सविद्युन्मालिनस्ते वै समया दितिनन्दनाः मोदमानाः समासेदुर् देवदेवैः सुरारयः
मर्तव्यकृतबुद्धीनां जये चानिश्चितात्मनाम् अबलानां चमूर्ह्यासीद् अबलावयवा इव
विगर्जन्त इवाम्भोदा अम्भोदसदृशत्विषः प्रयुध्य युद्धकुशलाः परस्परकृतागसः
धूमायन्तो ज्वलद्भिश्च आयुधैश्चन्द्रवर्चसैः कोपाद्वा युद्धलुब्धाश्च कुट्टयन्ते परस्परम्
वज्राहताः पतन्त्यन्ये बाणैरन्ये विदारिताः अन्ये विदारिताश्चक्रैः पतन्ति ह्युदधेर्जले
छिन्नस्रग्दामहाराश्च प्रमृष्टाम्बरभूषणाः तिमिनक्रगणे चैव पतन्ति प्रमथाः सुराः
गदानां मुसलानां च तोमराणां परश्वधाम् वज्रशूलर्ष्टिपातानां पट्टिशानां च सर्वतः
गिरिशृङ्गोपलानां च प्रेरितानां प्रमन्युभिः सजवानां दानवानां सधूमानां रवित्विषाम् आयुधानां महानोघः सागरौघे पतत्यपि
प्रवृद्धवेगैस्तैस्तत्र सुरासुरकरेरितैः आयुधैस्त्रस्तनक्षत्रः क्रियते संक्षयो महान्
क्षुद्राणां गजयोर्युद्धे यथा भवति संक्षयः देवासुरगणैस् तद्वत् तिमिनक्रक्षयो ऽभवत्
विद्युन्माली च वेगेन विद्युन्माली इवाम्बुदः विद्युर्मालघनोन्नादो नन्दीश्वरमभिद्रुतः
स तं तमोरिवदनं प्रणदन्वदतां वरः उवाच युधि शैलादिं दानवो ऽम्बुधिनिःस्वनः
युद्धाकाङ्क्षी तु बलवान् विद्युन्माल्यहमागतः यदि त्विदानीं मे जीवन् मुच्यसे नन्दिकेश्वर न विद्युन्मालिहननं वचोभिर्युधि दानव
तम् एवंवादिनं दैत्यं नन्दीशस्तपतां वरः उवाच प्रहरंस्तत्र वाक्यालंकारकोविदः
दानवा धर्मकामाणां नैषो ऽवसर इत्युत शक्तो हन्तुं किमात्मानं जातिदोषाद् विबृंहसि
यदि तावन्मया पूर्वं हतो ऽसि पशुवद्यथा इदानीं वा कथं नाम न हिंस्ये क्रतुदूषणम्
सागरं तरते दोर्भ्यां पातयेद्यो दिवाकरम् सो ऽपि मां शक्नुयान्नैव चक्षुर्भ्यां समवेक्षितुम्
इत्येवंवादिनं तत्र नन्दिनं तन्निभो बले बिभेदैकेषुणा दैत्यः करेणार्क इवाम्बुदम्
वक्षसः स शरस्तस्य पपौ रुधिरमुत्तमम् सूर्यस्त्वात्मप्रभावेण नद्यर्णवजलं यथा
स तेन सुप्रहारेण प्रथमं चातिरोपितः हस्तेन वृक्षमुत्पाट्य चिक्षेप गजराडिव
वायुनुन्नः स च तरुः शीर्णपुष्पो महारवः विद्युन्मालिशरैश्छिन्नः पपात पतगेशवत्
वृक्षमालोक्य तं छिन्नं दानवेन वरेषुभिः रोषमाहारयत्तीव्रं नन्दीश्वरः सुविग्रहः
सोद्यम्य करमारावे रविशक्रकरप्रभम् दुद्राव हन्तुं स क्रूरं महिषं गजराडिव
तमापतन्तं वेगेन वेगवान्प्रसभं बलात् विद्युन्माली शरशतैः पूरयामास नन्दिनम्
शरकण्टकिताङ्गो वै शैलादिः सो ऽभवत्पुनः अरेर्गृह्य रथं तस्य महतः प्रययौ जवात्
विलम्बिताश्वो विशिरो भ्रमितश्च रणे रथः पपात मुनिशापेन सादित्यो ऽर्करथो यथा
अन्तरान्निर्गतश्चैव मायया स दितेः सुतः आजघान तदा शक्त्या शैलादिं समवस्थितम्
तामेव तु विनिष्क्रम्य शक्तिं शोणितभूषिताम् विद्युन्मालिनमुद्दिश्य चिक्षेप प्रमथाग्रणीर्
तया भिन्नतनुत्राणो विभिन्नहृदयस्त्वपि विद्युन्माल्यपतद्भूमौ वज्राहत इवाचलः
विद्युन्मालिनि निहते सिद्धचारणकिंनराः साधु साध्विति चोक्त्वा ते पूजयन्त उमापतिम्