इत्येष सोमसूर्याभ्याम् ऐलस्य च समागमः अवाप्तिं श्रद्धया चैव पितॄणां चैव तर्पणम्
पर्वणां चैव यः कालो यातनास्थानमेव च समासात्कीर्तितस्तुभ्यं सर्ग एष सनातनः
वैरूप्यं येन तत्सर्वं कथितं त्वेकदेशिकम् अशक्यं परिसंख्यातुं श्रद्धेयं भूतिमिच्छता
स्वायम्भुवस्य देवस्य एष सर्गो मयेरितः विस्तरेणानुपूर्व्याच्च भूयः किं कथयामि वः
चतुर्युगाणि यानि स्युः पूर्वे स्वायम्भुवे ऽन्तरे एषां निसर्गसंख्यां च श्रोतुमिच्छाम विस्तरात्
पृथिवीद्युप्रसङ्गेन मया तु प्रागुदाहृतम् एतच्चतुर्युगं त्वेवं तद्वक्ष्यामि निबोधत तत्प्रमाणं प्रसंख्याय विस्तराच्चैव कृत्स्नशः
लौकिकेन प्रमाणेन निष्पाद्याब्दं तु मानुषम् तेनापीह प्रसंख्याय वक्ष्यामि तु चतुर्युगम् निमेषतुल्यकालानि मात्रालब्धेक्षराणि च
काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठां गणयेत्कलां तु त्रिंशत्कलाश्चैव भवेन्मुहूर्तस् तैस्त्रिंशता रात्र्यहनी समेते
अहोरात्रे विभजते सूर्यो मानुषलौकिके रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः
पित्र्ये रात्र्यहनी मासः प्रविभागस् तयोः पुनः कृष्णपक्षस् त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी
त्रिंशद्ये मानुषा मासाः पित्र्यो मासः स उच्यते शतानि त्रीणि मासानां षष्ट्या चाभ्यधिकानि तु पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते
मानुषेणैव मानेन वर्षाणां यच्छतं भवेत् पितॄणां तानि वर्षाणि संख्यातानि तु त्रीणि वै दश च द्व्यधिका मासाः पितृसंख्येह कीर्तिता
लौकिकेन प्रमाणेन अब्दो यो मानुषः स्मृतः एतद्दिव्यमहोरात्रम् इत्येषा वैदिकी श्रुतिः
दिव्ये रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः अहस्तु यदुदक्चैव रात्रिर्या दक्षिणायनम् एते रात्र्यहनी दिव्ये प्रसंख्याते तयोः पुनः
त्रिंशद्यानि तु वर्षाणि दिव्यो मासस्तु स स्मृतः मानुषाणां शतं यच्च दिव्या मासास्त्रयस्तु वै तथैव सह संख्यातो दिव्य एष विधिः स्मृतः
त्रीणि वर्षशतान्येवं षष्टिर्वर्षास्तथैव च दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्तितः
त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः त्रिंशदन्यानि वर्षाणि स्मृतः सप्तर्षिवत्सरः
नव यानि सहस्राणि वर्षाणां मानुषाणि च वर्षाणि नवतिश्चैव ध्रुवसंवत्सरः स्मृतः
षट्त्रिंशत्तु सहस्राणि वर्षाणां मानुषाणि च षष्टिश्चैव सहस्राणि संख्यातानि तु संख्यया दिव्यं वर्षसहस्रं तु प्राहुः संख्याविदो जनाः
इत्येतदृषिभिर्गीतं दिव्यया संख्यया द्विजाः दिव्येनैव प्रमाणेन युगसंख्या प्रकल्पिता
चत्वारि भारते वर्षे युगानि ऋषयो ऽब्रुवन् कृतं त्रेता द्वापरं च कलिश्चैवं चतुर्युगम्
पूर्वं कृतयुगं नाम ततस्त्रेताभिधीयते द्वापरं च कलिश्चैव युगानि परिकल्पयेत्
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् तस्य ताव् अच्छती संध्या संध्यांशश्च तथाविधः
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु एकपादे निवर्तन्ते सहस्राणि शतानि च
त्रेता त्रीणि सहस्राणि युगसंख्याविदो विदुः तस्यापि त्रिशती संध्या संध्यांशः संध्यया समः
द्वे सहस्रे द्वापरं तु संध्यांशौ तु चतुःशतम् सहस्रमेकं वर्षाणां कलिरेव प्रकीर्तितः द्वे शते च तथान्ये च संध्यासंध्यांशयोः स्मृते
एषा द्वादशसाहस्री युगसंख्या तु संज्ञिता कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम्
तत्र संवत्सराः सृष्टा मानुषास्तान्निबोधत नियुतानि दश द्वे च पञ्च चैवात्र संख्यया अष्टाविंशत्सहस्राणि कृतं युगमथोच्यते
प्रयुतं तु तथा पूर्णं द्वे चान्ये नियुते पुनः षण्णवतिसहस्राणि संख्यातानि च संख्यया त्रेतायुगस्य संख्यैषा मानुषेण तु संज्ञिता
अष्टौ शतसहस्राणि वर्षाणां मानुषाणि तु चतुःषष्टिसहस्राणि वर्षाणां द्वापरं युगम्