इत्येष पर्वसंधीनां कालो वै द्विलवः स्मृतः पर्वणां तुल्यकालस्तु तुल्याहुतिवषट्क्रियाः
चन्द्रभूर्यव्यतीपाते समे वै पूर्णिमे उभे प्रतिपत्प्रतिपन्नस्तु पर्वकालो द्विमात्रकः
कालः कुहूसिनीवाल्योः समुद्धो द्विलवः स्मृतः अर्कनिर्मण्डले सोमे पर्वकालः कलाः स्मृताः
यस्माद् आपूर्यते सोमः पञ्चदश्यां तु पूर्णिमा दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात्
तस्मात्पञ्चदशे सोमे कला वै नास्ति षोडशी तस्मात्सोमस्य विप्रोक्तः पञ्चदश्यां मया क्षयः
इत्येते पितरो देवाः सोमपाः सोमवर्धनाः आर्तवा ऋतवो ऽथाब्दा देवास्तान्भावयन्ति हि
अतः परं प्रवक्ष्यामि पितॄञ्छ्राद्धभुजस्तु ये तेषां गतिं च सत्तत्वं प्राप्तिं श्राद्धस्य चैव हि
न मृतानां गतिः शक्या ज्ञातुं वा पुनरागतिः तपसा हि प्रसिद्धेन किं पुनर्मांसचक्षुषा
अत्र देवान्पितॄंश्चैते पितरो लौकिकाः स्मृताः तेषां ते धर्मसामर्थ्यात् स्मृताः सायुज्यगा द्विजैः
यदि वाश्रमधर्मेण प्रज्ञानेषु व्यवस्थितान् अन्ये चात्र प्रसीदन्ति श्रद्धायुक्तेषु कर्मसु
ब्रह्मचर्येण तपसा यज्ञेन प्रजया भुवि श्राद्धेन विद्यया चैव चान्नदानेन सप्तधा
कर्मस्वेतेषु ये सक्ता वर्तन्त्य् आ देहपातनात् देवैस्ते पितृभिः सार्धम् ऊष्मपैः सोमपैस्तथा स्वर्गता दिवि मोदन्ते पितृमन्त उपासते
प्रजावतां प्रसिद्धैषा उक्ता श्राद्धकृतां च वै तेषां निवापे दत्तं हि तत्कुलीनैस्तु बान्धवैः
मासश्राद्धं हि भुञ्जानास् तेऽत्येते सोमलौकिकाः एते मनुष्याः पितरो मासश्राद्धभुजस्तु वै
तेभ्यो ऽपरे तु ये त्वन्ये संकीर्णाः कर्मयोनिषु भ्रष्टाश्चाश्रमधर्मेषु स्वधास्वाहाविवर्जिताः
भिन्ने देहे दुरापन्नाः प्रेतभूता यमक्षये स्वकर्माण्यनुशोचन्तो यातनास्थानमागताः
दीर्घाश्चैवातिशुष्काश्च श्मश्रुलाश्च विवाससः क्षुत्पिपासाभिभूतास्ते विद्रवन्ति त्वितस्ततः
सरित्सरस्तडागानि पुष्करिण्यश्च सर्वशः परान्नान्यभिकाङ्क्षन्तः काल्यमाना इतस्ततः
स्थानेषु पात्यमाना ये यातनास्थेषु तेषु वै शाल्मल्यां वैतरण्यां च कुम्भीपाकेद्धवालुके
असिपत्त्रवने चैव पात्यमानाः स्वकर्मभिः तत्रस्थानां तु तेषां वै दुःखितानाम् अशायिनाम्
तेषां लोकान्तरस्थानां बान्धवैर्नामगोत्रतः भूमावसव्यं दर्भेषु दत्ताः पिण्डास्त्रयस्तु वै प्राप्तांस्तु तर्पयन्त्येव प्रेतस्थानेष्वधिष्ठितान्
अप्राप्ता यातनास्थानं प्रभ्रष्टा ये च पञ्चधा पश्चाद्ये स्थावरान्ते वै भूतानीके स्वकर्मभिः
नानारूपासु जातीनां तिर्यग्योनिषु मूर्तिषु यदाहारा भवन्त्येते तासु तास्विह योनिषु
तस्मिंस् तस्मिंस् तदाहारे श्राद्धं दत्तं तु प्रीणयेत् काले न्यायागतं पात्रे विधिना प्रतिपादितम् प्राप्नुवन्त्यन्नमादत्तं यत्र यत्रावतिष्ठते
यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम् तथा श्राद्धेषु दृष्टान्तो मन्त्रः प्रापयते तु तम्
एवं ह्यविकलं श्राद्धं श्रद्धादत्तं मनुर्ब्रवीत् सनत्कुमारः प्रोवाच पश्यन्दिव्येन चक्षुषा
गतागतज्ञः प्रेतानां प्राप्तिं श्राद्धस्य चैव हि कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी
इत्येते पितरो देवा देवाश्च पितरश्च वै अन्योन्यपितरो ह्येते देवाश्च पितरो दिवि
एते तु पितरो देवा मनुष्याः पितरश्च ये पिता पितामहश्चैव तथैव प्रपितामहः
इत्येष विषयः प्रोक्तः पितॄणां सोमपायिनाम् एतत्पितृमहत्त्वं हि पुराणे निश्चयं गतम्