अमा वसेतामृक्षे तु यदा चन्द्रदिवाकरौ एका पञ्चदशी रात्रिर् अमावास्या ततः स्मृता
उद्दिश्य ताममावास्यां यदा दर्शं समागतौ अन्योन्यं चन्द्रसूर्यौ तु दर्शनाद्दर्श उच्यते
द्वौ द्वौ लवावमावास्यां स कालः पर्वसंधिषु द्व्यक्षरः कुहूमात्रश्च पर्वकालस्तु स स्मृतः
दृष्टचन्द्रा त्वमावास्या मध्याह्नप्रभृतीह वै दिवा तदूर्ध्वं रात्र्यां तु सूर्ये प्राप्ते तु चन्द्रमाः सूर्येण सहसोद्गच्छेत् ततः प्रातस्तनात्तु वै
समागम्य लवौ द्वौ तु मध्याह्नान्निपतन्रविः प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्यमण्डलात्
निर्मुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै स तदान्वाहुतेः कालो दर्शस्य च वषट्क्रियाः एतदृतुमुखं ज्ञेयम् अमावास्यां तु पार्वणम्
दिवा पर्व त्वमावास्यां क्षीणेन्दौ धवले तु वै तस्माद्दिवा त्वमावास्यां गृह्यते यो दिवाकरः
कुहेति कोकिलेनोक्तं यस्मात्कालात्समाप्यते तत्कालसंज्ञिता ह्येषा अमावास्या कुहूः स्मृता
सिनीवालीप्रमाणं तु क्षीणशेषो निशाकरः अमावास्या विशत्यर्कं सिनीवाली तदा स्मृता
अनुमतिश्च राका च सिनीवाली कुहूस्तथा एतासां द्विलवः कालः कुहूमात्रा कुहूः स्मृता
इत्येष पर्वसंधीनां कालो वै द्विलवः स्मृतः पर्वणां तुल्यकालस्तु तुल्याहुतिवषट्क्रियाः
चन्द्रभूर्यव्यतीपाते समे वै पूर्णिमे उभे प्रतिपत्प्रतिपन्नस्तु पर्वकालो द्विमात्रकः
कालः कुहूसिनीवाल्योः समुद्धो द्विलवः स्मृतः अर्कनिर्मण्डले सोमे पर्वकालः कलाः स्मृताः
यस्माद् आपूर्यते सोमः पञ्चदश्यां तु पूर्णिमा दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात्
तस्मात्पञ्चदशे सोमे कला वै नास्ति षोडशी तस्मात्सोमस्य विप्रोक्तः पञ्चदश्यां मया क्षयः
इत्येते पितरो देवाः सोमपाः सोमवर्धनाः आर्तवा ऋतवो ऽथाब्दा देवास्तान्भावयन्ति हि
अतः परं प्रवक्ष्यामि पितॄञ्छ्राद्धभुजस्तु ये तेषां गतिं च सत्तत्वं प्राप्तिं श्राद्धस्य चैव हि
न मृतानां गतिः शक्या ज्ञातुं वा पुनरागतिः तपसा हि प्रसिद्धेन किं पुनर्मांसचक्षुषा
अत्र देवान्पितॄंश्चैते पितरो लौकिकाः स्मृताः तेषां ते धर्मसामर्थ्यात् स्मृताः सायुज्यगा द्विजैः
यदि वाश्रमधर्मेण प्रज्ञानेषु व्यवस्थितान् अन्ये चात्र प्रसीदन्ति श्रद्धायुक्तेषु कर्मसु
ब्रह्मचर्येण तपसा यज्ञेन प्रजया भुवि श्राद्धेन विद्यया चैव चान्नदानेन सप्तधा
कर्मस्वेतेषु ये सक्ता वर्तन्त्य् आ देहपातनात् देवैस्ते पितृभिः सार्धम् ऊष्मपैः सोमपैस्तथा स्वर्गता दिवि मोदन्ते पितृमन्त उपासते
प्रजावतां प्रसिद्धैषा उक्ता श्राद्धकृतां च वै तेषां निवापे दत्तं हि तत्कुलीनैस्तु बान्धवैः
मासश्राद्धं हि भुञ्जानास् तेऽत्येते सोमलौकिकाः एते मनुष्याः पितरो मासश्राद्धभुजस्तु वै
तेभ्यो ऽपरे तु ये त्वन्ये संकीर्णाः कर्मयोनिषु भ्रष्टाश्चाश्रमधर्मेषु स्वधास्वाहाविवर्जिताः
भिन्ने देहे दुरापन्नाः प्रेतभूता यमक्षये स्वकर्माण्यनुशोचन्तो यातनास्थानमागताः
दीर्घाश्चैवातिशुष्काश्च श्मश्रुलाश्च विवाससः क्षुत्पिपासाभिभूतास्ते विद्रवन्ति त्वितस्ततः
सरित्सरस्तडागानि पुष्करिण्यश्च सर्वशः परान्नान्यभिकाङ्क्षन्तः काल्यमाना इतस्ततः
स्थानेषु पात्यमाना ये यातनास्थेषु तेषु वै शाल्मल्यां वैतरण्यां च कुम्भीपाकेद्धवालुके
असिपत्त्रवने चैव पात्यमानाः स्वकर्मभिः तत्रस्थानां तु तेषां वै दुःखितानाम् अशायिनाम्