परश्वधैस्तत्र शिलोपलैश्च त्रिशूलवज्रोत्तमकम्पनैश्च शरीरसद्मक्षपणं सुघोरं युद्धं प्रवृत्तं दृढवैरबद्धम्
अन्योन्यमुद्दिश्य विमर्दतां च प्रधावतां चैव विनिघ्नतां च शब्दो बभूवामरदानवानां युगान्तकालेष्विव सागराणाम्
व्रणैरजस्रं क्षतजं वमन्तः कोपोपरक्ता बहुधा नदन्तः गणेश्वरास्ते ऽसुरपुंगवाश्च युध्यन्ति शब्दं च महदुद्गिरन्तः
मार्गाः पुरे लोहितकर्दमालाः स्वर्णेष्टकास्फाटिकभिन्नचित्राः कृता मुहूर्तेन सुखेन गन्तुं छिन्नोत्तमाङ्गाङ्घ्रिकराः करालाः
कोपावृताक्षः स तु तारकाख्यः संख्ये सवृक्षः सगिरिर्निलीनः तस्मिन्क्षणे द्वारवरं रिरक्षो रुद्धं भवेनाद्भुतविक्रमेण
स तत्र प्राकारागतांश्च भूताञ् छातन् महानद्भुतवीर्यसत्त्वः चचार चाप्तेन्द्रियगर्वदृप्तः पुराद्विनिष्क्रम्य ररास घोरम्
ततः स दैत्योत्तमपर्वताभो यथाञ्जसा नाग इवाभिमत्तः निवारितो रुद्ररथं जिघृक्षुर् यथार्णवः सर्पति चातिवेलः
शेषः सुधन्वा गिरिशश्च देवश् चतुर्मुखो यः स त्रिलोचनश्च ते तारकाख्याभिगता गताजौ क्षोभं यथा वायुवशात्समुद्राः
शेषो गिरीशः सपितामहेशश् चोत्क्षुभ्यमाणः स रथे ऽम्बरस्थः बिभेद संधीषु बलाभिपन्नः कूजन्निनादांश्च करोति घोरान्
एकं तु ऋग्वेदतुरंगमस्य पृष्ठे पदं न्यस्य वृषस्य चैकम् तस्थौ भवः सोद्यतबाणचापः पुरस्य तत्सङ्गसमीक्षमाणः
तदा भवपदन्यासाद् धयस्य वृषभस्य च पेतुः स्तनाश्च दन्ताश्च पीडिताभ्यां त्रिशूलिना
ततःप्रभृति चाश्वानां स्तना दन्ता गवां तथा मूढाः समभवंस्तेन चादृश्यत्वमुपागताः
तारकाख्यस्तु भीमाक्षो रौद्ररक्तान्तरेक्षणः रुद्रान्तिके सुसंरुद्धो नन्दिना कुलनन्दिना
परश्वधेन तीक्ष्णेन स नन्दी दानवेश्वरम् तक्षयामास वै तक्षा चन्दनं गन्धदो यथा
परश्वधहतः शूरः शैलादिः शरभो यथा दुद्राव खड्गं निष्कृष्य तारकाख्यो गणेश्वरम्
यज्ञोपवीतम् आदाय चिछेद च ननाद च ततः सिंहरवो घोरः शङ्खशब्दश्च भैरवः गणेश्वरैः कृतस्तत्र तारकाख्ये निषूदिते
प्रमथारसितं श्रुत्वा वादित्रस्वनमेव च पार्श्वस्थः सुमहापार्श्वं विद्युन्मालिं मयो ऽब्रवीत्
बहुवदनवतां किमेष शब्दो नदतां श्रूयते भिन्नसागराभः वद वचनं तडिन्मालिन् किं किम् एतद्गणपाला युयुधुर्ययुर्गजेन्द्राः
इति मयवचनाङ्कुशार्दितस्तं तडिन्माली रविरिवांशुमाली रणशिरसि समागतः सुराणां निजगादेदम् अरिंदमो ऽतिहर्षात्
यमवरुणमहेन्द्ररुद्रवीर्यस् तव यशसो निधिर्धीर तारकाख्यः सकलसमरशीर्षपर्वतेन्द्रो युद्ध्वा यस्तपति हि तारको गणेन्द्रैः
मृदितम् उपनिशम्य तारकाख्यं रविदीप्तानलभीषणायताक्षम् हृषितसकलनेत्रलोमसत्त्वाः प्रमथास्तोयमुचो यथा नदन्ति
इति सुहृदो वचनं निशम्य तत् त्वं तडिमालेः स मयः सुवर्णमाली रणशिरस्य् असिताञ्जनाचलाभो जगदे वाक्यमिदं नवेन्दुमालिम्
विद्युन्मालिन्न नः कालः साधितुं ह्यवहेलया करोमि विक्रमेणैतत् पुरं व्यसनवर्जितम्
विद्युन्माली ततः क्रुद्धो मयश्च त्रिपुरेश्वरः गणाञ्जघ्नुस्तु द्राघिष्ठाः सहितास्तैर्महासुरैः
येन येन ततो विद्युन् माली याति मयश्च सः तेन तेन पुरं शून्यं प्रमथैः प्रहृतैः कृतम्
अथ यमवरुणमृदङ्गघोषैः पणवडिण्डिमज्यास्वनप्रघोषैः सकरतलपुटैश्च सिंहनादैर् भवमभिपूज्य तदा सुरा अवतस्थुः
सम्पूज्यमानो दितिजैर्महात्मभिः सहस्ररश्मिप्रतिमौजसैर् विभुः अभिष्टुतः सत्यरतैस् तपोधनैर् यथास्तशृङ्गाभिगतो दिवाकरः
तारकाख्ये हते युद्धे उत्सार्य प्रमथान्मयः उवाच दानवान्भूयो भूयः स तु भयावृतान्
भो ऽसुरेन्द्राधुना सर्वे निबोधध्वं प्रभाषितम् यत्कर्तव्यं मया चैव युष्माभिश्च महाबलैः
पुष्यं समेष्यते काले चन्द्रश्चन्द्रनिभाननाः यदैकं त्रिपुरं सर्वं क्षणमेकं भविष्यति