अच्छोदं नाम च सरः पितृभिर्निर्मितं पुरा अच्छोदा तु तपश्चक्रे दिव्यं वर्षसहस्रकम्
आजग्मुः पितरस्तुष्टाः किल दातुं च तां वरम् दिव्यरूपधराः सर्वे दिव्यमाल्यानुलेपनाः
सर्वे युवानो बलिनः कुसुमायुधसंनिभाः तन्मध्ये ऽमावसुं नाम पितरं वीक्ष्य साङ्गना
वव्रे वरार्थिनी सङ्गं कुसुमायुधपीडिता योगाद्भ्रष्टा तु सा तेन व्यभिचारेण भामिनी
धरां तु नास्पृशत्पूर्वं पपाताथ भुवस्तले तिथाव् अमावसुर् यस्याम् इच्छां चक्रे न तां प्रति
धैर्येण तस्य सा लोकैर् अमावास्येति विश्रुता पितॄणां वल्लभा तस्मात् तस्यामक्षयकारकम्
अच्छोदाधोमुखी दीना लज्जिता तपसः क्षयात् सा पितॄन् प्रार्थयामास पुरे चात्मप्रसिद्धये
विलप्यमाना पितृभिर् इदमुक्ता तपस्विनी भविष्यमर्थमालोक्य देवकार्यं च ते तदा
इदम् ऊचुर् महाभागाः प्रसादशुभया गिरा दिवि दिव्यशरीरेण यत् किंचित् क्रियते बुधैः
तेनैव तत्कर्मफलं भुज्यते वरवर्णिनी सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे
तस्मात्त्वं पुत्रि तपसः प्राप्स्यसे प्रेत्य तत्फलम् अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा
व्यतिक्रमात्पितॄणां त्वं कष्टं कुलमवाप्स्यसि तस्माद्राज्ञो वसोः कन्या त्वम् अवश्यं भविष्यसि
कन्या भूत्वा च लोकान्स्वान् पुनराप्स्यसि दुर्लभान् पराशरस्य वीर्येण पुत्रमेकमवाप्स्यसि
द्वीपे तु बदरीप्राये बादरायणमच्युतम् स वेदमेकं बहुधा विभजिष्यति ते सुतः
पौरवस्यात्मजौ द्वौ तु समुद्रांशस्य शंतनोः विचित्रवीर्यस्तनयस् तथा चित्राङ्गदो नृपः
इमाव् उत्पाद्य तनयौ क्षेत्रजावस्य धीमतः प्रौष्ठपद्यष्टकारूपा पितृलोके भविष्यसि
नाम्ना सत्यवती लोके पितृलोके तथाष्टका आयुरारोग्यदा नित्यं सर्वकामफलप्रदा
भविष्यसि परे काले नदीत्वं च गमिष्यसि पुण्यतोषा सरिच्छ्रेष्ठा लोके ह्य् अच्छोदनामिका
इत्युक्त्वा स गणस्तेषां तत्रैवान्तरधीयत साप्यवाप च तत्सर्वं फलं यदुदितं पुरा
विभ्राजा नाम चान्ये तु दिवि सन्ति सुवर्चसः लोका बर्हिषदो यत्र पितरः सन्ति सुव्रताः
यत्र बर्हिणयुक्तानि विमानानि सहस्रशः संकल्प्या बर्हिषो यत्र तिष्ठन्ति फलदायिनः
यत्राभ्युदयशालासु मोदन्ते श्राद्धदायिनः यांश् च देवासुरगणा गन्धर्वाप्सरसां गणाः
यक्षरक्षोगणाश्चैव यजन्ति दिवि देवताः पुलस्त्यपुत्राः शतशस् तपोयोगसमन्विताः
महात्मानो महाभागा भक्तानामभयप्रदाः एतेषां पीवरी कन्या मानसी दिवि विश्रुता
योगिनी योगमाता च तपश्चक्रे सुदारुणम् प्रसन्नो भगवांस्तस्या वरं वव्रे तु सा हरेः
योगवन्तं सुरूपं च भर्तारं विजितेन्द्रियम् देहि देव प्रसन्नस्त्वं पतिं मे वदतां वरम्
उवाच देवो भविता व्यासपुत्रो यदा शुकः भविता तस्य भार्या त्वं योगाचार्यस्य सुव्रते
भविष्यति च ते कन्या कृत्वी नाम च योगिनी पाञ्चालाधिपतेर्देया मानुषस्य त्वया तदा
जननी ब्रह्मदत्तस्य योगसिद्धा च गौः स्मृता कृष्णो गौरः प्रभुः शम्भुर् भविष्यन्ति च ते सुताः
महात्मानो महाभागा गमिष्यन्ति परं पदम् तानुत्पाद्य पुनर् योगात् सवरा मोक्षमेष्यसि