शराग्निपातात् समभिद्रुतानां तत्राङ्गनानाम् अतिकोमलानाम् बभूव काञ्चीगुणनूपुराणाम् आक्रन्दितानां च रवो ऽतिमिश्रः
दग्धार्धचन्द्राणि सवेदिकानि विशीर्णहर्म्याणि सतोरणानि दग्धानि दग्धानि गृहाणि तत्र पतन्ति रक्षार्थमिवार्णवौघे
गृहैः पतद्भिर्ज्वलनावलीढैर् आसीत्समुद्रे सलिलं प्रतप्तम् कुपुत्रदोषैः प्रहतानुविद्धं यथा कुलं याति धनान्वितस्य
गृहप्रतापैः क्वथितं समन्तात् तदार्णवे तोयमुदीर्णवेगम् वित्रासयामास तिमीन्सनक्रांस् तिमिङ्गिलांस्तत्क्वथितांस्तथान्यान्
सगोपुरो मन्दरपादकल्पः प्राकारवर्यस्त्रिपुरे च सो ऽथ तैरेव सार्धं भवनैः पपात शब्दं महान्तं जनयन्समुद्रे
सहस्रशृङ्गैर् भवनैर् यदासीत् सहस्रशृङ्गः स इवाचलेशः नामावशेषं त्रिपुरं प्रजज्ञे हुताशनाहारबलिप्रयुक्तम्
प्रदह्यमानेन पुरेण तेन जगत् सपातालदिवं प्रतप्तम् दुःखं महत्प्राप्य जलावमग्नं यस्मिन्महान्सौधवरो मयस्य
तद्देवेशो वचः श्रुत्वा इन्द्रो वज्रधरस्तदा शशाप तद्गृहं चापि मयस्यादितिनन्दनः
असेव्यमप्रतिष्ठं च भयेन च समावृतम् भविष्यति मयगृहं नित्यमेव यथानलः
यस्य यस्य तु देशस्य भविष्यति पराभवः द्रक्ष्यन्ति त्रिपुरं खण्डं तत्रेदं नाशगा जनाः तदेतदद्यापि गृहं मयस्यामयवर्जितम्
भगवन्स मयो येन गृहेण प्रपलायितः तस्य नो गतिमाख्याहि मयस्य चमसोद्भव
दृश्यते दृश्यते यत्र ध्रुवस्तत्र मयास्पदम् देवद्विट् तु मयश्चातः स तदा खिन्नमानसः ततश्च्युतो ऽन्यलोके ऽस्मिंस् त्राणार्थं वै चकार सः
तत्रापि देवताः सन्ति आप्तोर्यामाः सुरोत्तमाः तत्राशक्तं ततो गन्तुं तं चैकं पुरमुत्तमम्
शिवः सृष्ट्वा गृहं प्रादान् मयायैव गृहार्थिने विरराम सहस्राक्षः पूजयामास चेश्वरम् पूज्यमानं च भूतेशं सर्वे तुष्टुवुरीश्वरम्
सम्पूज्यमानं त्रिदशैः समीक्ष्य गणैर्गणेशाधिपतिं तु मुख्यम् हर्षाद् ववल्गुर् जहसुश्च देवा जग्मुर्ननर्दुस्तु विषक्तहस्ताः
पितामहं वन्द्य ततो महेशं प्रगृह्य चापं प्रविमृज्य भूतान् रथाच्च संपत्य हरेषुदग्धं क्षिप्तं पुरं तन्मकरालये च
य इमं रुद्रविजयं पठते विजयावहम् विजयं तस्य कृत्येषु ददाति वृषभध्वजः
पितॄणां वापि श्राद्धेषु य इमं श्रावयिष्यति अनन्तं तस्य पुण्यं स्यात् सर्वयज्ञफलप्रदम्
इदं स्वस्त्ययनं पुण्यम् इदं पुंसवनं महत् इदं श्रुत्वा पठित्वा च यान्ति रुद्रसलोकताम्
कथं गच्छत्यमावास्यां मासि मासि दिवं नृपः ऐलः पुरूरवाः सूत तर्पयेत कथं पितॄन् एतदिच्छामहे श्रोतुं प्रभावं तस्य धीमतः
एतदेव तु पप्रच्छ मनुः स मधुसूदनम् सूर्यपुत्राय चोवाच यथा तन्मे निबोधत
तस्य चाहं प्रवक्ष्यामि प्रभावं विस्तरेण तु ऐलस्य दिवि संयोगं सोमेन सह धीमता
सोमाच्चैवामृतप्राप्तिः पितॄणां तर्पणं तथा सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च
यदा चन्द्रश्च सूर्यश्च नक्षत्राणां समागतौ अमावास्यां निवसत एकस्मिन्नथ मण्डले
तदा स गच्छति द्रष्टुं दिवाकरनिशाकरौ अमावास्याममावास्यां मातामहपितामहौ
अभिवाद्य तु तौ तत्र कालापेक्षः स तिष्ठति प्रचस्कन्द ततः सोमम् अर्चयित्वा परिश्रमात्
ऐलः पुरूरवा विद्वान् मासि श्राद्धचिकीर्षया ततः स दिवि सोमं वै ह्य् उपतस्थे पितॄनपि
द्विलवं कुहूमात्रं च तावुभौ तु निधाय सः सिनीवालीप्रमाणाल्पकुहूमात्रव्रतोदये
कुहूमात्रं पित्रुद्देशं ज्ञात्वा कुहूमुपासाते तमुपास्य ततः सोमं कलापेक्षी प्रतीक्षते
स्वधामृतं तु सोमाद्वै वसंस्तेषां च तृप्तये दशभिः पञ्चभिश्चैव स्वधामृतपरिस्रवैः कृष्णपक्षभुजां प्रीतिर् द्रुह्यते परमांशुभिः