मृदितम् उपनिशम्य तारकाख्यं रविदीप्तानलभीषणायताक्षम् हृषितसकलनेत्रलोमसत्त्वाः प्रमथास्तोयमुचो यथा नदन्ति
इति सुहृदो वचनं निशम्य तत् त्वं तडिमालेः स मयः सुवर्णमाली रणशिरस्य् असिताञ्जनाचलाभो जगदे वाक्यमिदं नवेन्दुमालिम्
विद्युन्मालिन्न नः कालः साधितुं ह्यवहेलया करोमि विक्रमेणैतत् पुरं व्यसनवर्जितम्
विद्युन्माली ततः क्रुद्धो मयश्च त्रिपुरेश्वरः गणाञ्जघ्नुस्तु द्राघिष्ठाः सहितास्तैर्महासुरैः
येन येन ततो विद्युन् माली याति मयश्च सः तेन तेन पुरं शून्यं प्रमथैः प्रहृतैः कृतम्
अथ यमवरुणमृदङ्गघोषैः पणवडिण्डिमज्यास्वनप्रघोषैः सकरतलपुटैश्च सिंहनादैर् भवमभिपूज्य तदा सुरा अवतस्थुः
सम्पूज्यमानो दितिजैर्महात्मभिः सहस्ररश्मिप्रतिमौजसैर् विभुः अभिष्टुतः सत्यरतैस् तपोधनैर् यथास्तशृङ्गाभिगतो दिवाकरः
तारकाख्ये हते युद्धे उत्सार्य प्रमथान्मयः उवाच दानवान्भूयो भूयः स तु भयावृतान्
भो ऽसुरेन्द्राधुना सर्वे निबोधध्वं प्रभाषितम् यत्कर्तव्यं मया चैव युष्माभिश्च महाबलैः
पुष्यं समेष्यते काले चन्द्रश्चन्द्रनिभाननाः यदैकं त्रिपुरं सर्वं क्षणमेकं भविष्यति
कुरुध्वं निर्भयाः काले कोकिलाशंसितेन च स कालः पुष्ययोगस्य पुरस्य च मया कृतः
काले तस्मिन्पुरे यस्तु संभावयति संहतिम् स एनं कारयेच्चूर्णं बलिनैकैषुणा सुरः
यो वः प्राणो बलं यच्च या च वो वैरितासुराः तत्कृत्वा हृदये चैव पालयध्वमिदं पुरम्
महेश्वररथं ह्येकं सर्वप्राणेन भीषणम् विमुखीकुरुतात्यर्थं यथा नोत्सृजते शरम्
तत एवं कृते ऽस्माभिस् त्रिपुरस्यापि रक्षणे प्रतीक्षिष्यन्ति विवशाः पुष्ययोगं दिवौकसः
निशम्य तन्मयस्यैवं दानवास्त्रिपुरालयाः मुहुः सिंहरुतं कृत्वा मयमूचुर्यमोपमाः
प्रयत्नेन वयं सर्वे कुर्मस्तव प्रभाषितम् तथा कुर्मो यथा रुद्रो न मोक्ष्यति पुरे शरम्
अद्य यास्यामः संग्रामं तद्रुद्रस्य जिघांसवः कथयन्ति दितेः पुत्रा हृष्टा भिन्नतनूरुहाः
कल्पं स्थास्यति वा खस्थं त्रिपुरं शाश्वतं ध्रुवम् अदानवं वा भविता नारायणपदत्रयम्
वयं न धर्मं हास्यामो यस्मिन्योक्ष्यसि नो भवान् अदैवतम् अदैत्यं वा लोकं द्रक्ष्यन्ति मानवाः
इति संमन्त्र्य हृष्टास्ते पुरान्तर्विबुधारयः प्रदोषे मुदिता भूत्वा चेरुर्मन्मथचारताम्
मुहुर्मुक्तोदयो भ्रान्त उदयाग्रं महामणिः तमांस्युत्सार्य भगवांश् चन्द्रो जृम्भति सो ऽम्बरम्
कुमुदालंकृते हंसो यथा सरसि विस्तृते सिंहो यथा चोपविष्टो वैडूर्यशिखरे महान्
विष्णोर्यथा च विस्तीर्णे हारश्चोरसि संस्थितः तथावगाढे नभसि चन्द्रो ऽत्रिनयनोद्भवः भ्राजते भ्राजयंल् लोकान् सृजञ्ज्योत्स्नारसं बलात्
शीतांशावुदिते चन्द्रे ज्योत्स्नापूर्णे पुरे ऽसुराः प्रदोषे ललितं चक्रुर् गृहमात्मानमेव च
रथ्यासु राजमार्गेषु प्रासादेषु गृहेषु च दीपाश्चम्पकपुष्पाभा नाल्पस्नेहप्रदीपिताः
तदा मठेषु ते दीपाः स्नेहपूर्णाः प्रदीपिताः गृहाणि वसुमन्त्येषां सर्वरत्नमयानि च ज्वलतो ऽदीपयन्दीपांश् चन्द्रोदय इव ग्रहाः
चन्द्रांशुभिर्भासमानम् अन्तर्दीपैः सुदीपितम् उपद्रवैः कुलमिव पीयते त्रिपुरे तमः
तस्मिन्पुरे वै तरुणप्रदोषे चन्द्राट्टहासे तरुणप्रदोषे रत्यर्थिनो वै दनुजा गृहेषु सहाङ्गनाभिः सुचिरं विरेमुः
विनोदिता ये तु वृषध्वजस्य पञ्चेषवस्ते मकरध्वजेन तत्रासुरेष्वासुरपुंगवेषु स्वाङ्गाङ्गनाः स्वेदयुता बभूवुः