सद्यो ऽभिक्षरता तेन सौम्येन मधुना च सः निवापेष्वथ दत्तेषु पित्र्येण विधिना तु वै
स्वधामृतेन सौम्येन तर्पयामास वै पितॄन् सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च
ऋतुरग्निः स्मृतो विप्रैर् ऋतुं संवत्सरं विदुः जज्ञिरे ऋतवस्तस्माद् ऋतुभ्यो ह्यार्तवा अभवन्
पितर ऋतवो ऽर्धमासा विज्ञेया ऋतुसूनवः पितामहास्तु ऋतवो ह्य् अमावास्याब्दसूनवः प्रपितामहाः स्मृता देवाः पञ्चाब्दा ब्रह्मणः सुताः
सौम्या बर्हिषदः काव्या अग्निष्वात्ता इति त्रिधा गृहस्था ये तु यज्वानो हविर्यज्ञार्तवाश्च ये स्मृता बर्हिषदस्ते वै पुराणे निश्चयं गताः
गृहमेधिनश्च यज्वानो ह्य् अग्निष्वात्तार्तवाः स्मृताः अष्टकापतयः काव्याः पञ्चाब्दांस्तु निबोधत
तेषु संवत्सरो ह्यग्निः सूर्यस्तु परिवत्सरः सोमस् त्विड्वत्सरश् चैव वायुश्चैवानुवत्सरः
रुद्रस्तु वत्सरस्तेषां पञ्चाब्दा ये युगात्मकाः कालेनाधिष्ठितस्तेषु चन्द्रमाः स्रवते सुधाम्
एते स्मृता देवकृत्याः सोमपाश्चोष्मपाश्च ये तांस्तेन तर्पयामास यावदासीत्पुरूरवाः
यस्मात्प्रसूयते सोमो मासि मासि विशेषतः ततः स्वधाभृतं तद्वै पितॄणां सोमपायिनाम् एतत्तदमृतं सोमम् अवाप मधु चैव हि
ततः पीतसुधं सोमं सूर्यो ऽसावेकरश्मिना आप्यायते सुषुम्नेन सोमं तु सोमपायिनम्
निःशेषा वै कलाः पूर्वा युगपद् व्यापयन् पुरा सुषुम्नाप्यायमानस्य भागं भागमहःक्रमात्
कलाः क्षीयन्ति कृष्णास्ताः शुक्ला ह्याप्याययन्ति च एवं सा सूर्यवीर्येण चन्द्रस्याप्यायिता तनुः
पौर्णमास्यां स दृश्येत शुक्लः सम्पूर्णमण्डलः एवमाप्यायितः सोमः शुक्लपक्षे ऽप्यहःक्रमात् देवैः पीतसुधं सोमं पुरा पश्चात्पिबेद्रविः
पीतं पञ्चदशाहं तु रश्मिनैकेन भास्करः आप्याययत्सुषुम्नेन भागं भागमहःक्रमात्
सुषुम्नाप्यायमानस्य शुक्ला वर्धन्ति वै कलाः तस्माद्ध्रसन्ति वै कृष्णाः शुक्ला ह्याप्याययन्ति च
एवमाप्यायते सोमः क्षयिते च पुनः पुनः समृद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः
इत्येष पितृमान्सोमः स्मृतस्तद्वसुधात्मकः कान्तः पञ्चदशैः सार्धं सुधाभृतपरिस्रवैः
अतः परं प्रवक्ष्यामि पर्वणां संधयश्च याः यथा ग्रथ्नन्ति पर्वाणि आवृत्तादिक्षुवेणुवत्
तथाब्दमासाः पक्षाश्च शुक्लाः कृष्णास्तु वै स्मृताः पौर्णमास्यास्तु यो भेदो ग्रन्थयः संधयस्तथा
अर्धमासस्य पर्वाणि द्वितीयाप्रभृतीनि च अग्न्याधानक्रिया यस्मान् नीयन्ते पर्वसंधिषु
तस्मात्तु पर्वणो ह्यादौ प्रतिपद्यादिसंधिषु सायाह्ने अनुमत्याश्च द्वौ लवौ काल उच्यते लवौ द्वावेव राकायाः कालो ज्ञेयो ऽपराह्णिकः
प्रकृतिः कृष्णपक्षस्य काले ऽतीते ऽपराह्णिके सायाह्ने प्रतिपद्येष स कालः पौर्णमासिकः
व्यतीपाते स्थिते सूर्ये लेखादूर्ध्वं युगान्तरम् युगान्तरोदिते चैव चन्द्रे लेखोपरि स्थिते
पूर्णमासव्यतीपातौ यदा पश्येत्परस्परम् तौ तु वै प्रतिपद्यावत् तस्मिन्काले व्यवस्थितौ
तत्कालं सूर्यमुद्दिश्य दृष्ट्वा संख्यातुमर्हसि स चैव सत्क्रियाकालः षष्ठः कालो ऽभिधीयते
पूर्णेन्दुः पूर्णपक्षे तु रात्रिसंधिषु पूर्णिमा तस्मादाप्यायते नक्तं पौर्णमास्यां निशाकरः
यदान्योन्यवतीं पाते पूर्णिमां प्रेक्षते दिवा चन्द्रादित्यो ऽपराह्णे तु पूर्णत्वात्पूर्णिमा स्मृता
यस्मात्तामनुमन्यन्ते पितरो दैवतैः सह तस्मादनुमतिर्नाम पूर्णत्वात्पूर्णिमा स्मृता
अत्यर्थं राजते यस्मात् पौर्णमास्यां निशाकरः रञ्जनाच्चैव चन्द्रस्य राकेति कवयो विदुः