ततः शशाङ्कतिलकः कपर्दी परमार्तवत् उवाच नन्दिनं भक्तः स मयो ऽद्य विनङ्क्ष्यति
अथ नन्दीश्वरस्तूर्णं मनोमारुतवद्बली शरे त्रिपुरमायाति त्रिपुरं प्रविवेश सः
स मयं प्रेक्ष्य गणपः प्राह काञ्चनसंनिभः विनाशस्त्रिपुरस्यास्य प्राप्तो मय सुदारुणः अनेनैव गृहेण त्वम् अपक्राम ब्रवीम्यहम्
श्रुत्वा तन्नन्दिवचनं दृढभक्तो महेश्वरे तेनैव गृहमुख्येण त्रिपुराद् अपसर्पितः
सो ऽपीषुः पत्त्रपुटवद् दग्ध्वा तन्नगरत्रयम् त्रिधा इव हुताशश्च सोमो नारायणस्तथा
शरतेजःपरीतानि पुराणि द्विजपुंगवाः दुष्पुत्रदोषाद्दह्यन्ते कुलान्यूर्ध्वं यथा तथा
मेरुकैलासकल्पानि मन्दराग्रनिभानि च सकपाटगवाक्षाणि बलिभिः शोभितानि च
सप्रासादानि रम्याणि कूटागारोत्कटानि च सजलानि समाख्यानि सावलोकनकानि च
बद्धध्वजपताकानि स्वर्णरौप्यमयानि च गृहाणि तस्मिंस्त्रिपुरे दानवानामुपद्रवे दह्यन्ते दहनाभानि दहनेन सहस्रशः
प्रासादाग्रेषु रम्येषु वनेषूपवनेषु च वातायनगताश्चान्याश् चाकाशस्य तलेषु च
रमणैरुपगूढाश्च रमन्त्यो रमणैः सह दह्यन्ते दानवेन्द्राणाम् अग्निना ह्यपि ताः स्त्रियः
काचित्प्रियं परित्यज्य अशक्ता गन्तुमन्यतः पुरः प्रियस्य पञ्चत्वं गताग्निवदने क्षयम्
उवाच शतपत्त्राक्षी सास्राक्षीव कृताञ्जलिः हव्यवाहन भार्याहं परस्य परतापन धर्मसाक्षी त्रिलोकस्य न मां स्प्रष्टुमिहार्हसि
शायितं च मया देव शिवया च शिवप्रभ परेण प्रैहि मुक्त्वेदं गृहं च दयितं हि मे
एका पुत्रमुपादाय बालकं दानवाङ्गना हुताशनसमीपस्था इत्युवाच हुताशनम्
बालो ऽयं दुःखलब्धश्च मया पावक पुत्रकः नार्हस्येनमुपादातुं दयितं षण्मुखप्रिय
काश्चित्प्रियान्परित्यज्य पीडिता दानवाङ्गनाः निपतन्त्यर्णवजले सिञ्जमानविभूषणाः
तात पुत्रेति मातेति मातुलेति च विह्वलम् चक्रन्दुस्त्रिपुरे नार्यः पावकज्वालवेपिताः
यथा दहति शैलाग्निः साम्बुजं जलजाकरम् तथा स्त्रीवक्त्रपद्मानि चादहत्त्रिपुरे ऽनलः
तुषारराशिः कमलाकराणां यथा दहत्यम्बुजकानि शीते तथैव सो ऽग्निस्त्रिपुराङ्गनानां ददाह वक्त्रेक्षणपङ्कजानि
शराग्निपातात् समभिद्रुतानां तत्राङ्गनानाम् अतिकोमलानाम् बभूव काञ्चीगुणनूपुराणाम् आक्रन्दितानां च रवो ऽतिमिश्रः
दग्धार्धचन्द्राणि सवेदिकानि विशीर्णहर्म्याणि सतोरणानि दग्धानि दग्धानि गृहाणि तत्र पतन्ति रक्षार्थमिवार्णवौघे
गृहैः पतद्भिर्ज्वलनावलीढैर् आसीत्समुद्रे सलिलं प्रतप्तम् कुपुत्रदोषैः प्रहतानुविद्धं यथा कुलं याति धनान्वितस्य
गृहप्रतापैः क्वथितं समन्तात् तदार्णवे तोयमुदीर्णवेगम् वित्रासयामास तिमीन्सनक्रांस् तिमिङ्गिलांस्तत्क्वथितांस्तथान्यान्
सगोपुरो मन्दरपादकल्पः प्राकारवर्यस्त्रिपुरे च सो ऽथ तैरेव सार्धं भवनैः पपात शब्दं महान्तं जनयन्समुद्रे
सहस्रशृङ्गैर् भवनैर् यदासीत् सहस्रशृङ्गः स इवाचलेशः नामावशेषं त्रिपुरं प्रजज्ञे हुताशनाहारबलिप्रयुक्तम्
प्रदह्यमानेन पुरेण तेन जगत् सपातालदिवं प्रतप्तम् दुःखं महत्प्राप्य जलावमग्नं यस्मिन्महान्सौधवरो मयस्य
तद्देवेशो वचः श्रुत्वा इन्द्रो वज्रधरस्तदा शशाप तद्गृहं चापि मयस्यादितिनन्दनः
असेव्यमप्रतिष्ठं च भयेन च समावृतम् भविष्यति मयगृहं नित्यमेव यथानलः
यस्य यस्य तु देशस्य भविष्यति पराभवः द्रक्ष्यन्ति त्रिपुरं खण्डं तत्रेदं नाशगा जनाः तदेतदद्यापि गृहं मयस्यामयवर्जितम्