मघवा तु निहन्तुं तानसुरानमरेश्वरः लोकपाला ययुः सर्वे गणपालाश्च सर्वशः
ईश्वरा मोदिताः सर्व उत्पेतुश्चाम्बरे तदा खगतास्तु विरेजुस्ते पक्षवन्त इवाचलाः
प्रययुस्तत्पुरं हन्तुं शरीरमिव व्याधयः शङ्खाडम्बरनिर्घोषैः पणवान्पटहानपि नादयन्तः पुरो देवा दृष्टास्त्रिपुरवासिभिः
हरः प्राप्त इतीवोक्त्वा बलिनस्ते महासुराः आजग्मुः परमं क्षोभम् अत्ययेष्विव सागराः
सुरतूर्यरवं श्रुत्वा दानवा भीमदर्शनाः निनेदुर्वादयन्तश्च नानावाद्यान्यनेकशः
भूयोदीरितवीर्यास्ते परस्परकृतागसः पूर्वदेवाश्च देवाश्च सूदयन्तः परस्परम्
आक्रोशे ऽपि समप्रख्ये तेषां देहनिकृन्तनम् प्रवृत्तं युद्धमतुलं प्रहारकृतनिःस्वनम्
निष्पतन्त इवादित्याः प्रज्वलन्त इवाग्नयः शंसन्त इव नागेन्द्रा भ्रमन्त एव पक्षिणः गिरीन्द्रा इव कम्पन्तो गर्जन्त इव तोयदाः
जृम्भन्त इव शार्दूलाः गर्जन्त इव तोयदाः प्रवृद्धोर्मितरंगौघाः क्षुभ्यन्त इव सागराः
प्रमथाश्च महाशूरा दानवाश्च महाबलाः युयुधुर्निश्चला भूत्वा वज्रा इव महाचलैः
कार्मुकाणां विकृष्टानां बभूवुर्दारुणा रवाः कालानुगानां मेघानां यथा वियति वायुना
आहुश्च युद्धे मा भैषीः क्व यास्यसि मृतो ह्यसि प्रहराशु स्थितो ऽस्म्यत्र एहि दर्शय पौरुषम्
गृहाण छिन्द्धि भिन्द्धीति खाद मारय दारय इत्यन्योन्यम् अनूच्चार्य प्रययुर्यमसादनम्
खड्गापवर्जिताः केचित् केचिच्छिन्नाः परश्वधैः केचिन्मुद्गरचूर्णाश्च केचिद्बाहुभिराहताः
पट्टिशैः सूदिताः केचित् केचिच्छूलविदारिताः दानवाः शरपुष्पाभाः सवना इव पर्वताः निपतन्त्यर्णवजले भीमनक्रतिमिङ्गिले
व्यसुभिः सुनिबद्धाङ्गैः पतमानैः सुरेतरैः संबभूवार्णवे शब्दः सजलाम्बुदनिस्वनः
तेन शब्देन मकरा नक्रास्तिमितिमिङ्गिलाः मत्ता लोहितगन्धेन क्षोभयन्तो महार्णवम्
परस्परेण कलहं कुर्वाणा भीममूर्तयः भ्रमन्ते भक्षयन्तश्च दानवानां च लोहितम्
सरथान् सायुधान् साश्वान् सवस्त्राभरणावृतान् जग्रसुस्तिमयो दैत्यान् द्रावयन्तो जलेचरान्
मृधं यथासुराणां च प्रमथानां प्रवर्तते अम्बरे ऽम्भसि च तथा युद्धं चक्रुर्जलेचराः
यथा भ्रमन्ति प्रमथाः सदैत्यास् तथा भ्रमन्ते तिमयः सनक्राः यथैव छिन्दन्ति परस्परं तु तथैव क्रन्दन्ति विभिन्नदेहाः
व्रणाननैर् अङ्गरसं स्रवद्भिः सुरासुरैर्नक्रतिमिङ्गिलैश्च कृतो मुहूर्तेन समुद्रदेशः सरक्ततोयः समुदीर्णतोयः
पूर्वं महाम्भोधरपर्वताभं द्वारं महान्तं त्रिपुरस्य शक्रः निपीड्य तस्थौ महता बलेन युक्तो ऽमराणां महता बलेन
तथोत्तरं सो ऽन्तरजो हरस्य बालार्कजाम्बूनदतुल्यवर्णः स्कन्दः पुरद्वारमथारुरोह वृद्धो ऽस्तशृङ्गं प्रपतन्निवार्कः
यमश्च वित्ताधिपतिश्च देवो दण्डान्वितः पाशवरायुधश्च देवारिणस्तस्य पुरस्य द्वारं ताभ्यां तु तत्पश्चिमतो निरुद्धम्
दक्षारिरुद्रस्तपनायुताभः स भास्वता देवरथेन देवः तद्दक्षिणद्वारमरेः पुरस्य रुद्ध्वावतस्थौ भगवांस्त्रिनेत्रः
तुङ्गानि वेश्मानि सगोपुराणि स्वर्णानि कैलासशशिप्रभाणि प्रह्लादरूपाः प्रमथावरुद्धा ज्योतींषि मेघा इव चाश्मवर्षाः
उत्पात्य चोत्पाट्य गृहाणि तेषां सशैलमालासमवेदिकानि प्रक्षिप्य प्रक्षिप्य समुद्रमध्ये कालाम्बुदाभाः प्रमथा विनेदुः
रक्तानि चाशेषवनैर्युतानि साशोकखण्डानि सकोकिलानि गृहाणि हे नाथ पितः सुतेति भ्रातेति कान्तेति प्रियेति चापि उत्पाट्यमानेषु गृहेषु नार्यस् त्व् अनार्यशब्दान्विविधान्प्रचक्रुः
कलत्रपुत्रक्षयप्राणनाशे तस्मिन्पुरे युद्धमतिप्रवृत्ते महासुराः सागरतुल्यवेगा गणेश्वराः कोपवृताः प्रतीयुः