वायुनुन्नः स च तरुः शीर्णपुष्पो महारवः विद्युन्मालिशरैश्छिन्नः पपात पतगेशवत्
वृक्षमालोक्य तं छिन्नं दानवेन वरेषुभिः रोषमाहारयत्तीव्रं नन्दीश्वरः सुविग्रहः
सोद्यम्य करमारावे रविशक्रकरप्रभम् दुद्राव हन्तुं स क्रूरं महिषं गजराडिव
तमापतन्तं वेगेन वेगवान्प्रसभं बलात् विद्युन्माली शरशतैः पूरयामास नन्दिनम्
शरकण्टकिताङ्गो वै शैलादिः सो ऽभवत्पुनः अरेर्गृह्य रथं तस्य महतः प्रययौ जवात्
विलम्बिताश्वो विशिरो भ्रमितश्च रणे रथः पपात मुनिशापेन सादित्यो ऽर्करथो यथा
अन्तरान्निर्गतश्चैव मायया स दितेः सुतः आजघान तदा शक्त्या शैलादिं समवस्थितम्
तामेव तु विनिष्क्रम्य शक्तिं शोणितभूषिताम् विद्युन्मालिनमुद्दिश्य चिक्षेप प्रमथाग्रणीर्
तया भिन्नतनुत्राणो विभिन्नहृदयस्त्वपि विद्युन्माल्यपतद्भूमौ वज्राहत इवाचलः
विद्युन्मालिनि निहते सिद्धचारणकिंनराः साधु साध्विति चोक्त्वा ते पूजयन्त उमापतिम्
नन्दिना सादिते दैत्ये विद्युन्मालौ हते मयः ददाह प्रमथानीकं वनमग्निरिवोद्धतः
शूलनिर्दारितोरस्का गदाचूर्णितमस्तकाः इषुभिर्गाढविद्धाश्च पतन्ति प्रमथार्णवे
नागं तु नागाधिपतेः शताक्षं मयो विदार्येषुवरेण तूर्णम् यमं च वित्ताधिपतिं च विद्ध्वा ररास मत्ताम्बुदवत्तदानीम्
ततः शरैः प्रमथगणैश्च दानवा दृढाहताश्चोत्तमवेगविक्रमाः भृशानुविद्धास्त्रिपुरं प्रवेशिता यथा शिवश्चक्रधरेण संयुगे
ततस्तु शङ्खानकभेरिमर्दलाः ससिंहनादा दनुपुत्रभङ्गदाः कपर्दिसैन्ये प्रबभुः समन्ततो निपात्यमाना युधि वज्रसंनिभाः
अथ दैत्यपुराभावे पुष्ययोगो बभूव ह बभूव चापि संयुक्तं तद्योगेन पुरत्रयम्
ततो बाणं त्रिधा देवस् त्रिदैवतमयं हरः मुमोच त्रिपुरे तूर्णं त्रिनेत्रस्त्रिपथाधिपः
तेन मुक्तेन बाणेन बाणपुष्पसमप्रभम् आकाशं स्वर्णसंकाशं कृतं सूर्येण रञ्जितम्
मुक्त्वा त्रिदैवतमयं त्रिपुरे त्रिदशः शरम् धिग्धिङ् मामिति चक्रन्द कष्टं कष्टमिति ब्रुवन्
वैधुर्यं दैवतं दृष्ट्वा शैलादिर्गजवद्गतः किमिदं त्विति पप्रच्छ शूलपाणिं महेश्वरम्
ततः शशाङ्कतिलकः कपर्दी परमार्तवत् उवाच नन्दिनं भक्तः स मयो ऽद्य विनङ्क्ष्यति
अथ नन्दीश्वरस्तूर्णं मनोमारुतवद्बली शरे त्रिपुरमायाति त्रिपुरं प्रविवेश सः
स मयं प्रेक्ष्य गणपः प्राह काञ्चनसंनिभः विनाशस्त्रिपुरस्यास्य प्राप्तो मय सुदारुणः अनेनैव गृहेण त्वम् अपक्राम ब्रवीम्यहम्
श्रुत्वा तन्नन्दिवचनं दृढभक्तो महेश्वरे तेनैव गृहमुख्येण त्रिपुराद् अपसर्पितः
सो ऽपीषुः पत्त्रपुटवद् दग्ध्वा तन्नगरत्रयम् त्रिधा इव हुताशश्च सोमो नारायणस्तथा
शरतेजःपरीतानि पुराणि द्विजपुंगवाः दुष्पुत्रदोषाद्दह्यन्ते कुलान्यूर्ध्वं यथा तथा
मेरुकैलासकल्पानि मन्दराग्रनिभानि च सकपाटगवाक्षाणि बलिभिः शोभितानि च
सप्रासादानि रम्याणि कूटागारोत्कटानि च सजलानि समाख्यानि सावलोकनकानि च
बद्धध्वजपताकानि स्वर्णरौप्यमयानि च गृहाणि तस्मिंस्त्रिपुरे दानवानामुपद्रवे दह्यन्ते दहनाभानि दहनेन सहस्रशः
प्रासादाग्रेषु रम्येषु वनेषूपवनेषु च वातायनगताश्चान्याश् चाकाशस्य तलेषु च