तदा भवपदन्यासाद् धयस्य वृषभस्य च पेतुः स्तनाश्च दन्ताश्च पीडिताभ्यां त्रिशूलिना
ततःप्रभृति चाश्वानां स्तना दन्ता गवां तथा मूढाः समभवंस्तेन चादृश्यत्वमुपागताः
तारकाख्यस्तु भीमाक्षो रौद्ररक्तान्तरेक्षणः रुद्रान्तिके सुसंरुद्धो नन्दिना कुलनन्दिना
परश्वधेन तीक्ष्णेन स नन्दी दानवेश्वरम् तक्षयामास वै तक्षा चन्दनं गन्धदो यथा
परश्वधहतः शूरः शैलादिः शरभो यथा दुद्राव खड्गं निष्कृष्य तारकाख्यो गणेश्वरम्
यज्ञोपवीतम् आदाय चिछेद च ननाद च ततः सिंहरवो घोरः शङ्खशब्दश्च भैरवः गणेश्वरैः कृतस्तत्र तारकाख्ये निषूदिते
प्रमथारसितं श्रुत्वा वादित्रस्वनमेव च पार्श्वस्थः सुमहापार्श्वं विद्युन्मालिं मयो ऽब्रवीत्
बहुवदनवतां किमेष शब्दो नदतां श्रूयते भिन्नसागराभः वद वचनं तडिन्मालिन् किं किम् एतद्गणपाला युयुधुर्ययुर्गजेन्द्राः
इति मयवचनाङ्कुशार्दितस्तं तडिन्माली रविरिवांशुमाली रणशिरसि समागतः सुराणां निजगादेदम् अरिंदमो ऽतिहर्षात्
यमवरुणमहेन्द्ररुद्रवीर्यस् तव यशसो निधिर्धीर तारकाख्यः सकलसमरशीर्षपर्वतेन्द्रो युद्ध्वा यस्तपति हि तारको गणेन्द्रैः
मृदितम् उपनिशम्य तारकाख्यं रविदीप्तानलभीषणायताक्षम् हृषितसकलनेत्रलोमसत्त्वाः प्रमथास्तोयमुचो यथा नदन्ति
इति सुहृदो वचनं निशम्य तत् त्वं तडिमालेः स मयः सुवर्णमाली रणशिरस्य् असिताञ्जनाचलाभो जगदे वाक्यमिदं नवेन्दुमालिम्
विद्युन्मालिन्न नः कालः साधितुं ह्यवहेलया करोमि विक्रमेणैतत् पुरं व्यसनवर्जितम्
विद्युन्माली ततः क्रुद्धो मयश्च त्रिपुरेश्वरः गणाञ्जघ्नुस्तु द्राघिष्ठाः सहितास्तैर्महासुरैः
येन येन ततो विद्युन् माली याति मयश्च सः तेन तेन पुरं शून्यं प्रमथैः प्रहृतैः कृतम्
अथ यमवरुणमृदङ्गघोषैः पणवडिण्डिमज्यास्वनप्रघोषैः सकरतलपुटैश्च सिंहनादैर् भवमभिपूज्य तदा सुरा अवतस्थुः
सम्पूज्यमानो दितिजैर्महात्मभिः सहस्ररश्मिप्रतिमौजसैर् विभुः अभिष्टुतः सत्यरतैस् तपोधनैर् यथास्तशृङ्गाभिगतो दिवाकरः
तारकाख्ये हते युद्धे उत्सार्य प्रमथान्मयः उवाच दानवान्भूयो भूयः स तु भयावृतान्
भो ऽसुरेन्द्राधुना सर्वे निबोधध्वं प्रभाषितम् यत्कर्तव्यं मया चैव युष्माभिश्च महाबलैः
पुष्यं समेष्यते काले चन्द्रश्चन्द्रनिभाननाः यदैकं त्रिपुरं सर्वं क्षणमेकं भविष्यति
कुरुध्वं निर्भयाः काले कोकिलाशंसितेन च स कालः पुष्ययोगस्य पुरस्य च मया कृतः
काले तस्मिन्पुरे यस्तु संभावयति संहतिम् स एनं कारयेच्चूर्णं बलिनैकैषुणा सुरः
यो वः प्राणो बलं यच्च या च वो वैरितासुराः तत्कृत्वा हृदये चैव पालयध्वमिदं पुरम्
महेश्वररथं ह्येकं सर्वप्राणेन भीषणम् विमुखीकुरुतात्यर्थं यथा नोत्सृजते शरम्
तत एवं कृते ऽस्माभिस् त्रिपुरस्यापि रक्षणे प्रतीक्षिष्यन्ति विवशाः पुष्ययोगं दिवौकसः
निशम्य तन्मयस्यैवं दानवास्त्रिपुरालयाः मुहुः सिंहरुतं कृत्वा मयमूचुर्यमोपमाः
प्रयत्नेन वयं सर्वे कुर्मस्तव प्रभाषितम् तथा कुर्मो यथा रुद्रो न मोक्ष्यति पुरे शरम्
अद्य यास्यामः संग्रामं तद्रुद्रस्य जिघांसवः कथयन्ति दितेः पुत्रा हृष्टा भिन्नतनूरुहाः
कल्पं स्थास्यति वा खस्थं त्रिपुरं शाश्वतं ध्रुवम् अदानवं वा भविता नारायणपदत्रयम्
वयं न धर्मं हास्यामो यस्मिन्योक्ष्यसि नो भवान् अदैवतम् अदैत्यं वा लोकं द्रक्ष्यन्ति मानवाः