्रमेण परिवृत्ता सा मनोरन्तरमुच्यते
एतच्चतुर्दशगुणं कल्पमाहुस्तु तद्विदः ततस्तु प्रलयः कृत्स्नः स तु संप्रलयो महान्
कल्पप्रमाणो द्विगुणो यथा भवति संख्यया चतुर्युगाख्या व्याख्याता कृतं त्रेतायुगं च वै
त्रेतासृष्टं प्रवक्ष्यामि द्वापरं कलिमेव च युगपत्समवेतौ द्वौ द्विधा वक्तुं न शक्यते
क्रमागतं मयाप्येतत् तुभ्यं नोक्तं युगद्वयम् ऋषिवंशप्रसङ्गेन व्याकुलत्वात्तथा क्रमात्
नोक्तं त्रेतायुगे शेषं तद्वक्ष्यामि निबोधत अथ त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ये श्रौतस्मार्तं ब्रुवन्धर्मं ब्रह्मणा तु प्रचोदिताः
दाराग्निहोत्रसम्बन्धम् ऋग्यजुःसामसंहिताः इत्यादिबहुलं श्रौतं धर्मं सप्तर्षयो ऽब्रुवन्
परम्परागतं धर्मं स्मार्तं त्वाचारलक्षणम् वर्णाश्रमाचारयुतं मनुः स्वायम्भुवो ऽब्रवीत्
सत्येन ब्रह्मचर्येण श्रुतेन तपसा तथा तेषां सुतप्ततपसाम् आर्षेणानुक्रमेण ह
सप्तर्षीणां मनोश्चैव आदौ त्रेतायुगे ततः अबुद्धिपूर्वकं तेन सकृत्पूर्वकमेव च
अभिवृत्तास्तु ते मन्त्रा दर्शनैस्तारकादिभिः आदिकल्पे तु देवानां प्रादुर्भूतास्तु ते स्वयम्
प्रमाणेष्वथ सिद्धानाम् अन्येषां च प्रवर्तते मन्त्रयोगो व्यतीतेषु कल्पेष्वथ सहस्रशः ते मन्त्रा वै पुनस्तेषां प्रतिमायामुपस्थिताः