ततः पीतसुधं सोमं सूर्यो ऽसावेकरश्मिना आप्यायते सुषुम्नेन सोमं तु सोमपायिनम्
निःशेषा वै कलाः पूर्वा युगपद् व्यापयन् पुरा सुषुम्नाप्यायमानस्य भागं भागमहःक्रमात्
कलाः क्षीयन्ति कृष्णास्ताः शुक्ला ह्याप्याययन्ति च एवं सा सूर्यवीर्येण चन्द्रस्याप्यायिता तनुः
पौर्णमास्यां स दृश्येत शुक्लः सम्पूर्णमण्डलः एवमाप्यायितः सोमः शुक्लपक्षे ऽप्यहःक्रमात् देवैः पीतसुधं सोमं पुरा पश्चात्पिबेद्रविः
पीतं पञ्चदशाहं तु रश्मिनैकेन भास्करः आप्याययत्सुषुम्नेन भागं भागमहःक्रमात्
सुषुम्नाप्यायमानस्य शुक्ला वर्धन्ति वै कलाः तस्माद्ध्रसन्ति वै कृष्णाः शुक्ला ह्याप्याययन्ति च
एवमाप्यायते सोमः क्षयिते च पुनः पुनः समृद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः
इत्येष पितृमान्सोमः स्मृतस्तद्वसुधात्मकः कान्तः पञ्चदशैः सार्धं सुधाभृतपरिस्रवैः
अतः परं प्रवक्ष्यामि पर्वणां संधयश्च याः यथा ग्रथ्नन्ति पर्वाणि आवृत्तादिक्षुवेणुवत्
तथाब्दमासाः पक्षाश्च शुक्लाः कृष्णास्तु वै स्मृताः पौर्णमास्यास्तु यो भेदो ग्रन्थयः संधयस्तथा
अर्धमासस्य पर्वाणि द्वितीयाप्रभृतीनि च अग्न्याधानक्रिया यस्मान् नीयन्ते पर्वसंधिषु
तस्मात्तु पर्वणो ह्यादौ प्रतिपद्यादिसंधिषु सायाह्ने अनुमत्याश्च द्वौ लवौ काल उच्यते लवौ द्वावेव राकायाः कालो ज्ञेयो ऽपराह्णिकः
प्रकृतिः कृष्णपक्षस्य काले ऽतीते ऽपराह्णिके सायाह्ने प्रतिपद्येष स कालः पौर्णमासिकः
व्यतीपाते स्थिते सूर्ये लेखादूर्ध्वं युगान्तरम् युगान्तरोदिते चैव चन्द्रे लेखोपरि स्थिते
पूर्णमासव्यतीपातौ यदा पश्येत्परस्परम् तौ तु वै प्रतिपद्यावत् तस्मिन्काले व्यवस्थितौ
तत्कालं सूर्यमुद्दिश्य दृष्ट्वा संख्यातुमर्हसि स चैव सत्क्रियाकालः षष्ठः कालो ऽभिधीयते
पूर्णेन्दुः पूर्णपक्षे तु रात्रिसंधिषु पूर्णिमा तस्मादाप्यायते नक्तं पौर्णमास्यां निशाकरः
यदान्योन्यवतीं पाते पूर्णिमां प्रेक्षते दिवा चन्द्रादित्यो ऽपराह्णे तु पूर्णत्वात्पूर्णिमा स्मृता
यस्मात्तामनुमन्यन्ते पितरो दैवतैः सह तस्मादनुमतिर्नाम पूर्णत्वात्पूर्णिमा स्मृता
अत्यर्थं राजते यस्मात् पौर्णमास्यां निशाकरः रञ्जनाच्चैव चन्द्रस्य राकेति कवयो विदुः
अमा वसेतामृक्षे तु यदा चन्द्रदिवाकरौ एका पञ्चदशी रात्रिर् अमावास्या ततः स्मृता
उद्दिश्य ताममावास्यां यदा दर्शं समागतौ अन्योन्यं चन्द्रसूर्यौ तु दर्शनाद्दर्श उच्यते
द्वौ द्वौ लवावमावास्यां स कालः पर्वसंधिषु द्व्यक्षरः कुहूमात्रश्च पर्वकालस्तु स स्मृतः
दृष्टचन्द्रा त्वमावास्या मध्याह्नप्रभृतीह वै दिवा तदूर्ध्वं रात्र्यां तु सूर्ये प्राप्ते तु चन्द्रमाः सूर्येण सहसोद्गच्छेत् ततः प्रातस्तनात्तु वै
समागम्य लवौ द्वौ तु मध्याह्नान्निपतन्रविः प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्यमण्डलात्
निर्मुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै स तदान्वाहुतेः कालो दर्शस्य च वषट्क्रियाः एतदृतुमुखं ज्ञेयम् अमावास्यां तु पार्वणम्
दिवा पर्व त्वमावास्यां क्षीणेन्दौ धवले तु वै तस्माद्दिवा त्वमावास्यां गृह्यते यो दिवाकरः
कुहेति कोकिलेनोक्तं यस्मात्कालात्समाप्यते तत्कालसंज्ञिता ह्येषा अमावास्या कुहूः स्मृता
सिनीवालीप्रमाणं तु क्षीणशेषो निशाकरः अमावास्या विशत्यर्कं सिनीवाली तदा स्मृता
अनुमतिश्च राका च सिनीवाली कुहूस्तथा एतासां द्विलवः कालः कुहूमात्रा कुहूः स्मृता