कलप्रलापेषु च दानवीनां वीणाप्रलापेषु च मूर्छितेषु मत्तप्रलापेषु च कोकिलानां सचापबाणो मदनो ममन्थ
तमांसि नैशानि द्रुतं निहत्य ज्योत्स्नावितानेन जगद्वितत्य खे रोहिणीं तां च प्रियां समेत्य चन्द्रः प्रभाभिः कुरुते ऽधिराज्यम्
स्थित्वैव कान्तस्य तु पादमूले काचिद्वरस्त्री स्वकपोलमूले विशेषकं चारुतरं करोति तेनाननं स्वं समलंकरोति
दृष्ट्वाननं मण्डलदर्पणस्थं महाप्रभा मे मुखजेति जप्त्वा स्मृत्वा वराङ्गी रमणेरितानि तेनैव भावेन रतीमवाप
रोमाञ्चितैर्गात्रवरैर्युवभ्यो रतानुरागाद् रमणेन चान्याः स्वयं द्रुतं यान्ति मदाभिभूताः क्षपा यथा चार्कदिनावसाने
पेपीयते चातिरसानुविद्धा विमार्गितान्या च प्रियं प्रसन्ना काचित्प्रियस्यातिचिरात्प्रसन्ना आसीत्प्रलापेषु च सम्प्रसन्ना
गोशीर्षयुक्तैर्हरिचन्दनैश्च पङ्काङ्किताक्षी च वरासुरीणाम् मनोज्ञरूपा रुचिरा बभूवुः पूर्णामृतस्येव सुवर्णकुम्भाः
क्षताधरोष्ठा द्रुतदोषरक्ता ललन्ति दैत्या दयितासु रक्ताः तन्त्रीप्रलापास्त्रिपुरेषु रक्ताः स्त्रीणां प्रलापेषु पुनर्विरक्ताः
क्वचित्प्रवृत्तं मधुराभिगानं कामस्य बाणैः सुकृतं निधानम् आपानभूमीषु सुखप्रमेयं गेयं प्रवृत्तं त्वथ साधयन्ति
गेयं प्रवृत्तं त्वथ शोधयन्ति केचित्प्रियां तत्र च साधयन्ति केचित्प्रियां सम्प्रति बोधयन्ति संबुध्य संबुध्य च रामयन्ति
धूतप्रसूनप्रभवः सुबन्धः सूर्ये गते वै त्रिपुरे बभूव समर्मरो नूपुरमेखलानां शब्दश्च संबाधति कोकिलानाम्
प्रियावगूढा दयितोपगूढा काचित्प्ररूढाङ्गरुहापि नारी सुचारुबाष्पाङ्कुरपल्लवानां नवाम्बुसिक्ता इव भूमिरासीत्
शशाङ्कपादैरुपशोभितेषु प्रासादवर्येषु वराङ्गनानाम् माधुर्यभूताभरणा महान्तः स्वना बभूवुर्मदनेषु तुल्याः
पानेन खिन्ना दयितातिवेलं कपोलमाजिघ्रसि किं ममेदम् आरोह मे श्रोणिमिमां विशालां पीनोन्नतां काञ्चनमेखलाढ्याम्
रथ्यासु चन्द्रोदयभासितासु सुरेन्द्रमार्गेषु च विस्तृतेषु दैत्याङ्गना यूथगता विभान्ति तारा यथा चन्द्रमसो दिवान्ते
अट्टाट्टहासेषु च चामरेषु प्रेङ्खासु चान्या मदलोलभावात् संदोलयन्ते कलसम्प्रहासाः प्रोवाच काञ्ची गुणसूक्ष्मनादा
अम्लानमालान्वितसुन्दरीणां पर्याय एषो ऽस्ति च हर्षितानाम् श्रूयन्ति वाचः कलधौतकल्पा वापीषु चान्ये कलहंसशब्दाः
काञ्चीकलापश्च सहाङ्गरागः प्रेङ्खासु तद्रागकृताश्च भावाः छिन्दन्ति तासामसुराङ्गनानां प्रियालयान् मन्मथमार्गणानाम्
चित्राम्बरश्चोद्धृतकेशपाशः संदोल्यमानः शुशुभे ऽसुरीणाम् सुचारुवेशाभरणैरुपेतस् तारागणैर् ज्योतिरिवास चन्द्रः
संदोलनाद् उच्छ्वसितैश्छिन्नसूत्रैः काञ्चीभ्रष्टैर्मणिभिर्विप्रकीर्णैः दोलाभूमिस्तैर्विचित्रा विभाति चन्द्रस्य पार्श्वोपगतैर् विचित्रा
सचन्द्रिके सोपवने प्रदोषे रुतेषु वृन्देषु च कोकिलानाम् शरव्ययं प्राप्य पुरे ऽसुराणां प्रक्षीणबाणो मदनश्चचार
चन्द्रो ऽथ कुन्दकुसुमाकरहारवर्णो ज्योत्स्नावितानरहितो ऽभ्रसमानवर्णः विछायतां हि समुपेत्य न भाति तद्वद् भाग्यक्षये धनपतिश्च नरो विवर्णः
चन्द्रप्रभामरुणसारथिनाभिभूय संतप्तकाञ्चनरथाङ्गसमानबिम्बः स्थित्वोदयाग्रमुकुटे बहुरेव सूर्यो भात्यम्बरे तिमिरतोयवहां तरिष्यन्
उदिते तु सहस्रांशौ मेरौ भासाकरे रवौ नदद्देवबलं कृत्स्नं युगान्त इव सागरः
सहस्रनयनो देवस् ततः शक्रः पुरंदरः सवित्तदः सवरुणस् त्रिपुरं प्रययौ हरः
ते नानाविधरूपाश्च प्रमथातिप्रमाथिनः ययुः सिंहरवैर् घोरैर् वादित्रनिनदैरपि
ततो वादितवादित्रैश् चातपत्रैर्महाद्रुमैः बभूव तद्बलं दिव्यं वनं प्रचलितं यथा
तदापतन्तं सम्प्रेक्ष्य रौद्रं रुद्रबलं महत् संक्षोभो दानवेन्द्राणां समुद्रप्रतिमो बभौ
ते चासीन्पट्टिशाञ्शक्तीः शूलदण्डपरश्वधान् शरासनानि वज्राणि गुरूणि मुसलानि च
प्रगृह्य कोपरक्ताक्षाः सपक्षा इव पर्वताः निजघ्नुः पर्वतघ्नाय घना इव तपात्यये